बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्यभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहा अयमहमस्मि ॥ ४ ॥
स एष हृदयभूतः तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति ; तस्यास्य विदुषः क्रमेण वैश्वानरात् तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मानमापन्नस्य प्राची दिक् प्राञ्चः प्राग्गताः प्राणाः ; तथा दक्षिणा दिक् दक्षिणे प्राणाः ; तथा प्रतीची दिक् प्रत्यञ्चः प्राणाः ; उदीची दिक् उदञ्चः प्राणाः ; ऊर्ध्वा दिक् ऊर्ध्वाः प्राणाः ; अवाची दिक् अवाञ्चः प्राणाः ; सर्वा दिशः सर्वे प्राणाः । एवं विद्वान् क्रमेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति ; तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुर्हि द्रष्टृभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते ; यम् एष विद्वान् अनेन क्रमेण प्रतिपद्यते, स एष नेति नेत्यात्मेत्यादि न रिष्यतीत्यन्तं व्याख्यातमेतत् । अभयं वै जन्ममरणादिनिमित्तभयशून्यम् , हे जनक, प्राप्तोऽसि — इति ह एवं किल उवाच उक्तवान् याज्ञवल्क्यः । तदेतदुक्तम् — अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । स होवाच जनको वैदेहः — अभयमेव त्वा त्वामपि गच्छतात् गच्छतु, यस्त्वं नः अस्मान् हे याज्ञवल्क्य भगवन् पूजावन् अभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवान् उपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः ; किमन्यदहं विद्यानिष्क्रयार्थं प्रयच्छामि, साक्षादात्मानमेव दत्तवते ; अतो नमस्तेऽस्तु ; इमे विदेहाः तव यथेष्टं भुज्यन्ताम् ; अयं चाहमस्मि दासभावे स्थितः ; यथेष्टं मां राज्यं च प्रतिपद्यस्वेत्यर्थः ॥

तस्य प्राची दिगित्याद्यवतारयितुं भूमिकां करोति —

स एष इति ।

प्राणशब्देनाज्ञातः प्रत्यगात्मा प्राज्ञो गृह्यते ।

एवं भूमिकां कृत्वा वाक्यमादाय व्याकरोति —

तस्येत्यादिना ।

तैजसं प्राप्तस्येत्यस्य व्याख्यानं हृदयात्मानमापन्नस्येति ।

उक्तमर्थं संक्षिप्याऽऽह —

एवं विद्वानिति ।

विश्वस्य जागरिताभिमानिनस्तैजसे तस्य च स्वप्नाभिमानिनः सुषुप्त्यभिमानिनि प्राज्ञे क्रमेणान्तर्भावं जानन्नित्यर्थः ।

स एष नेति नेत्यात्मेत्यादेर्भूमिकां करोति —

तं सर्वात्मानमिति ।

तत्र वाक्यमवतार्य पूर्वोक्तं व्याख्यानं स्मारयति —

यमेष इति ।

तुरीयादपि प्राप्तव्यमन्यदभयमस्तीत्याशङ्क्याऽऽह —

अभयमिति ।

 गन्तव्यं वक्ष्यामीत्युपक्रम्यावस्थात्रयातीतं तुरीयमुपदिशन्नाम्रान्पृष्टः कोविदारानाचष्ट इति न्यायविषयतां नातिवर्तेतेत्याशङ्क्याऽऽह —

तदेतदिति ।

विद्याया दक्षिणान्तराभावमभिप्रेत्याऽऽह —

स होवाचेति ।

कथं पुनरन्यस्य स्थितस्य नष्टस्य वाऽन्यप्रापणमित्याशङ्क्याऽऽह —

उपाधीति ।

पश्वादिकं दक्षिणान्तरं संभवतीत्याशङ्क्य तस्योक्तविद्यानुरूपत्वं नास्तीत्याह —

किमन्यदिति ।

वस्तुतो दक्षिणान्तराभावमुक्त्वा प्रतीतिमाश्रित्याऽऽह —

अत इति ।

अक्षरार्थमुक्त्वा वाक्यार्थमाह —

यथेष्टमिति ॥४॥