संप्रति लोकायतश्चोदयति —
नेत्यादिना ।
तत्र नञर्थं व्याचष्टे —
यदिति ।
उक्तं हेतुं प्रश्नपूर्वकं विभजते —
कस्मादित्यादिना।
यद्यपि देहादेरुपकार्यादुपकारकमादित्यादिसजातीयं दृष्टं तथाऽपि नाऽऽत्मज्योतिरुपकार्यसजातीयमनुमेयमित्याशङ्क्याऽऽह —
यथादृष्टं चेति ।
तदेव स्पष्टयति —
यदि नामेति ।
विमतमन्तःस्थमतिरिक्तं चातीन्द्रियत्वादादित्यवदिति परोक्तं व्यतिरेक्यनुमानमनूद्य दूषयति —
यत्पुनरित्यादिना।
अनैकान्तिकत्वं व्यनक्ति —
यत इति ।
अन्तःस्थान्यव्यतिरिक्तानि च संघातादिति द्रष्टव्यम् ।
व्यभिचारफलमाह —
तस्मादिति ।
विलक्षणमन्तःस्थं चेति मन्तव्यम् ।
किञ्च चैतन्यं शरीरधर्मस्तद्भावभावित्वाद्रूपादिवदित्याह —
कार्यकरणेति ।
विमतं संघाताद्भिन्नं तद्भासकत्वादादित्यवदित्यवदित्यनुमानान्न संघातधर्मत्वं चैतन्यस्येत्याशङ्क्याऽऽह —
सामान्यतो दृष्टस्येति।
लोकायतस्थं हि देहावभासकमपि चक्षुस्ततो न भिद्यते तथा च व्यभिचारान्न त्वदनुमानप्रामाण्यमित्यर्थः ।
मनुष्योऽहं जानामीति प्रत्यक्षविरोधाच्च त्वदनुमानममानमित्याह —
सामान्यतो दृष्टेति ।
ननु तेन प्रत्यक्षमुत्सार्यतामिति चेन्नेत्याह —
न चेति ।
इतश्च देहस्यैव चैतन्यमित्याह —
अयमेवेति ।
ज्योतिषो देहव्यतिरेकमङ्गीकृत्यापि दूषयति —
यदि नामेति ।
विमतं ज्योतिरनात्मा देहोपकारकत्वादादित्यवदित्यर्थः ।
आत्मत्वं तर्हि कस्येत्याशङ्क्याऽऽह —
य एव त्विति ।
अनुमानादात्मनो देहव्यतिरिक्तत्वमुक्तमित्याशङ्क्याऽऽह —
प्रत्यक्षेति ।
नान्य आत्मेति पूर्वेण संबन्धः ।
देहस्याऽऽत्मत्वे कादाचित्कं द्रष्टृत्वश्रोतृत्वाद्ययुक्तमिति शङ्कते —
नन्विति ।
स्वभाववादी परिहरति —
नैष दोष इति।
कादाचित्के दर्शनादर्शने संभवतो देहस्वाभाव्यादित्यत्र दृष्टान्तमाह —
न हीति ।
विमतं कारणान्तरपूर्वकं कादाचित्कत्वाद्घटवदित्यनुमानं दृष्टान्ते भविष्यतीत्याशङ्क्याग्निरुष्ण इतिवदुष्णमुदकमित्यपि द्रव्यत्वादिनाऽनुमीयेतेत्यतिप्रसंगमाह —
अनुमेयत्वे चेति ।
ननु यद्भवति तत्सनिमित्तमेव न स्वभावाद्भवेत्किञ्चिदस्माकं प्रसिद्धं तत्राऽऽह —
न चेति ।
अग्नेरौष्ण्यमुदकस्य शैत्यमित्याद्यपि न निर्निमित्तं किन्तु प्राण्यदृष्टापेक्षमिति शङ्कते —
प्राणीति ।
आदिशब्देनेश्वरादि गृह्यते ।
गूढाभिसन्धिः स्वभाववाद्याह —
धर्मेति ।
प्रसंगस्येष्टत्वं शङ्कित्वा स्वाभिप्रायमाह —
अस्त्वित्यादिना ।