बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां प्रत्यस्तमये अन्तःकरणद्वारेण हृद्यन्तर्ज्योतिः पुरुष आत्मा अनुग्राहकः करणानामित्युक्तम् । यदापि बाह्यकरणानुग्राहकाणाम् आदित्यादिज्योतिषां भावः, तदापि आदित्यादिज्योतिषां परार्थत्वात् कार्यकरणसङ्घातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थज्योतिष आत्मनः अनुग्रहाभावे अयं कार्यकरणसङ्घातः न व्यवहाराय कल्पते ; आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः, ‘यदेतद्धृदयं मनश्चैतत्संज्ञानम्’ (ऐ. उ. ३ । १ । २) इत्यादिश्रुत्यन्तरात् ; साभिमानो हि सर्वप्राणिसंव्यवहारः ; अभिमानहेतुं च मरकतमणिदृष्ठान्तेनावोचाम । यद्यप्येवमेतत् , तथापि जाग्रद्विषये सर्वकरणागोचरत्वात् आत्मज्योतिषः बुद्ध्यादिबाह्याभ्यन्तरकार्यकरणव्यवहारसन्निपातव्याकुलत्वात् न शक्यते तज्ज्योतिः आत्माख्यं मुञ्जेषीकावत् निष्कृष्य दर्शयितुमित्यतः स्वप्ने दिदर्शयिषुः प्रक्रमते — स समानः सन्नुभौ लोकावनुसञ्चरति । यः पुरुषः स्वयमेव ज्योतिरात्मा, स समानः सदृशः सन् — केन ? प्रकृतत्वात् सन्निहितत्वाच्च हृदयेन ; ‘हृदि’ इति च हृच्छब्दवाच्या बुद्धिः प्रकृता सन्निहिता च ; तस्मात् तयैव सामान्यम् । किं पुनः सामान्यम् ? अश्वमहिषवत् विवेकतोऽनुपलब्धिः ; अवभास्या बुद्धिः, अवभासकं तत् आत्मज्योतिः, आलोकवत् ; अवभास्यावभासकयोः विवेकतोऽनुपलब्धिः प्रसिद्धा ; विशुद्धत्वाद्धि आलोकः अवभास्येन सदृशो भवति ; यथा रक्तमवभासयन् रक्तसदृशो रक्ताकारो भवति, यथा हरितं नीलं लोहितं च अवभासयन् आलोकः तत्समानो भवति, तथा बुद्धिमवभासयन् बुद्धिद्वारेण कृत्स्नं क्षेत्रमवभासयति — इत्युक्तं मरकतमणिनिदर्शनेन । तेन सर्वेण समानः बुद्धिसामान्यद्वारेण ; ‘सर्वमयः’ (बृ. उ. ४ । ४ । ५) इति च अत एव वक्ष्यति । तेन असौ कुतश्चित्प्रविभज्य मुञ्जेषीकावत् स्वेन ज्योतीरूपेण दर्शयितुं न शक्यत इति, सर्वव्यापारं तत्राध्यारोप्य नामरूपगतम् , ज्योतिर्धर्मं च नामरूपयोः, नामरूपे च आत्मज्योतिषि, सर्वो लोकः मोमुह्यते — अयमात्मा नायमात्मा, एवंधर्मा नैवन्धर्मा, कर्ता अकर्ता, शुद्धः अशुद्धः, बद्धः मुक्तः, स्थितः गतः आगतः, अस्ति नास्ति — इत्यादिविकल्पैः । अतः समानः सन् उभौ लोकौ प्रतिपन्नप्रतिपत्तव्यौ इहलोकपरलोकौ उपात्तदेहेन्द्रियादिसङ्घातत्यागान्योपादानसन्तानप्रबन्धशतसन्निपातैः अनुक्रमेण सञ्चरति । धीसादृश्यमेवोभयलोकसञ्चरणहेतुः, न स्वत इति — तत्र नामरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत् तदेव हेतुः, न स्वतः — इत्येतदुच्यते — यस्मात् सः समानः सन् उभौ लोकावनुक्रमेण सञ्चरति — तदेतत् प्रत्यक्षम् इत्येतत् दर्शयति — यतः ध्यायतीव ध्यानव्यापारं करोतीव, चिन्तयतीव, ध्यानव्यापारवतीं बुद्धिं सः तत्स्थेन चित्स्वभावज्योतीरूपेण अवभासयन् तत्सदृशः तत्समानः सन् ध्यायति इव, आलोकवदेव — अतः भवति चिन्तयतीति भ्रान्तिर्लोकस्य ; न तु परमार्थतो ध्यायति । तथा लेलायतीव अत्यर्थं चलतीव, तेष्वेव करणेषु बुद्ध्यादिषु वायुषु च चलत्सु तदवभासकत्वात् तत्सदृशं तदिति — लेलायति इव, न तु परमार्थतः चलनधर्मकं तत् आत्मज्योतिः । कथं पुनः एतदवगम्यते, तत्समानत्वभ्रान्तिरेव उभयलोकसञ्चरणादिहेतुः न स्वतः — इत्यस्यार्थस्य प्रदर्शनाय हेतुरुपदिश्यते — सः आत्मा, हि यस्मात् स्वप्नो भूत्वा — सः यया धिया समानः, सा धीः यद्यत् भवति, तत्तत् असावपि भवतीव ; तस्मात् यदा असौ स्वप्नो भवति स्वापवृत्तिं प्रतिपद्यते धीः, तदा सोऽपि स्वप्नवृत्तिं प्रतिपद्यते ; यदा धीः जिजागरिषति, तदा असावपि ; अत आह — स्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन् धियः स्वापवृत्त्याकारो भूत्वा इमं लोकम् जागरितव्यवहारलक्षणं कार्यकरणसङ्घातात्मकं लौकिकशास्त्रीयव्यवहारास्पदम् , अतिक्रामति अतीत्य क्रामति विविक्तेन स्वेन आत्मज्योतिषा स्वप्नात्मिकां धीवृत्तिमवभासयन्नवतिष्ठते यस्मात् — तस्मात् स्वयञ्ज्योतिःस्वभाव एवासौ, विशुद्धः स कर्तृक्रियाकारकफलशून्यः परमार्थतः, धीसादृश्यमेव तु उभयलोकसञ्चारादिसंव्यवहारभ्रान्तिहेतुः । मृत्यो रूपाणि — मृत्युः कर्माविद्यादिः, न तस्य अन्यद्रूपं स्वतः, कार्यकरणान्येव अस्य रूपाणि, अतः तानि मृत्यो रूपाणि अतिक्रामति क्रियाफलाश्रयाणि ॥

