बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
जनकं ह वैदेहं याज्ञवल्क्यो जगामेत्यस्याभिसम्बन्धः । विज्ञानमय आत्मा साक्षादपरोक्षाद्ब्रह्म सर्वान्तरः पर एव — ‘नान्योऽतोऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यः । स एष इह प्रविष्टः वदनादिलिङ्गः अस्ति व्यतिरिक्त इति मधुकाण्डे अजातशत्रुसंवादे प्राणादिकर्तृत्वभोक्तृत्वप्रत्याख्यानेनाधिगतोऽपि सन् , पुनः प्राणनादिलिङ्गमुपन्यस्य औषस्तप्रश्ने प्राणनादिलिङ्गो यः सामान्येनाधिगतः ‘प्राणेन प्राणिति’ इत्यादिना, ‘दृष्टेर्द्रष्टा’ इत्यादिना अलुप्तशक्तिस्वभावोऽधिगतः । तस्य च परोपाधिनिमित्तः संसारः — यथा रज्जूषरशुक्तिकागगनादिषु सर्पोदकरजतमलिनत्वादि परोपाध्यारोपणनिमित्तमेव, न स्वतः, तथा ; निरुपाधिको निरुपाख्यः नेति नेतीति व्यपदेश्यः साक्षादपरोक्षात्सर्वान्तरः आत्मा ब्रह्म अक्षरम् अन्तर्यामी प्रशास्ता औपनिषदः पुरुषः विज्ञानमानन्दं ब्रह्मेत्यधिगतम् । तदेव पुनरिन्धसंज्ञः प्रविविक्ताहारः ; ततोऽन्तर्हृदये लिङ्गात्मा प्रविविक्ताहारतरः ; ततः परेण जगदात्मा प्राणोपाधिः ; ततोऽपि प्रविलाप्य जगदात्मानमुपाधिभूतं रज्ज्वादाविव सर्पादिकं विद्यया, ‘स एष नेति नेति —’ इति साक्षात्सर्वान्तरं ब्रह्म अधिगतम् । एवम् अभयं परिप्रापितो जनकः याज्ञवल्क्येन आगमतः सङ्क्षेपतः । अत्र च जाग्रत्स्वप्नसुषुप्ततुरीयाण्युपन्यस्तानि अन्यप्रसङ्गेन — इन्धः, प्रविविक्ताहारतरः, सर्वे प्राणाः, स एष नेति नेतीति । इदानीं जाग्रत्स्वप्नादिद्वारेणैव महता तर्केण विस्तरतोऽधिगमः कर्तव्यः ; अभयं प्रापयितव्यम् ; सद्भावश्च आत्मनः विप्रतिपत्त्याशङ्कानिराकरणद्वारेण — व्यतिरिक्तत्वं शुद्धत्वं स्वयञ्ज्योतिष्ट्वम् अलुप्तशक्तिस्वरूपत्वं निरतिशयानन्दस्वाभाव्यम् अद्वैतत्वं च अधिगन्तव्यमिति — इदमारभ्यते । आख्यायिका तु विद्यासम्प्रदानग्रहणविधिप्रकाशनार्था, विद्यास्तुतये च विशेषतः, वरदानादिसूचनात् ॥

पूर्वस्मिन्ब्राह्मणे जागरादिद्वारा तत्त्वं निर्धारितं संप्रति ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धं प्रतिजानीते —

जनकमिति ।

तमेव वक्तुं तृतीये वृत्तं कीर्तयति —

विज्ञानमय इति ।

यद्ब्रह्म साक्षादपरोक्षात्सर्वान्तर आत्मा स पर एव विज्ञानमय आत्मेत्यत्र हेतुमाह —

नान्य इति ।

विज्ञानमयः पर एवेत्यत्र वाक्यान्तरं पठति —

स एष इति ।

वदन्वागित्यादावुक्तमनुवदति —

वदनादीति ।

तार्तीयमर्थमनूद्य चातुर्थिकमर्थमनुवदति —

अस्तीति ।

यदि मधुकाण्डे गार्ग्यकाश्यसंवादे प्राणादीनां कर्तृत्वादिनिराकरणेन तेभ्यो व्यतिरिक्तोऽस्ति विज्ञानात्मेति सोऽधिगतस्तर्हि किमिति पञ्चमे तत्सद्भावो व्युत्पाद्यते तत्राऽऽह —

पुनरिति ।

यद्यपि विज्ञानमयसद्भावश्चतुर्थे स्थितस्तथाऽपि पुनरौषस्त्ये प्रश्ने यः प्राणेन प्राणितीत्यादिना प्राणनादिलिङ्गमुपन्यस्य तल्लिङ्गगम्यः सामान्येनाधिगतः स दृष्टेर्द्रष्टेत्यादिना कूटस्थदृष्टिस्वभावो विशेषतो निश्चितस्तथा च पञ्चमेऽपि तद्व्युत्पादनमुचितमित्यर्थः ।

आत्मा कूटस्थदृष्टिस्वभावश्चेत्कथं तस्य संसारस्तत्राऽऽह —

तस्य चेति ।

अज्ञानं तत्कार्यं चान्तःकरणादि परोपाधिशब्दार्थः ।

संसारस्याऽऽत्मन्यौपाधिकत्वे दृष्टान्तमाह —

यथेति।

दार्ष्टान्तिकस्यानेकरूपत्वादनेकदृष्टान्तोपादानमित्यभिप्रेत्य दार्ष्टान्तिकमाह —

तथेति।

यथोक्तदृष्टान्तानुसारेणाऽऽत्मन्यपि परोपाधिः संसार इति यावत् ।

सोपाधिकस्याऽऽत्मनः संसारित्वमुक्त्वा निरुपाधिकस्य नित्यमुक्तत्वमाह —

निरुपाधिक इति ।

निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । कथं तर्हि तत्राऽऽगमप्रामाण्यं तत्राऽऽह —

