सिद्धान्ती स्वप्नादिसिद्ध्यनुपपत्त्या देहातिरिक्तमात्मानमभ्युपगमयन्नुत्तरमाह —
नेत्यादिना ।
तत्र नञर्थं विभजते —
यदुक्तमिति ।
स्वप्ने दृष्टस्यैव दर्शनादिति हेतुभागं व्यतिरेकद्वारा विवृणोति —
यदि हीति ।
जाग्रद्देहस्य द्रष्टुः स्वप्ने नष्टत्वादतीन्द्रियस्य च संस्कारस्य चानिष्टत्वादन्यदृष्टे चान्यस्य स्वप्नायोगान्न स्वप्ने दृष्टस्यैव दर्शनं देहात्मवादे संभवतीत्यर्थः ।
मा भूद्दृष्टस्यैव स्वप्ने दृष्टिरन्धस्यापि स्वप्नदृष्टेरित्याशङ्क्याऽऽह —
अन्ध इति।
अपिशब्दोऽध्याहर्तव्यः ।
पूर्वदृष्टस्यैव स्वप्ने दृष्टत्वेऽपि कुतो देहव्यतिरिक्तो द्रष्टा सिध्यतीत्याशङ्क्याऽऽह —
ततश्चेति ।
अथोभयत्र देहस्यैव द्रष्टृत्वे का हानिरिति चेदत आह —
देहश्चेदिति।
तत्र सहकारिचक्षुरभावाच्चक्षुरन्तरस्य चोत्पत्तौ देहान्तरस्यापि समुत्पत्तिसंभवादन्यदृष्टेऽन्यस्य न स्वप्नः स्यादित्यर्थः ।
मा भूत्पूर्वदृष्टे स्वप्नो हेत्वभावादित्याशङ्क्याऽऽह —
अस्ति चेति।
कथं ते जात्यन्धानामीदृग्दर्शनमिति चेज्जन्मान्तरानुभववशादिति ब्रूमः ।
अन्धस्य देहस्याद्रष्टृत्वेऽपि चक्षुष्मतस्तस्य स्यादेव द्रष्टृत्वमित्याशङ्क्याऽऽह —
तस्मादिति ।
स्वप्ने दृष्टस्यैव दर्शनादिति हेतुं व्याख्याय स्मृतौ दृष्टस्यैव दर्शनादिति हेतुं व्याचष्टे —
तथेति ।
द्रष्टृस्मर्त्रोरेकत्वेऽपि कुतो देहातिरिक्तो द्रष्ट्रेत्याशङ्क्याऽऽह —
यदा चेति ।
देहातिरिक्तस्य स्मर्तृत्वेऽपि कुतो द्रष्टृत्वमित्याशङ्क्याऽऽह —
तस्मादिति ।
द्रष्टृस्मर्त्रोरेकत्वस्योक्तत्वाद्देहातिरिक्तः स्मर्ता चेद्द्रष्टाऽपि तथा सिध्यतीति भावः ।
देहस्याद्रष्टृत्वे हेत्वन्तरमाह —
मृते चेति ।
न तस्य द्रष्टृतेति शेषः ।
तदेवोपपादयति —
देहस्यैवेति ।
देहव्यतिरिक्तमात्मानमुपपादितमुपसंहरति —
तस्मादिति ।
चैतन्यं यत्तदोरर्थः ।
मा भूद्देहस्याऽऽत्मत्वमिन्द्रियाणां तु स्यादिति शङ्कते —
चक्षुरादीनीति ।
अन्यदृष्टस्येतरेणाप्रत्यभिज्ञानादिति न्यायेन परिहरति —
नेत्यादिना ।
आत्मप्रतिपत्तिहेतूनां मनसि संभवादिति न्यायेन शङ्कते —
मन इति ।
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रमिति न्यायेन परिहरति —
न मनसोऽपीति ।
देहादेरनात्मत्वे फलितमाह —
तस्मादिति ।
आत्मज्योतिः संघातादिति शेषः ।
परोक्तमनुवदति —
यदुक्तमिति ।
अनुग्राह्यासजातीयमनुग्राहकमित्यत्र हेतुमाह —
आदित्यादिभिरिति।
उपकार्योपकारकत्वसाजात्यनियमं दूषयति —
