जनकं ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ स ह कामप्रश्नमेव वव्रे तं हास्मै ददौ तं ह सम्राडेव पूर्वं पप्रच्छ ॥ १ ॥
जनकं ह वैदेहं याज्ञवल्क्यो जगाम । स च गच्छन् एवं मेने चिन्तितवान् — न वदिष्ये किञ्चिदपि राज्ञे ; गमनप्रयोजनं तु योगक्षेमार्थम् । न वदिष्य इत्येवंसङ्कल्पोऽपि याज्ञवल्क्यः यद्यत् जनकः पृष्टवान् तत्तत् प्रतिपेदे ; तत्र को हेतुः सङ्कल्पितस्यान्यथाकरणे — इत्यत्र आख्यायिकामाचष्टे । पूर्वत्र किल जनकयाज्ञवल्क्ययोः संवाद आसीत् अग्निहोत्रे निमित्ते ; तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुपलभ्य परितुष्टो याज्ञवल्क्यः तस्मै जनकाय ह किल वरं ददौ ; स च जनकः ह कामप्रश्नमेव वरं वव्रे वृतवान् ; तं च वरं ह अस्मै ददौ याज्ञवल्क्यः ; तेन वरप्रदानसामर्थ्येन अव्याचिख्यासुमपि याज्ञवल्क्यं तूष्णीं स्थितमपि सम्राडेव जनकः पूर्वं पप्रच्छ । तत्रैव अनुक्तिः, ब्रह्मविद्यायाः कर्मणा विरुद्धत्वात् ; विद्यायाश्च स्वातन्त्र्यात् — स्वतन्त्रा हि ब्रह्मविद्या सहकारिसाधनान्तरनिरपेक्षा पुरुषार्थसाधनेति च ॥