स समानः सन्नित्याद्यवतारयितुं वृत्तं कीर्तयति —

बाह्यानामिति।

तर्हि बाह्यज्योतिःसद्भावावस्थायामकिञ्चिकरमात्मज्योतिरित्याशङ्क्याऽऽह —

यदाऽपीति।

व्यतिरेकमुखेनोक्तमर्थमन्वयमुखेन कथयति —

आत्मज्योतिरिति ।

आत्मज्योतिषः सर्वानुग्राहकत्वे प्रमाणमाह —

यदेतदिति ।

सर्वमन्तःकरणादि प्रज्ञानेत्रमित्यैतरेयके श्रवणाद्युक्तमात्मज्योतिषः सर्वानुग्राहकत्वमित्यर्थः ।

किञ्चाचेतनानां कार्यकरणानां चेतनत्वप्रसिद्ध्यनुपपत्त्या सदा चिदात्मव्याप्तिरेष्टव्येत्याह —

साभिमानो हीति ।

कथमसंगस्य प्रतीचः सर्वत्र बुद्ध्यादावहंमान इत्याशङ्क्याऽऽह —

अभिमानेति ।

वृत्तमनूद्योत्तरवाक्यमवतारयति —

यद्यपीति ।

यथोक्तमपि प्रत्यग्ज्योतिर्जागरिते दर्शयितुमशक्यमिति श्रुतिः स्वप्नं प्रस्तौतीत्यर्थः ।

