बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
योऽयमिति आत्मनः प्रत्यक्षत्वान्निर्देशः ; विज्ञानमयः विज्ञानप्रायः बुद्धिविज्ञानोपाधिसम्पर्काविवेकाद्विज्ञानमय इत्युच्यते — बुद्धिविज्ञानसम्पृक्त एव हि यस्मादुपलभ्यते, राहुरिव चन्द्रादित्यसम्पृक्तः ; बुद्धिर्हि सर्वार्थकरणम् , तमसीव प्रदीपः पुरोवस्थितः ; ‘मनसा ह्येव पश्यति मनसा शृणोति’ (बृ. उ. १ । ५ । ३) इति ह्युक्तम् ; बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वं विषयजातमुपलभ्यते, पुरोवस्थितप्रदीपालोकविशिष्टमिव तमसि ; द्वारमात्राणि तु अन्यानि करणानि बुद्धेः ; तस्मात् तेनैव विशेष्यते — विज्ञानमय इति । येषां परमात्मविज्ञप्तिविकार इति व्याख्यानम् , तेषाम् ‘विज्ञानमयः’, ‘वमनोमयः’ (बृ. उ. ४ । ४ । ५) इत्यादौ विज्ञानमयशब्दस्य अन्यार्थदर्शनात् अश्रौतार्थता अवसीयते ; सन्दिग्धश्च पदार्थः अन्यत्र निश्चितप्रयोगदर्शनात् निर्धारयितुं शक्यः, वाक्यशेषात् , निश्चितन्यायबलाद्वा ; सधीरिति चोत्तरत्र पाठात् । ‘हृद्यन्तः’ इति वचनात् युक्तं विज्ञानप्रायत्वमेव । प्राणेष्विति व्यतिरेकप्रदर्शनार्था सप्तमी — यथा वृक्षेषु पाषाण इति सामीप्यलक्षणा ; प्राणेषु हि व्यतिरेकाव्यतिरेकता सन्दिह्यत आत्मनः ; प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः ; यो हि येषु भवति, स तद्व्यतिरिक्तो भवत्येव — यथा पाषाणेषु वृक्षः । हृदि — तत्रैतत्स्यात् , प्राणेषु प्राणजातीयैव बुद्धिः स्यादिति, अत आह — हृद्यन्तरिति । हृच्छब्देन पुण्डरीकाकारो मांसपिण्डः, तात्स्थ्यात् बुद्धिः हृत् , तस्याम् , हृदि बुद्धौ । अन्तरिति बुद्धिवृत्तिव्यतिरेकप्रदर्शनार्थम् । ज्योतिः अवभासात्मकत्वात् आत्मा उच्यते । तेन हि अवभासकेन आत्मना ज्योतिषा आस्ते पल्ययते कर्म कुरुते, चेतनावानिव हि अयं कार्यकरणपिण्डः — यथा आदित्यप्रकाशस्थो घटः ; यथा वा मरकतादिर्मणिः क्षीरादिद्रव्ये प्रक्षिप्तः परीक्षणाय, आत्मच्छायामेव तत् क्षीरादिद्रव्यं करोति, तादृगेतत् आत्मज्योतिः बुद्धेरपि हृदयात् सूक्ष्मत्वात् हृद्यन्तःस्थमपि हृदयादिकं कार्यकरणसङ्घातं च एकीकृत्य आत्मज्योतिश्छायां करोति, पारम्पर्येण सूक्ष्मस्थूलतारतम्यात् , सर्वान्तरतमत्वात् । बुद्धिस्तावत् स्वच्छत्वात् आनन्तर्याच्च आत्मचैतन्यज्योतिःप्रतिच्छाया भवति ; तेन हि विवेकिनामपि तत्र आत्माभिमानबुद्धिः प्रथमा ; ततोऽप्यानन्तर्यात् मनसि चैतन्यावभासता, बुद्धिसम्पर्कात् ; तत इन्द्रियेषु, मनस्संयोगात् ; ततोऽनन्तरं शरीरे, इन्द्रियसम्पर्कात् । एवं पारम्पर्येण कृत्स्नं कार्यकरणसङ्घातम् आत्मा चैतन्यस्वरूपज्योतिषा अवभासयति । तेन हि सर्वस्य लोकस्य कार्यकरणसङ्घाते तद्वृत्तिषु च अनियतात्माभिमानबुद्धिः यथाविवेकं जायते । तथा च भगवतोक्तं गीतासु — ‘यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) ‘यदादित्यगतं तेजः - ’ (भ. गी. १५ । १२) इत्यादि च । ‘नित्योऽनित्यानां चेतनश्चेतनानाम्’ (क. उ. २ । २ । १३) इति च काठके, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (क. उ. २ । २ । १५) इति च । ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इति च मन्त्रवर्णः । तेनायं हृद्यन्तर्ज्योतिः । पुरुषः — आकाशवत्सर्वगतत्वात् पूर्ण इति पुरुषः ; निरतिशयं च अस्य स्वयञ्ज्योतिष्ट्वम् , सर्वावभासकत्वात् स्वयमन्यानवभास्यत्वाच्च ; स एष पुरुषः स्वयमेव ज्योतिःस्वभावः, यं त्वं पृच्छसि — कतम आत्मेति ॥

