कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
यत्तूक्तम् , सालोकः अन्यश्च अन्यश्च घटो जायत इति, तदसत् , क्षणान्तरेऽपि स एवायं घट इति प्रत्यभिज्ञानात् । सादृश्यात् प्रत्यभिज्ञानं कृत्तोत्थितकेशनखादिष्विवेति चेत् , न, तत्रापि क्षणिकत्वस्य असिद्धत्वात् , जात्येकत्वाच्च । कृत्तेषु पुनरुत्थितेषु च केशनखादिषु केशनखत्वजातेरेकत्वात् केशनखत्वप्रत्ययः तन्निमित्तः अभ्रान्त एव ; न हि दृश्यमानलूनोत्थितकेशनखादिषु व्यक्तिनिमित्तः स एवेति प्रत्ययो भवति ; कस्यचित् दीर्घकालव्यवहितदृष्टेषु च तुल्यपरिमाणेषु, तत्कालीनवालादितुल्या इमे केशनखाद्या इति प्रत्ययो भवति, न तु त एवेति ; घटादिषु पुनर्भवति स एवेति प्रत्ययः ; तस्मात् न समो दृष्टान्तः । प्रत्यक्षेण हि प्रत्यभिज्ञायमाने वस्तुनि तदेवेति, न च अन्यत्वम् अनुमातुं युक्तम् , प्रत्यक्षविरोधे लिङ्गस्य आभासत्वोपपत्तेः । सादृश्यप्रत्ययानुपपत्तेश्च, ज्ञानस्य क्षणिकत्वात् ; एकस्य हि वस्तुदर्शिनः वस्त्वन्तरदर्शने सादृश्यप्रत्ययः स्यात् ; न तु वस्तुदर्शी एकः वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते, विज्ञानस्य क्षणिकत्वात् सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः । तेन इदं सदृशमिति हि सादृश्यप्रत्ययो भवति ; तेनेति दृष्टस्मरणम् , इदमिति वर्तमानप्रत्ययः ; तेनेति दृष्टं स्मृत्वा, यावत् इदमिति वर्तमानक्षणकालम् अवतिष्ठेत, ततः क्षणिकवादहानिः ; अथ तेनेत्येव उपक्षीणः स्मार्तः प्रत्ययः, इदमिति च अन्य एव वार्तमानिकः प्रत्ययः क्षीयते, ततः सादृश्यप्रत्ययानुपपत्तेः — तेनेदं सदृशमिति, अनेकदर्शिनः एकस्य अभावात् ; व्यपदेशानुपपत्तिश्च — द्रष्टव्यदर्शनेनैव उपक्षयाद्विज्ञानस्य, इदं पश्यामि अदोऽद्राक्षमिति व्यपदेशानुपपत्तिः, दृष्टवतो व्यपदेशक्षणानवस्थानात् ; अथ अवतिष्ठेत, क्षणिकवादहानिः ; अथ अदृष्टवतो व्यपदेशः सादृश्यप्रत्ययश्च, तदानीं जात्यन्धस्येव रूपविशेषव्यपदेशः तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्वज्ञशास्त्रप्रणयनादि ; न चैतदिष्यते । अकृताभ्यागमकृतविप्रणाशदोषौ तु प्रसिद्धतरौ क्षणवादे । दृष्टव्यपदेशहेतुः पूर्वोत्तरसहित एक एव हि शृङ्खलावत् प्रत्ययो जायत इति चेत् , तेनेदं सदृशमिति च — न, वर्तमानातीतयोः भिन्नकालत्वात् — तत्र वर्तमानप्रत्यय एकः शृङ्खलावयवस्थानीयः, अतीतश्चापरः, तौ प्रत्ययौ भिन्नकालौ ; तदुभयप्रत्ययविषयस्पृक् चेत् शृङ्खलाप्रत्ययः, ततः क्षणद्वयव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानिः । ममतवतादिविशेषानुपपत्तेश्च सर्वसंव्यवहारलोपप्रसङ्गः ॥