बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥
शान्तायां पुनर्वाचि, गन्धादिष्वपि च शान्तेषु बाह्येष्वनुग्राहकेषु, सर्वप्रवृत्तिनिरोधः प्राप्तोऽस्य पुरुषस्य । एतदुक्तं भवति — जाग्रद्विषये बहिर्मुखानि करणानि चक्षुरादीनि आदित्यादिज्योतिर्भिरनुगृह्यमाणानि यदा, तदा स्फुटतरः संव्यवहारोऽस्य पुरुषस्य भवतीति ; एवं तावत् जागरिते स्वावयवसङ्घातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्य पुरुषस्य दृष्टा ; तस्मात् ते वयं मन्यामहे — सर्वबाह्यज्योतिःप्रत्यस्तमयेऽपि स्वप्नसुषुप्तकाले जागरिते च तादृगवस्थायां स्वावयवसङ्घातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्येति ; दृश्यते च स्वप्ने ज्योतिष्कार्यसिद्धिः — बन्धुसङ्गमनवियोगदर्शनं देशान्तरगमनादि च ; सुषुप्ताच्च उत्थानम् — सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति ; तस्मादस्ति व्यतिरिक्तं किमपि ज्योतिः ; किं पुनस्तत् शान्तायां वाचि ज्योतिः भवतीति । उच्यते — आत्मैवास्य ज्योतिर्भवतीति । आत्मेति कार्यकरणस्वावयवसङ्घातव्यतिरिक्तं कार्यकरणावभासकम् आदित्यादिबाह्यज्योतिर्वत् स्वयमन्येनानवभास्यमानम् अभिधीयते ज्योतिः ; अन्तःस्थं च तत् पारिशेष्यात् — कार्यकरणव्यतिरिक्तं तदिति तावत्सिद्धम् ; यच्च कार्यकरणव्यतिरिक्तं कार्यकरणसङ्घातानुग्राहकं च ज्योतिः तत् बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टम् ; न तु तथा तत् चक्षुरादिभिरुपलभ्यते, आदित्यादिज्योतिष्षु उपरतेषु ; कार्यं तु ज्योतिषो दृश्यते यस्मात् , तस्मात् आत्मनैवायं ज्योतिषा आस्ते पल्ययते कर्म कुरुते विपल्येतीति ; तस्मात् नूनम् अन्तःस्थं ज्योतिरित्यवगम्यते । किञ्च आदित्यादिज्योतिर्विलक्षणं तत् अभौतिकं च ; स एव हेतुः यत् चक्षुराद्यग्राह्यत्वम् , आदित्यादिवत् ॥

कथं पुनरत्र पृच्छ्यते ज्योतिरन्तरमित्याशङ्क्य प्रष्टुरभिप्रायमाह —

एतदुक्तं भवतीति ।

यो व्यवहारः सोऽतिरिक्तज्योतिर्निमित्तो यथाऽऽदित्यादिनिमित्तो जाग्रद्व्यवहार इति व्याप्तिमुक्तां निगमयति —

एवं तावदिति ।

व्याप्तिज्ञानकार्यमनुमानमाह —

तस्मादिति ।

तादृगवस्थायां सर्वज्योतिःप्रत्यस्तमयदशायामिति यावत् । विमतो व्यवहारोऽतिरिक्तज्योतिरधीनो व्यवहारत्वात्संप्रतिपन्नवदित्यधस्तादेवानुमानमावेदितमिति भावः ।

हेतोराश्रयासिद्धिमाशङ्क्य परिहरति —

दृश्यते चेति।

आदिशब्देन देशान्तरादौ कर्मकरणं गृह्यते ।

आश्रयैकदेशासिद्धिमाशङ्क्याऽऽह —

सुषुप्ताच्चेति।

ध्यानदशायामिष्टदेवतादर्शनं चकारार्थः ।

अनुमानफलं निगमयति —

तस्मादिति ।

यथोक्तानुमानाज्ज्योतिः सिद्धं चेत्किं प्रश्नेनेत्याशङ्क्याऽऽह —

किं पुनरिति ।

सर्वज्योतिरुपशमे दृश्यमानस्य व्यवहारस्य कारणतयाऽनुमानतो ज्योतिर्मात्रसिद्धावपि तद्विशेषबुभुत्सायां प्रश्नोपपत्तिरित्यर्थः ।

प्रतिवचनमवतार्य व्याकरोति —

उच्यत इत्यादिना ।

अवभासकत्वे दृष्टान्तमाह —

आदित्यादिति ।

तत्र व्यतिरिक्तत्वं साधयति —

कार्येति ।

अनुग्राहकत्वादादित्यादिवदिति शेषः ।

तच्चान्तःस्थं पारिशेष्यादित्युक्तमुपपादयति —

यच्चेति ।

उपरतेष्वात्मज्योतिरिति शेषः ।

तदेव तर्हि मा भूदिति चेन्नेत्याह —

कार्यं त्विति।

स्वप्नादौ दृश्यमानं व्यवहारं हेतूकृत्य फलितमाह —

यस्मादित्यादिना ।

विमतमन्तःस्थमतीन्द्रियत्वादादित्यवदिति व्यतिरेकीत्यर्थः ।

व्यतिरेकान्तरमाह —

किञ्चेति ।