कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
यद्यपि व्यतिरिक्तत्वादि सिद्धम् , तथापि समानजातीयानुग्राहकत्वदर्शननिमित्तभ्रान्त्या करणानामेवान्यतमः व्यतिरिक्तो वा इत्यविवेकतः पृच्छति — कतम इति ; न्यायसूक्ष्मताया दुर्विज्ञेयत्वात् उपपद्यते भ्रान्तिः । अथवा शरीरव्यतिरिक्ते सिद्धेऽपि करणानि सर्वाणि विज्ञानवन्तीव, विवेकत आत्मनः अनुपलब्धत्वात् ; अतोऽहं पृच्छामि — कतम आत्मेति ; कतमोऽसौ देहेन्द्रियप्राणमनःसु, यः त्वयोक्तः आत्मा, येन ज्योतिषास्त इत्युक्तम् । अथवा योऽयमात्मा त्वया अभिप्रेतो विज्ञानमयः, सर्व इमे प्राणा विज्ञानमया इव, एषु प्राणेषु कतमः — यथा समुदितेषु ब्राह्मणेषु, सर्व इमे तेजस्विनः कतम एषु षडङ्गविदिति । पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यम् , योऽयं विज्ञानमय इति प्रतिवचनम् ; द्वितीये तु व्याख्याने प्राणेष्वित्येवमन्तं प्रश्नवाक्यम् । अथवा सर्वमेव प्रश्नवाक्यम् — विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषः कतम इत्येतदन्तम् । योऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धारितार्थविशेषविषयत्वम् , कतम आत्मेतीतिशब्दस्य प्रश्नवाक्यपरिसमाप्त्यर्थत्वम् — व्यवहितसम्बन्धमन्तरेण युक्तमिति कृत्वा, कतम आत्मेतीत्येवमन्तमेव प्रश्नवाक्यम् , योऽयमित्यादि परं सर्वमेव प्रतिवचनमिति निश्चीयते ॥