बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट्तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदय लोहितपिण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥
अथैतत् वामेऽक्षणि पुरुषरूपम् , एषा अस्य पत्नी — यं त्वं वैश्वानरमात्मानं सम्पन्नोऽसि तस्यास्य इन्द्रस्य भोक्तुः भोग्या एषा पत्नी, विराट् अन्नं भोग्यत्वादेव ; तदेतत् अन्नं च अत्ता च एकं मिथुनं स्वप्ने । कथम् ? तयोरेषः — इन्द्राण्याः इन्द्रस्य च एषः संस्तावः, सम्भूय यत्र संस्तवं कुर्वाते अन्योन्यं स एष संस्तावः ; कोऽसौ ? य एषोऽन्तर्हृदय आकाशः — अन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये ; अथैनयोः एतत् वक्ष्यमाणम् अन्नं भोज्यं स्थितिहेतुः ; किं तत् ? य एषोऽन्तर्हृदये लोहितपिण्डः — लोहित एव पिण्डाकारापन्नो लोहितपिण्डः ; अन्नं जग्धं द्वेधा परिणमते ; यत्स्थूलं तदधो गच्छति ; यदन्यत् तत्पुनरग्निना पच्यमानं द्वेधा परिणमते — यो मध्यमो रसः स लोहितादिक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति ; योऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य, यं तैजसमाचक्षते ; स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः स्थितिहेतुर्भवति — तदेतदुच्यते — अथैनयोरेतदन्नमित्यादि । किञ्चान्यत् ; अथैनयोरेतत्प्रावरणम् — भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके, तत्सामान्यं हि कल्पयति श्रुतिः ; किं तदिह प्रावरणम् ? यदेतदन्तर्हृदये जालकमिव अनेकनाडीछिद्रबहुलत्वात् जालकमिव । अथैनयोरेषा सृतिः मार्गः, सञ्चरतोऽनयेति सञ्चरणी, स्वप्नाज्जागरितदेशागमनमार्गः ; का सा सृतिः ? यैषा हृदयात् हृदयदेशात् ऊर्ध्वाभिमुखी सती उच्चरति नाडी ; तस्याः परिमाणमिदमुच्यते — यथा लोके केशः सहस्रधा भिन्नः अत्यन्तसूक्ष्मो भवति एवं सूक्ष्मा अस्य देहस्य सम्बन्धिन्यः हिता नाम हिता इत्येवं ख्याताः नाड्यः, ताश्चान्तर्हृदये मांसपिण्डे प्रतिष्ठिता भवन्ति ; हृदयाद्विप्ररूढास्ताः सर्वत्र कदम्बकेसरवत् ; एताभिर्नाडीभिरत्यन्तसूक्ष्माभिः एतदन्नम् आस्रवत् गच्छत् आस्रवति गच्छति ; तदेतद्देवताशरीरम् अनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति । तस्मात् — यस्मात् स्थूलेनान्नेन उपचितः पिण्डः, इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति, पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य, लिङ्गस्थितिकरं तु अन्नं ततोऽपि सूक्ष्मतरम् — अतः प्रविविक्ताहारः पिण्डः, तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गात्मा इवैव भवति, अस्माच्छरीरात् शरीरमेव शारीरं तस्माच्छारीरात् , आत्मनः वैश्वानरात् — तैजसः सूक्ष्मान्नोपचितो भवति ॥

एकस्यैव वैश्वानरस्योपासनार्थं प्रासंगिकमिन्द्रश्चेन्द्राणी चेति मिथुनं कल्पयति —

अथेत्यादिना ।

प्रासंगिकध्यानाधिकारार्थोऽथशब्दः ।

यादेतन्मिथुनं जागरिते विश्वशब्दितं तदेवैकं स्वप्ने तैजसशब्दवाच्यमित्याह —

तदेतदिति ।

तच्छब्दितं तैजसमविकृत्य पृच्छति —

कथमिति ।

किं तस्य स्थानं पृच्छ्यतेऽन्नं वा प्रावरणं वा मार्गो वेति विकल्प्याऽऽद्यं प्रत्याह —

तयोरिति ।

संस्तवं संगतिमिति यावत् ।

द्वितीयं प्रत्याह —

अथेति ।

अन्नातिरेकेण स्थितेरसंभवात्तस्य वक्तव्यत्वादित्यथशब्दार्थः ।

लोहितपिण्डं सूक्ष्मान्नरसं व्याख्यातुं भक्षितस्यान्नस्य तावद्विभागमाह —

अन्नमिति।

यदन्यत्पुनरिति योजनीयम् । तत्रेत्यध्याहृत्य यो मध्यम इत्यादिग्रन्थो योज्यः ।

उपाध्युपहितयोरेकत्वमाश्रित्याऽऽह —

यं तैजसमिति ।

तस्यान्नत्वमुपपादयति —

स तयोरिति ।

व्याख्यातेऽर्थे वाक्यस्यान्वितावयवत्वमाह —

तदेतदिति ।

यदि प्रावरणं पृच्छ्यते तत्राऽऽह —

किञ्चान्यदिति।

भोगस्वापानन्तर्यमथशब्दार्थः ।

प्रावरणप्रदर्शनस्य प्रयोजनमाह —

भुक्तवतोरिति ।

इहेति भोक्तृभोग्ययोरिन्द्रेन्द्राण्योरुक्तिः । हृदयजालकयोराधाराधेयत्वमविवक्षितं तस्यैव तद्भावात् ।

मार्गश्चेत्पृच्छ्यते तत्राऽऽह —

अथेति ।

नाडीभिः शरीरं व्याप्तस्यान्नस्य प्रयोजनमाह —

तदेतदिति ।

तस्मादित्यादिवाक्यमादाय व्याचष्टे —

यस्मादिति ।

तथाऽपि प्रविविक्ताहार इत्येव वक्तव्ये प्रविविक्ताहारतर इति कस्मादुच्यते तत्राऽऽह —

पिण्डेति ।

यस्मादित्यस्यापेक्षितं कथयति —

अत इति ।

शारीरादिति श्रूयते कथं शरीरादित्युच्यते तत्राऽऽह —

शरीरमेवेति।

उक्तमर्थं संक्षिप्योपसंहरति —

आत्मन इति ॥३॥