अशक्यत्वे हेतुद्वयमाह —

सर्वेति ।

स्वप्ने निष्कृष्टं ज्योतिरिति शेषः । सदृशः सन्ननुसंचरतीति संवन्धः ।

सादृश्यस्य प्रतियोगिसापेक्षत्वमपेक्ष्य पृच्छति —

केनेति ।

उत्तरम् —

प्रकृतत्वादिति ।

प्राणानामपि तुल्यं तदिति चेत्तत्राऽऽह —

संनिहितत्वाच्चेति।

हेतुद्वयं साधयति —

हृदीत्यादिना ।

प्रकृतत्वादिफलमाह —

तस्मादिति ।

सामान्यं प्रश्नपूर्वकं विशदयति —

किं पुनरित्यादिना ।

विवेकतोऽनुपलब्धिं व्यक्तीकृतं बुद्धिज्योतिषोः स्वरूपमाह —

अवभास्येति ।

अवभासकत्वे दृष्टान्तमाह —

आलोकवदिति ।

तथापि कथं विवेकतोऽनुपलब्धिस्तत्राऽऽह —

अवभास्येति ।

प्रसिद्धिमेव प्रकटयति —

विशुद्धत्वाद्धीति ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —

यथेत्यादिना ।

दृष्टान्तगतनमर्थं दार्ष्टान्तिके योजयति —

तथेति ।

पुनरुक्तिं परिहरति —

इत्युक्तमिति ।

सर्वावभासकत्वे कथं बुद्ध्यैव साम्यमित्याशङ्क्याऽऽह —

तेनेति।

सर्वावभासकत्वं तच्छब्दार्थः ।

किमर्थं तर्हि बुद्ध्या सामान्यमुक्तमित्याशङ्क्य द्वारत्वेनेत्याह —

बुद्धीति ।

आत्मनः सर्वेण समानत्व वाक्यशेषमनुकूलयति —

सर्वमय इति चेति ।

वाक्यशेषसिद्धेऽर्थे लोकभ्रान्तर्गमकत्वमाह —

तेनेति ।

सर्वमयत्वेनेति यावत् ।

आत्मानात्मनोर्विवेकदर्शनस्याशक्यत्वे परस्पराध्यासस्तद्धर्माध्यासश्च स्यात्ततश्च लोकानां मोहो भवेदित्याह —

इति सर्वेति ।

धर्मिविषयं मोहमभिनयति —

अयमिति ।

धर्मविषयं मोहं दर्शयति —

एवन्धर्मेति ।

तदेव स्फुटयति —

कर्तेत्यादिना।

विकल्पैः सर्वो लोको मोमुह्यत इति संबन्धः ।

स समानः सन्नित्यस्यार्थमुक्त्वाऽवशिष्टं भागं व्याकरोति —

अत इत्यादिना ।

आत्मनः स्वाभाविकमुभयलोकसंचरणमित्याशङ्क्यानन्तरवाक्यमादत्ते —

तत्रेति ।

आत्मा सप्तम्यर्थः । यतःशब्दो वक्ष्यमाणातःशब्देन संबध्यते ।

अक्षरोत्थमर्थमुक्त्वा वाक्यार्थमाह —

ध्यानेति ।

ध्यानवतीं बुद्धिं व्याप्तश्चिदात्मा ध्यायतीवेत्यत्र दृष्टान्तमाह —

आलोकवदिति ।

यथा खाल्वालोको नीलं पीतं वा विषयं व्यश्नुवानस्तदाकारो दृश्यते तथाऽयमपि ध्यानवतीं बुद्धिं भासयन्ध्यानवानिव भवतीत्यर्थः ।

यथोक्तबुद्ध्यवभासकत्वमुक्तं हेतुमनूद्य फलितमाह —

अत इति ।

इव शब्दार्थं कथयति —

न त्विति ।

बुद्धिधर्माणामात्मन्यौपाधिकत्वेन मिथ्यात्वमुक्त्वा प्राणधर्माणामपि तत्र तथात्वं कथयति —

तथेति ।

आत्मनि चलनस्यौपाधिकत्वं साधयति —

तेष्विति ।

इवशब्दसामर्थ्यसिद्धमर्थमाह —

न त्विति ।

स हीत्याद्यनन्तरवाक्यमाकाङ्क्षाद्वारोत्थापयति —

कथमित्यादिना ।

तच्छब्दो बुद्धिविषयः । संचरणादीत्यादिशब्दो ध्यनादिव्यापारसंग्रहार्थः । स्वप्नो भूत्वा लोकमतिक्रामतीति संबन्धः ।

कथमात्मा स्वप्नो भवति तत्राऽऽह —

स ययेति ।

उक्तेऽर्थे वाक्यमवतार्य व्याकरोति —

अत आहेति ।

उक्तं हेतुमनूद्य फलितमाह —

यस्मादित्यादिना ।

कार्यकरणातीतत्वात्प्रत्यगात्मनो न स्वतः संचारित्वमित्याह —

मृत्योरिति ।

रूपाण्यतिक्रामतीति पूर्वेण संबन्धः । क्रियास्तत्फलानि चाऽऽश्रयो येषां यानि वा क्रियाणां तत्फलानां चाऽऽश्रयस्तानीति यावत् ।