द्वितीयतृतीयपक्षयोररुचिं सूचयन्नाद्यं पक्षमङ्गीकरोति —

योऽयमिति ।

यस्त्वया पृष्टः सोऽयमित्यात्मनश्चिद्रूपत्वेन प्रत्यक्षत्वादयमिति निर्देश इति पदद्वयस्यार्थः ।

देहव्यवच्छेदार्थं विशिनष्टि —

विज्ञानमय इति ।

विज्ञानशब्दार्थमाचक्षाणस्तत्प्रायत्वं प्रकटयति —

बुद्धीति ।

बुद्धिरेव विज्ञानं विज्ञायतेऽनेनेति व्युत्पत्तेस्तेनोपाधिना संपर्क एवाविवेकस्तस्मादिति यावत् ।

तत्संपर्के प्रमाणमाह —

बुद्धिविज्ञानेति।

तस्माद्विज्ञानमय इति शेषः ।

ननु चक्षुर्मयः श्रोत्रमय इत्यादि हित्वा विज्ञानमय इत्येवं कस्मादुपदिश्यते तत्राऽऽह —

बुद्धिर्हीति ।

तस्याः साधारणकरणत्वे प्रमाणामाह —

मनसा हीति ।

मनसः सर्वार्थत्वं समर्थयते —

बुद्धीति ।

किमर्थानि तर्हि चक्षुरादीनि करणानीत्याशङ्क्याऽऽह —

द्वारमात्राणीति।

बुद्धेः सति प्राधान्ये फलितमाह —

तस्मादिति ।

विज्ञानं परं ब्रह्म तत्प्रकृतिको जीवो विज्ञानमय इति भर्तृप्रपञ्चैरुक्तमनुवदति —

येषामिति ।

विज्ञानमयादिग्रन्थे मयटो न विकारार्थतेति तैरेवोच्यते तत्र मनःसमभिव्याहाराद्विज्ञानं बुद्धिर्न चाऽऽत्मा तद्विकारस्तस्मादस्मिन्प्रयोगे मयटो विकारार्थत्वं वदतां स्वोक्तिविरोधः स्यादिति दूषयति —

तेषामिति ।

कथं विज्ञानमयपदार्थनिर्णयार्थं प्रयोगान्तरमनुश्रीयते तत्राऽऽह —

सन्दिग्धश्चेति ।

यथा पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाकान्तरीयेणाऽऽग्नेयं चतुर्धा करोतीत्यनेन विशेषविषयतया निश्चितार्थेनाऽऽग्नेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शर्करा उपदधातीत्यत्र केनाक्ततेत्यपेक्षायां तेजो वै घृतमिति वाक्यशेषान्निर्णयस्तथेहापीत्यर्थः ।

