बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किञ्ज्योतिरेवायं पुरुष इति वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ ५ ॥
शान्तेऽग्नौ वाक् ज्योतिः ; वागिति शब्दः परिगृह्यते ; शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते ; श्रोत्रेन्द्रिये सम्प्रदीप्ते, मनसि विवेक उपजायते ; तेन मनसा बाह्यां चेष्टां प्रतिपद्यते — ‘मनसा ह्येव पश्यति मनसा शृणोति’ (बृ. उ. १ । ५ । ३) इति ब्राह्मणम् । कथं पुनः वाग्ज्योतिरिति, वाचो ज्योतिष्ट्वमप्रसिद्धमित्यत आह — तस्माद्वै सम्राट् , यस्मात् वाचा ज्योतिषा अनुगृहीतोऽयं पुरुषो व्यवहरति, तस्मात् प्रसिद्धमेतद्वाचो ज्योतिष्ट्वम् ; कथम् ? अपि — यत्र यस्मिन्काले प्रावृषि प्रायेण मेघान्धकारे सर्वज्योतिःप्रत्यस्तमये स्वोऽपि पाणिः हस्तः न विस्पष्टं निर्ज्ञायते — अथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योतिषोऽभावात् यत्र वागुच्चरति, श्वा वा भषति, गर्दभो वा रौति, उपैव तत्र न्येति — तेन शब्देन ज्योतिषा श्रोत्रमनसोर्नैरन्तर्यं भवति, तेन ज्योतिष्कार्यत्वं वाक् प्रतिपद्यते, तेन वाचा ज्योतिषा उपन्येत्येव उपगच्छत्येव तत्र सन्निहितो भवतीत्यर्थः ; तत्र च कर्म कुरुते, विपल्येति । तत्र वाग्ज्योतिषो ग्रहणं गन्धादीनामुपलक्षणार्थम् ; गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्त्यादयो भवन्ति ; तेन तैरप्यनुग्रहो भवति कार्यकरणसङ्घातस्य । एवमेवैतद्याज्ञवल्क्य ॥

इन्द्रियं व्यावर्तयति —

वागितीति ।

शब्दस्य ज्योतिष्ट्वं स्पष्टयितुं पातनिकां करोति —

शब्देनेति ।

तद्दीपनकार्यमाह —

श्रोत्रेति ।

मनसि विषयाकारपरिणामे सति किं स्यात्तदाह —

तेनेति ।

तत्र प्रमाणमाह —

मनसा हीति ।

एवं पातनिकां कृत्वा वाचो ज्योतिष्ट्वसाधनार्थं पृच्छति —

कथमिति ।

का पुनरत्रानुपपत्तिस्तत्राऽऽह —

वाच इति ।

तत्रान्तरवाक्यमुत्तरत्वेनोत्थाप्य व्याकरोति —

अत आहेत्यादिना ।

प्रसिद्धमेवाऽऽकाङ्क्षापूर्वकं स्फुटयति —

कथमित्यादिना ।

उपैवेत्यादि व्याचष्टे —

तेन शब्देनेति ।

ज्योतिष्कार्यत्वं तज्जन्यव्यवहाररूपकार्यवत्त्वमिति यावत् । तत्र वाग्ज्योतिष इत्यत्र चतुर्थपर्यायः सप्तम्यर्थः ।

किमिति गन्धादयः शब्देनोपलक्ष्यन्ते तत्राऽऽह —

गन्धादिभिरिति ।

प्रश्नान्तरमुत्थापयति —

एवमेवेति ।

तथाऽपि स्वप्नादौ तस्य प्रवृत्तिदर्शनात्तत्कारणीभूतं ज्योतिर्वक्तव्यमिति शेषः ॥५॥