इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ २ ॥
इन्धो ह वै नाम । इन्ध इत्येवंनामा, यः चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तर्गतः पुरुषः स एषः, योऽयं दक्षिणे अक्षन् अक्षणि विशेषेण व्यवस्थितः — स च सत्यनामा ; तं वै एतं पुरुषम् , दीप्तिगुणत्वात् प्रत्यक्षं नाम अस्य इन्ध इति, तम् इन्धं सन्तम् इन्द्र इत्याचक्षते परोक्षेण । यस्मात्परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति । एष त्वं वैश्वानरमात्मानं सम्पन्नोऽसि ॥