आत्मविकारत्वे मोक्षानुपपत्त्या ह्यबाधितन्यायाद्वा विज्ञानमयपदार्थनिश्चय इत्याह —

निश्चितेति ।

यदुक्तं निर्णयो वाक्यशेषादिति तदेव व्यनक्ति —

सधीरिति चेति ।

आधाराद्यर्था सप्तमी दृष्टा सा कथं व्यतिरेकप्रदर्शनार्थेत्याशङ्क्याऽऽह —

यथेति।

भवत्वत्रापि सामीप्यलक्षणा सप्तमी तथाऽपि कथं व्यतिरेकप्रदर्शनमित्याशङ्क्याऽऽह —

प्राणेषु इति ।

फलितं सप्तम्यर्थमभिनयति —

प्राणेष्विति ।

तेषु समीपस्थोऽपि कथं तेभ्यो व्यतिरिच्यते तत्राऽऽह —

यो हीति ।

विशेषणान्तरमादाय व्यावर्त्यां शङ्कामुक्त्वा पुनरवतार्य व्याकरोति —

हृदीत्यादिना।

विशेषणान्तरस्य तात्पर्यमाह —

अन्तरितीति ।

ज्योतिःशब्दार्थमाह —

ज्योतिरिति।

तस्य ज्योतिष्ट्वं स्पष्टयति —

तेनेति ।

आत्मज्योतिषा व्याप्तस्य कार्यकरणसंघातस्य व्यवहारक्षमत्वे दृष्टान्तमाह —

यथेति ।

चेतनावानिवेत्युक्तं दृष्टान्तेनोपपादयति —

यथा वेति ।

हृदयं बुद्धिस्ततोऽपि सूक्ष्मत्वादात्मज्योतिस्तदन्तःस्थमपि हृदयादिकं संघातं च सर्वमेकीकृत्य स्वच्छायं करोतीति कृत्वा यथोक्तमणिसादृश्यमुचितमिति दार्ष्टान्तिके योजना ।

कथमिदमात्मज्योतिः सर्वमात्मच्छायं करोति तत्राऽऽह —

पारम्पर्येणेति।

विषयादिषु प्रत्यगात्मान्तेषूत्तरोत्तरं सूक्ष्मतातारतम्यात्तेष्वेवाऽऽत्मादिविषयान्तेषु स्थूलतातारतम्याच्च प्रतीचः सर्वस्मादन्तरतमत्वात्तत्र तत्र स्वाकारहेतुत्वमस्तीत्यर्थः ।

बुद्धेरात्मच्छायत्वं समर्थयते —

बुद्धिस्तावदिति ।

लौकिकपरीक्षकाणां बुद्धावात्माभिमानभ्रान्तिमुक्तेऽर्थे प्रमाणयति —

तेन हीति ।

बुद्धेः पश्चान्मनस्यपि चिच्छायतेत्यत्र हेतुमाह —

बुद्धीति ।

आत्मनः सर्वावभासकत्वमुक्तमुपसंहरति —

एवमिति ।

आत्मनः सर्वावभासकत्वे किमिति कस्यचित्क्वचिदेवाऽऽत्मधीरित्याशङ्क्याऽऽह —

तेन हीति ।

बुद्ध्यादेरुक्तक्रमेणाऽऽत्मच्छायत्वं तच्छब्दार्थः ।

आत्मज्योतिषः सर्वावभासकत्वे लोकप्रसिद्धिरेव न प्रमाणं किन्तु भगवद्वाक्यमपीत्याह —

तथा चेति ।

नाशिनामयमनाशी चेतनाश्चेतयितारो ब्रह्मादयस्तेषामयमेव चेतनो यथोदकादीनामनग्नीनामग्निनिमित्तं दाहकत्वं तथाऽऽत्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषामित्याह —

नित्य इति ।

अनुगमनवदनुभानं स्वगतया भासा स्यादिति शङ्कां प्रत्याह —

तस्येति ।

येनेति ।

तत्र नावेदविन्मनुते तं बृहन्तमित्युत्तरत्र संबन्धः ।

ज्योतिःशब्दव्याख्यानमुपसंहरति —

तेनेति ।

हृद्यन्तःस्थितोऽयमात्मा सर्वावभासकत्वेन ज्योतिर्भवतीति योजना ।

पदान्तरमादाय व्याचष्टे —

पुरुष इति।

आदित्यादिज्योतिषः सकाशादात्मज्योतिषि विशेषमाह —

निरतिशयं चेति ।

प्रतिवचनवाक्यार्थमुपसंहरति —

स एष इति ।