पक्षत्रयेऽपि दोषं संभावयति —
सर्वा इति ।
कथममूषां कल्पनानां दूषणमित्याशङ्क्य प्रथमं बाह्यार्थवादिनं प्रत्याह —
तत्रेति ।
निर्धारणे सप्तमी ।
यत्तु धीरेवावभासकत्वेन स्वाकारेति तत्राऽऽह —
नेति ।
यदवभास्यं तत्स्वातिरिक्तावभास्यमवभास्यत्वाद्यथा घटादि । अवभास्या चेयं बुद्धिरित्यनुमानाद्बुद्धिव्यतिरिक्तः साक्षी सिध्यतीत्यर्थः ।
दृष्टान्तं साधयति —
तमसीति।
तस्यावभासकापेक्षां दर्शयितुं विशेषणम् —
सालोको घट इति ।
संश्लेषावगमान्नास्ति घटस्य व्यतिरिक्तावभास्यत्वमित्याशङ्क्याऽऽह —
संश्लिष्टयोरपीति ।
भवत्वन्यत्वं किं तावतेत्याशङ्क्याऽऽह —
अन्यत्वे चेति ।
व्यतिरिक्तावभासकत्वं तादृशावभासकसाहित्यमिति यावत् । अवभासयति घटादिरिति शेषः ।
दृष्टान्तस्य साध्यविकलत्वे परिहृते व्यभिचारमाशङ्कते —
नन्विति ।
तदेव व्यतिरेकमुखेनाऽऽह —
न हीति ।
अनैकान्तिकत्वं निगमयति —
तस्मादिति ।
प्रदीपस्य पक्षतुल्यत्वान्न व्यभिचारोऽस्तीति परिहरति —
नावभास्यत्वेति ।
अथान्यावभासकत्वात्तस्य नान्यावभास्यत्वमिति चेत्तत्राऽऽह —
यद्यपीति ।
अवभास्यत्वहेतोरव्यभिचारे फलितमाह —
यदा चेति।
व्यतिरिक्तावभास्यत्वं बुद्धेरिति शेषः ।
अवभास्यत्वे सत्यपि प्रदीपे स्वातिरिक्तेनैवावभास्यत्वमिति नियमासिद्धेर्व्यभिचारतादवस्थ्यमिति शङ्कते —
नन्विति ।
यदि प्रदीपस्य स्वाभासनात्पूर्वमसन्विशेषः समनन्तरकाले स्यात्तदा स्वात्मानं भासयतीति वक्तुं युक्तं न च सोऽस्तीति दूषयति —
नेत्यादिना ।
तदेव विवृणोति —
यथेति ।
अवभास्यत्वाविशेषादित्यर्थः ।
प्रदीपे परोक्तं विशेषमनुभाष्य दूषयति —
यस्त्वित्यादिना।
यदा दीपो न स्वात्मानं भासयति तदाऽनवभासमानः स्यादित्याशङ्क्याऽऽह —
न हीति।
विशेषाभावेऽपि दीपस्य स्वेनैवावभास्यत्वं किं न स्यादिति चेत्तत्राऽऽह —
स हीति ।
दीपस्य विशेषान्तराभावेऽपि स्वात्मसंनिध्यसंनिधी विशेषावित्याशङ्क्याऽऽह —
न हीति ।
दीपस्य स्वेनान्येन वा स्वस्मिन्विशेषाभावे फलितमाह —
असतीति।
व्यभिचारनिरासपूर्वकं भास्यत्वानुमानमुपपाद्यानुमानान्तरमाह —
चैतन्येति ।
यद्व्यञ्जकं तत्स्वविजातीयव्यङ्ग्यं यथा सूर्यादि व्यञ्जकं च विज्ञानं तस्माद्विज्ञानव्यतिरिक्तश्चिदात्मा सिध्यतीत्यर्थः ।
प्रदीपस्य न स्वावभास्यत्वं किन्तु विजातीयचैतन्यावभास्यत्वमिति स्थिते फलितमाह —
तस्मादिति ।
यद्ग्राह्यं तद्ग्राहकान्तरग्राह्यं यथा दीपो ग्राह्यं चेदं विज्ञानमित्यनुमानान्तरमाह —
चैतन्येति ।
