कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
ननु नास्त्येव धिया समानम् अन्यत् धियोऽवभासकम् आत्मज्योतिः, धीव्यतिरेकेण प्रत्यक्षेण वा अनुमानेन वा अनुपलम्भात् — यथा अन्या तत्काल एव द्वितीया धीः । यत्तु अवभास्यावभासकयोः अन्यत्वेऽपि विवेकानुपलम्भात् सादृश्यमिति घटाद्यालोकयोः — तत्र भवतु, अन्यत्वेन आलोकस्योपलम्भात् घटादेः, संश्लिष्टयोः सादृश्यं भिन्नयोरेव ; न च तथा इह घटादेरिव धियोऽवभासकं ज्योतिरन्तरं प्रत्यक्षेण वा अनुमानेन वा उपलभामहे ; धीरेव हि चित्स्वरूपावभासकत्वेन स्वाकारा विषयाकारा च ; तस्मात् नानुमानतः नापि प्रत्यक्षतः धियोऽवभासकं ज्योतिः शक्यते प्रतिपादयितुं व्यतिरिक्तम् । यदपि दृष्टान्तरूपमभिहितम् — अवभास्यावभासकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तयोः सादृश्यमिति — तत्र अभ्युपगममात्रमस्माभिरुक्तम् ; न तु तत्र घटाद्यवभास्यावभासकौ भिन्नौ ; परमार्थतस्तु घटादिरेव अवभासात्मकः सालोकः ; अन्यः अन्यः हि घटादिरुत्पद्यते ; विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते ; यदा एवम् , तदा न बाह्यो दृष्टान्तोऽस्ति, विज्ञानस्वलक्षणमात्रत्वात्सर्वस्य । एवं तस्यैव विज्ञानस्य ग्राह्यग्राहकाकारताम् अलं परिकल्प्य, तस्यैव पुनर्विशुद्धिं परिकल्पयन्ति । तत् ग्राह्यग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित् । तस्यापि शान्तिं केचिदिच्छन्ति ; तदपि विज्ञानं संवृतं ग्राह्यग्राहकांशविनिर्मुक्तं शून्यमेव घटादिबाह्यवस्तुवत् इत्यपरे माध्यमिका आचक्षते ॥