तदसदिति ।
अनियमदर्शनमाकाङ्क्षापूर्वकमुदाहरति —
कथं पार्थिवैरिति ।
उलपं बालतृणम् ।
पार्थिवस्याग्निं प्रत्युपकारकत्वनियमं वारयति —
न चेति ।
तावता पार्थिवेनाग्नेरुपक्रियमाणत्वदर्शनेनेति यावत् ।
तत्समानजातीयैरिति तच्छब्दः पार्थिवत्वविषयः । तत्र हेतुमाह —
येनेति ।
दर्शनफलं निगमयति —
तस्मादिति।
उपकार्योपकारकभावे साजात्यानियमवदपकार्यापकारकभावेऽपि वैजात्यनियमो नास्तीत्यर्थः ।
तत्रोपकार्योपकारकत्वे साजात्यनियमाभावमुदाहरणान्तरेण दर्शयति —
कदाचिदिति ।
अम्भसाऽग्निना वाऽग्नेरुपशान्त्युपलम्भादपकार्याकारकत्वे वैजात्यनियमोऽपि नास्तीति मत्वोपसंहरति —
तस्मादिति।
उक्तानियमदर्शनं तच्छब्दार्थः । अहेतुरात्मज्योतिषः संघातेन समानजातीयतामिति शेषः ।
अनुग्राहकमनुग्राह्यसजातीयमनुग्राहकत्वादादित्यवदित्यपास्तम् । संप्रत्यतीन्द्रियत्वहेतोरनैकान्त्यं परोक्तमनुभाष्य दूषयति —
यत्पुनरित्यादिना ।
विमतं ज्योतिः संघातधर्मस्तद्भावभावित्वाद्रूपादिवदित्युक्तमनूद्य निराकरोति —
कार्येति ।
अनुमानविरोधमेव साधयति —
आदित्यादिति ।
कालात्ययापदेशमुक्त्वा हेत्वसिद्धिं दोषान्तरमाह —
तद्भावेति ।
अदर्शनादिति च्छेदः ।
यत्पुनर्विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यतेत्यनुमानदूषणमभिप्रेत्य सामान्यतो दृष्टस्य चेत्याद्युक्तं तद्दूषयति —
सामान्यतो दृष्टस्येति ।
विशेषतोऽदृष्टस्येत्यपि द्रष्टव्यम् ।
किमित्यनुमानाप्रामाण्ये सर्वव्यवहारहानिरित्याशङ्क्याऽऽह —
पानेति ।
तत्सामान्यात्पानत्वभोजनत्वादिसादृश्यादिति यावत् ।
पानभोजनाद्युपादानं दृश्यमानमित्युक्तं विशदयति —
दृश्यन्ते हीति ।
तादर्थ्येन क्षुत्पिपासादिनिवृत्युपायभोजनपानाद्यर्थत्वेनेति यावत् ।
देहस्यैव द्रष्टृत्वमित्युक्तमनूद्य पूर्वोक्तं परिहारं स्मारयति —
यदुक्तमित्यादिना ।
ज्योतिरन्तरमादित्यादिवदनात्मेत्युक्तं प्रत्याह —
अनेनेति ।
संघातादेर्द्रष्टृत्वनिराकरणेनेति यावत् ।
देहस्य कादाचित्कं दर्शनादिमत्त्वं स्वाभाविकमित्यत्र परोक्तं दृष्टान्तमनुभाष्य निराचष्टे —
यत्पुनरित्यादिना ।
सिद्धान्तिनाऽपि स्वभाववादस्य क्वचिदेष्टव्यत्वमुपदिष्टमनूद्य दूषयति —
यत्पुनरिति ।
धर्मादेर्यदि हेत्वन्तराधीनं फलदातृत्वं तदा हेत्वन्तरस्यापि हेत्वन्तराधीनं फलदातृत्वमित्यनवस्थेत्युक्तं प्रत्याह —
एतेनेति।
सिद्धान्तविरोधप्रसंजनेनेति यावत् ।
लोकायतमतासंभवे स्वपक्षमुपसंहरति —
तस्मादिति ॥६॥