तथाऽपि कथं त्वदिष्टग्राहकसिद्धिरित्याशङ्क्य विमृशति —
चैतन्यग्राह्यत्वे चेति ।
कथं तर्हि निर्णयस्तत्राऽऽह —
इति तत्र सन्दिह्यमान इति ।
अस्तु लोकानुसारी निश्चयो लोकस्तु कथमित्याशङ्क्याऽऽह —
तथा चेति ।
तथाऽपि कुतो विवक्षितात्मज्योतिस्तत्राऽऽह —
यश्चेति ।
विज्ञानस्य ग्राहकान्तरग्राह्यत्वे तस्यापि ग्राहकान्तरापेक्षायामनवस्थाप्रसक्तिरिति शङ्कते —
तदाऽनवस्थेति चेदिति ।
कूटस्थबोधस्य विज्ञानसाक्षिणोऽविषयत्वान्नानवस्थेति परिहरति —
नेति ।
यद्ग्राह्यं तत्स्वातिरिक्तग्राह्यं यथा घटादीति ग्राह्यत्वमात्रं बुद्धिग्राहकस्य ततो वस्त्वन्तरत्वे प्रदीपस्य स्वानवभासस्यत्वन्यायेन लिङ्गमुक्तं न च बुद्धिसाक्षिणो ग्राह्यत्वमस्ति कूटस्थदृष्टिस्वाभाव्यात्तत्कुतोऽनवस्थेत्युपपादयति —
ग्राह्यत्वमात्रं हीति ।
साक्षी स्वातिरिक्तग्राह्यो ग्राहकत्वाद्बुद्धिवदित्याशङ्क्याऽऽह —
न त्विति ।
ग्राहकत्वं हि ग्रहणकर्तृत्वं वा तत्साक्षित्वं वा । आद्ये बुद्धिसाक्षिणो मुख्यवृत्त्या ग्रहणकर्तृत्वे न किञ्चिल्लिङ्गं संभवति । द्वितीये तस्य ग्राहकान्तरास्तित्वे न कदाचिदपि प्रमाणमस्ति तत्कुतोऽनवस्थेत्यर्थः ।
ग्राहकानवस्थां परिहृत्य करणानवस्थामाशङ्कते —
विज्ञानस्येति ।
तस्य हि ग्राह्यत्वे चक्षुरादिस्थानीयेन करणेन भवितव्यं तस्यापि ग्राह्यत्वेऽन्यत्करणमित्यनवस्थां दूषयति —
न नियमाभावादिति ।
नियमाभावं साधयति —
न हीत्यादिना ।
वैचित्र्यदर्शनमाकाङ्क्षापूर्वकं स्फुटयति —
कथमित्यादिना ।
उभयव्यतिरेकं विशदयति —
न हीति ।
तथाऽपि कथं वैचित्र्यं तत्राऽऽह —
घटवदिति ।
नियमाभावमुपसंहरति —
तस्मादिति।
अनवस्थाद्वयनिराकरणं निगमयति —
तस्माद्विज्ञानस्येति ।
बाह्यार्थवादिमतनिराकरणमुपसंहरति —
तस्मात्सिद्धमिति।
बाह्यार्थवादिनी ध्वस्ते विज्ञानवादी चोदयति —
नन्विति ।
बाह्यार्थो विज्ञानातिरिक्तो नास्तीत्यत्र प्रमाणमाह —
यद्धीति ।
नोपलभ्यते च जाग्रद्वस्तु जाग्रद्विज्ञानव्यतिरेकेणेति शेषः ।
दृष्टान्तं समर्थयते —
स्वप्नेति ।
दार्ष्टान्तिकं विवृणोति —
तथेति ।
उक्तमनुमानमुपसंहरति —
तस्मादिति ।
सर्वं विज्ञानमात्रमिति स्थिते फलितमाह —
तत्रेति ।
किमिति तस्य मिथ्यात्वं तत्राऽऽह —
सर्वस्येति ।
बाह्यार्थापलापवादिनं दूषयति —
नेत्यदिना ।
हेतुं विशदयति —
नन्विति।
विज्ञानमात्रवादित्वादेकान्तेन बाह्यार्थानभ्युपगतिरिति शङ्कते —
नन्विति ।
बाह्यार्थं हठादङ्गीकारयति —
नेत्यादिना ।
अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन विशदयति —
विज्ञानादिति ।
ज्ञानज्ञेययोरैक्ये दोषान्तरमाह —
तथेति ।
अनर्थकं शास्त्रमुपदिशतो बुद्धस्य सर्वज्ञत्वं न स्यादित्याह —
तत्कर्तुरिति ।
वाशब्दश्चार्थः ।
इतश्च सर्वस्य नास्ति विज्ञानमात्रत्वमित्याह —
किञ्चान्यदिति ।
न केवलं पूर्वोक्तोपपत्तिवशादेव बाह्यार्थोऽभ्युपेयः किन्तु तत्रैवान्यदपि कारणमुच्यत इति यावत् ।
तदेव स्फुटयति —
विज्ञानेति ।
यद्ग्राह्यं तत्स्वव्यतिरिक्तग्राह्यं यथा प्रतिवाद्यादि जाग्रद्वस्तु चेदं ग्राह्यमित्यनुमानान्न बाह्यार्थापलापसिद्धिरित्यर्थः ।
दृष्टान्ते विप्रतिपत्तिं प्रत्याह —
न हीति ।
निराकर्तव्यत्वेऽपि तेषां ज्ञानमात्रत्वं किं न स्यादित्याशङ्क्याऽऽत्मीयज्ञानत्वमात्मज्ञानत्वं वा तेषामिति विकल्प्य क्रमेण दूषयति —
न हीत्यादिना ।
स्वकीयनिषेधे स्वनिषेधे चानिष्टापत्तिमाचष्टे —
तथा चेति ।
तदङ्गीकारालोचनायामपि प्रतिवाद्यादीनां विज्ञानातिरेकः सेत्स्यतीत्याह —
न चेति ।
अन्यथा विवादाभावापातादिति भावः ।
कथं तर्हि तेषामङ्गीकारस्तत्राऽऽह —
व्यतिरिक्तेति ।
सिद्धे दृष्टान्ते फलितमनुमानं निगमयति —
तस्मादिति ।
किञ्च चैत्रसन्तानेन मैत्रसन्तानो व्यवहारादनुमीयते सर्वज्ञानेन चासर्वज्ञज्ञानानि ज्ञायन्ते तत्र भेदस्य तेऽपि सिद्धेस्तद्दृष्टान्तान्नीलादेस्तद्धियश्च भेदः शक्योऽनुमातुमित्याह —
सन्तत्यन्तरवदिति ।
इति न बाह्यार्थापलापसिद्धिरिति शेषः ।
तदपलापासंभवे फलितमाह —
तस्मादिति ।
विज्ञानादर्थभेदोक्त्या प्रत्यगात्मा विज्ञानातिरिक्त उक्तः । संप्रति विमतं न ज्ञानभिन्नं ग्राह्यत्वात्स्वप्नग्राह्यवदित्युक्तमनुवदति —
स्वप्न इति ।
अयुक्तं विज्ञानातिरिक्तत्वमर्थस्येति शेषः ।
दृष्टान्तस्य साध्यविकलतामभिप्रेत्य परिहरति —
नाभावादपीति ।
संग्रहवाक्यं विवृणोति —
भवतैवेति ।
बाह्यार्थवादिभ्यो विशेषमाह —
तदभ्युपगम्येति ।
तथाऽपि कथं दृष्टान्तस्य साध्यविकलतेत्याशङ्क्याऽऽह —
स इति ।
घटादिविज्ञानस्य भावभूतस्याभ्युपगतस्य घटादेर्भावादभावाद्वा विषयादर्थान्तरत्वाद्यस्य कस्यचिद्बाह्यार्थस्योपगमाद्दृष्टान्तस्य साध्यविकलता सुप्रसिद्धेत्यर्थः ।
माध्यमिकमतमतिदेशेन निराकरोति —
एतेनेति ।
ज्ञानज्ञेययोर्निराकर्तुमशक्यत्ववचनेनेति यावत् ।
आत्मनो ग्राह्यस्याहमिति प्रत्यगात्मनैव ग्राह्यतेति मीमांसकमतमपि प्रत्युक्तमेकस्यैव ग्राह्यग्राहकतया निरस्तत्वादित्याह —
प्रत्यगात्मेति ।