सच्चिदान्दात्मकं ब्रह्म विद्याविद्याभ्यां बन्धमोक्षास्पदमित्युक्तमिदानीं ब्रह्मानन्दे विचारमवतारयन्नविगीतमर्थमाह —
अत्रेति ।
तथाऽपि प्रकृते वाक्ये किमायातमिति तदाह —
अत्र चेति ।
न च केवलमत्रैवाऽऽनन्दशब्दो ब्रह्मविशेषणार्थकत्वेन श्रुतः किन्तु तैत्तिरीयकादावपीत्याह —
श्रुत्यन्तरे चेति ।
ब्रह्मणो विशेषणत्वेनाऽऽनन्दशब्दः श्रूयत इति संबन्धः ।
अन्याः श्रूतीरेवोदाहरति —
आनन्द इत्यादिना ।
एवमाद्याः श्रुतय इति शेषः ।
तथाऽपि कथं विचारसिद्धिस्तत्राऽऽह —
संवेद्य इति ।
लोकप्रसिद्धेरद्वैतश्रुतेश्च ब्रह्मण्यानन्दः संवेद्योऽसंवेद्यो वेति विचारः कर्तव्य इत्यर्थः ।
उभयत्र फलं दर्शयति —
ब्रह्माऽऽनन्दश्चेति ।
अन्यथा लोकवेदयोः शब्दार्थभेदादविशिष्टस्तु वाक्यार्थ इति न्यायविरोधोऽसंवेद्यत्वे पुनरद्वैतश्रुतिरविरुद्धेति भावः ।
विचारमाक्षिपति —
नन्विति ।
विरुद्धश्रुत्यर्थनिर्णयार्थं विचारकर्तव्यतां दर्शयति —
नेति ।
संग्रहवाक्यं विवृणोति —
सत्यमित्यादिना ।
एकत्वे सति विज्ञानप्रतिषेधश्रुतिमेवोदाहरति —
यत्रेत्यादिना ।
इत्यादिश्रवणमिति शेषः ।
फलितमाह —
विरुद्धश्रुतीति ।
श्रुतिविप्रतिपत्तेर्विचारकर्तव्यतामुपसंहरति —
तस्मादिति ।
तत्रैव हेत्वन्तरमाह —
मोक्षेति ।
तामेव विप्रतिपत्तिं विवृणोति —
साङ्ख्या इति ।