याज्ञवल्क्यव्रतभाङ्गे हेतुमुक्त्वा जनकस्य प्रश्नमुत्थापयति —
हे याज्ञवल्क्येति ।
अक्षरार्थमुक्त्वा प्रश्नवाक्ये विवक्षितमर्थमाह —
किमयमित्यादिना।
स्वशब्दो यथोक्तपुरुषविषयः । ज्योतिष्कार्यमित्यासनादिव्यवहारोक्तिः ।
इत्येतदिति कल्पद्वयं परामृश्यते । फलं पक्षद्वयेऽपि पृच्छति —
किञ्चेति।
सप्तम्यर्थे तसिः ।
उत्तरमाह —
शृण्विति ।
तत्रेति पक्षद्वयोक्तिः । कारणं फलमिति यावत् ।
प्रथमपक्षमनूद्य स्वपक्षसिद्धिफलमाह —
यदीत्यादिना ।
षष्टी पुरुषमधिकरोति । यत्र कारणभूतं ज्योतिर्न दृश्यते तत्कार्यं त्वासनाद्युपलभ्यते तत्रापि विषये स्वप्नादाविति यावत् ।
अनुमानमेवाभिनयति —
व्यतिरिक्तेति ।
विमतमतिरिक्तज्योतिरधीनं व्यवहारत्वात्संमतवदित्यर्थः ।
पक्षान्तरमनूद्य लोकायतपक्षसिद्धिफलमाह —
अथेत्यादिना ।
अप्रत्यक्षेऽपीत्यव्यतिरिक्तमिति च्छेदः ।
कल्पान्तरमाह —
अथेति ।
अनियमं व्याकरोति —
व्यतिरिक्तमिति ।
तस्मिन्पक्षे व्यवहारहेतौ ज्योतिष्यनिश्चयात्तद्विकारो व्यवहारोऽपि न स्थैर्यमालम्बेतेत्याह —
तत इति ।
व्याख्यातं प्रश्नमुपसंहरति —
इत्येवमिति ।
प्रश्नमाक्षिपति —
नन्विति ।
व्यतिरिक्तज्योतिर्बुभुत्सया प्रश्नो भविष्यतीति चेत्तत्राऽऽह —
स्वयमेवेति ।
राज्ञोऽनुमानकौशलमङ्गीकरोति —
सत्यमिति ।
किमिति तर्हि पृच्छतीत्याशङ्क्याऽऽह —
तथाऽपीति ।
व्याप्यव्यापकयोस्तत्संबन्धस्य चातिसूक्ष्मत्वादेकेन दुर्ज्ञानत्वात्तज्ज्ञाने याज्ञवल्क्योऽप्यपेक्षित इत्यर्थः ।
कथं तेषाम् अतिसूक्ष्मत्वं तत्राऽऽह —
बहूनामपीति ।
लिङ्गादिष्वनेकेषामपि विवेकिनां दुर्बोधताऽस्ति किमुत्यैकस्य तेषु दुर्बोधता वाच्येत्यर्थः ।
तेषामत्यन्तसौक्ष्म्ये मानवीं स्मृतिं प्रमाणयति —
अत एवेति ।
कुशलस्यापि सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षायाः सत्त्वादेवेति यावत् ।
पुरुषविशेषो वेदविदध्यात्मविदित्यादिः । तत्र स्मृत्यर्थं संक्षिपति —
दशेति ।
उक्तं हि –
’धर्मेणाविगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥
दशावरा वा परिषद्यं धर्म परिचक्षते ।
त्र्यवरा वाऽपि वृत्तस्थास्तं धर्म न विचारयेत् ॥
त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाऽऽश्रमिणः पूर्वे पर्षदेषा दशावरा ॥
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये’ इति ॥
एको वेत्यध्यात्मविदुच्यते ।
कुशलस्यापि राज्ञो याज्ञवल्क्यं प्रति प्रश्नोपपत्तिमुपसंहरति —
तस्मादिति ।
सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षाया वृद्धसंमतत्वादिति यावत् ।
तत्रैव हेत्वन्तरमाह —
विज्ञानेति ।
राज्ञो याज्ञवल्क्यापेक्षामुपपाद्य पक्षान्तरमाह —
अथ वेति ।
तथा चात्र राज्ञो मुनेर्वा विवक्षितत्वाभावात्किमिति राजा मुनिमनुसरतीति चोद्यं निरवकाशमिति शेषः ।
प्रश्नोपपत्तौ प्रतिवचनमुपपन्नमेवेति मन्वानस्तदुत्थापयति —
याज्ञवल्क्योऽपीति ।
अतिरिक्ते ज्योतिषि प्रष्टू राज्ञोऽभिप्रायस्तदभिप्रायस्तदभिज्ञतया तथाविधं ज्योती राजानं बोधयिष्यन्यथाऽतिरिक्तज्योतिरावेदेकं वक्ष्यमाणं लिङ्गं गृहीतव्याप्तिकं प्रसिद्धं भवति तथा तद्व्याप्तिग्रहणस्थलमादित्यज्योतिरित्यादिना मुनिरपि प्रतिपन्नवानित्यर्थः ।
व्याप्तिं बुभुत्समानः पृच्छति —
कथमिति ।
यो व्यवहारः सोऽतिरिक्तज्योतिरधीनो यथा सवित्रधीनो जाग्रद्व्यवहार इति व्याप्तिं व्याकरोति —
आदित्येनेति ।
एवकारं व्याचष्टे —
स्वावयवेति।
आदित्यापेक्षामन्तरेण चक्षुर्वशादेवायं व्यवहारः सेत्स्यतीत्याशङ्क्याऽऽह —
चक्षुष इति ।
आसनाद्यन्यतमव्यापारव्यपदेशो व्याप्तिसिद्धेर्वृथा विशेषणबहुत्वमित्याशङ्क्याऽऽह —
अत्यन्तेति ।
आसनादीनामेकैकव्यभिचारे देहस्यान्यथाभावेऽपि नानुग्राहकं ज्योतिरन्यथा भवति । अतस्तदनुग्राह्यादत्यन्तविलक्षणमिति विवक्षित्वा व्यापारचतुष्टयमुपदिष्टमित्यर्थः ।
तथाऽपि किमर्थमादित्याद्यनेकपर्यायोपादानमेकेनैव व्याप्तिग्रहसंभवादित्याशङ्क्याऽऽह —
बाह्येति ।
देहेन्द्रियमनोव्यापाररूपं कर्म लिङ्गं तस्य व्यतिरिक्तज्योतिरव्यभिचारसाधनार्थमनेकपर्यायोपन्यासो बहवो हि दृष्टान्ता व्याप्तिं द्रढयन्तीत्यर्थः ॥२॥३॥४॥