नेति नेतीति व्यपदेश्य इति ।

कहोलप्रश्नोक्तमनुद्रवति —

साक्षादिति।

अक्षरब्राह्मणोक्तं स्मारयति —

अक्षरमिति ।

अन्तर्यामिब्राह्मणोक्तं स्मारयति —

अन्तर्यामीति।

शाकल्यब्राह्मणोक्तमनुसन्दधाति —

औपनिषद इति ।

पाञ्चमिकमर्थमित्थमनूद्यातीते ब्राह्मणद्वये वृत्तमनुभाषते —

तदेवेति।

यत्साक्षादपरोक्षात्सर्वान्तरं ब्रह्म तदेवाधिगमनोपायविशेषोपदर्शनपुरःसरं पुनरधिगतमिति संबन्धः ।

षडाचार्यब्राह्मणार्थं संक्षिप्य कूर्चब्राह्मणार्थं संक्षिपति —

इन्ध इत्यादिना ।

इन्धस्य विशेषणं प्रविविक्ताहार इति । हृदयेऽन्तर्यो लिङ्गात्मा स ततो वैश्वानरादिन्धात्प्रविविक्ताहारतर इति योजना ।

विश्वतैजसावुक्तौ प्राज्ञतुरीये प्रदर्शयति —

ततः परेणेति ।

ततस्तस्माद्विश्वात्तैजसाच्च परेणव्यवस्थितो यो जगदात्मा प्राणोपाधिरव्याकृताख्यः प्राज्ञस्ततोऽपि तमप्युपाधिभूतं जगदात्मानं केवले प्रतीचि विद्यया प्रविलाप्य स एष नेति नेतीति यत्तुरीयं ब्रह्म तदधिगतमिति संबन्धः ।

विद्ययोपाधिविलापने दृष्टान्तमाह —

रज्ज्वादाविति ।

अभयं वै जनकेत्यादावुक्तमनुवदति —

एवमिति ।

कूर्चब्राह्मणोक्तमर्थमनुभाषितं संक्षिप्याऽऽह —

अत्र चेति ।

अन्यप्रसंगेनोपासनानां क्रममुक्तिफलत्वप्रदर्शनप्रसंगेनेति यावत् ।

तेषामुपन्यासमेवाभिनयति —

इन्ध इत्यादिना ।

वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह —

इदानीमिति ।

आदिशब्दः सुषुप्तितुरीयसंग्रहार्थः । तर्कस्य महत्त्वं चतुर्विधदोषराहित्येनाबाधितत्वम् । अधिगमस्तस्यैव प्रस्तुतस्य ब्राह्मण इति शेषः । कर्तव्य इतीदमिदानीमारभ्यत इति संबन्धः ।

किमिदं ब्रह्मणोऽधिगमस्य कर्तव्यत्वं नाम तदाह —

अभयमिति ।

अधिगन्तव्यमर्थान्तरमाह —

सद्भावश्चेति ।

प्रागपि सद्भावस्तस्याधिगतस्तत्किमर्थं पुनस्तादर्थ्येन प्रयत्यते तत्राऽह —

विप्रतिपत्तीति ।

बाह्यानां विप्रतिपत्त्या नास्तित्वशङ्कायां तन्निरासद्वाराऽऽत्मनः सद्भावोऽधिगन्तव्य इत्यर्थः ।

आत्मनोऽस्तित्वेऽपि केचिद्देहादौ तदन्तर्भावमभ्युपयन्ति तान्प्रत्याह —

व्यतिरिक्तत्वमिति ।

देहादिव्यतिरिक्तोऽप्यात्मा कर्ता भोक्ता चेत्येके भोक्तैव केवलमित्यपरे तान्प्रत्युक्तम् —

शुद्धत्वमिति ।

तस्य जडत्वपक्षं प्रत्याचष्टे —

स्वयञ्ज्योतिष्ट्वमिति।

तत्र कूटस्थदृष्टिस्वभावत्वं हेतुमाह —

अलुप्तेति ।

एतेन विज्ञानस्य गुणत्वपक्षोऽपि प्रत्युक्तो वेदितव्यः ।

ये त्वानन्दमात्मगुणमाहुस्तान्प्रत्याह —

निरतिशयेति ।

आत्मनः सप्रपञ्चत्वपक्षं प्रत्यादिशति —

अद्वैतत्वं चेति ।

ब्राह्मणतात्पर्यमभिधायाऽऽख्यायिकातात्पर्यमाह —

आख्यायिका त्विति ।

विद्यायाः संप्रदानं शिष्यस्तस्य ग्रहणविधिः श्रद्धादिप्रकारस्तस्य प्रकाशनार्थेयमाख्यायिकेति यावत् ।

प्रयोजनान्तरं तस्या दर्शयति —

विद्येति ।

कथं कर्मभ्यो विशेषतो विद्यायाः स्तुतिरत्र लक्ष्यते तत्राऽऽह —

वरेति ।

कामप्रश्नाख्यस्य वरस्य याज्ञवल्क्येन राज्ञे दत्तत्वात्तेन चावसरे ब्रह्मज्ञानस्यैव पृष्टत्वादनेन विधिना विद्यास्तुतेः सूचनात्साऽप्यत्र विविक्षितेत्यर्थः ।