यत्तु विज्ञानस्य दुःखाद्युपप्लुतत्त्वं तद्दूषयति —
सर्वस्य चेति ।
शुद्धत्वात्तत्संसर्गद्रष्ट्रभावाच्च न ज्ञानस्य दुःखादिसंप्लवः स्वसंवेद्यत्वाङ्गीकारादित्यर्थः ।
ज्ञानस्य शुद्धबोधैकस्वाभाव्यमसिद्धं दाडिमादिवन्नानाविधदुःखाद्यंशवत्वाश्रयणादित्याशङ्क्याऽऽह —
न चेति ।
तत्रैव हेत्वन्तरमाह —
अनित्येति ।
तेषां तद्धर्मत्वे सत्यनुभूयमानत्वात्ततोऽतिरिक्तत्वं स्याद्धर्माणां धर्मिमात्रत्वाभावान्मेयानां च मानादर्थान्तरत्वादतो यन्मेयं न तज्ज्ञानांशो यथा घटादि मेयं च दुःखादीत्यर्थः ।
ज्ञानस्य दुःखादिधर्मो न भवति किन्तु स्वरूपमेवेति शङ्कामनुभाष्य दोषमाह —
अथेत्यादिना ।
अनुपपत्तिमेव प्रकटयति —
संयोगीत्यादिना ।
स्वाभाविकस्यापि वियोगोऽस्ति पुष्परक्तत्वादीनां तथोपलम्भादित्याशङ्क्याऽऽह —
यदपीति ।
द्रव्यान्तरशब्देन पुष्पसंबन्धिनोऽवयवास्तद्गतरक्तत्वाद्यारम्भका विवक्षिताः । विमतं संयोगपूर्वकं विभागवत्त्वान्मेषादिवदित्यनुमानान्न स्वाभाविकस्य सति वस्तुनि नाशोऽस्तीत्यर्थः ।
अनुमानानुगुणं प्रत्यक्षं दर्शयति —
बीजेति ।
कार्पासादिबीजे द्रव्यविशेषसंपर्काद्रक्तत्वादिवासनया तत्पुष्पादीनां रक्तादिगुणोदयोपलम्भात्तत्संयोगिद्रव्यापगमादेव तत्पुष्पादिषु रक्तत्वाद्यपगतिरित्यर्थः ।
विशुद्ध्यनुपपत्तिमुपसंहरति —
अत इति ।
कल्पनान्तरमनूद्य दूषयति —
विषयविषयीति ।
कथं पुनर्ज्ञानस्यान्येन संसर्गाभावस्तस्य विषयेण संसर्गादित्याशङ्क्याऽऽह —
न हीति ।
अथान्यसंसर्गमन्तरेणापि ज्ञानस्य विषयविषय्याभासत्वमलं स्यादिति चेत्तत्राऽऽह —
असति चेति ।
कल्पनाद्वयमप्रामाणिकमनादेयमित्युपसंहरति —
तस्मादिति ।
कल्पनान्तरमुत्थापयति —
यदपीति ।
उपशान्तिनिर्वाणशब्दार्थः ।
दूषयति —
तत्रापीति ।
फल्यभावेऽपि फलं स्यादिति चेन्नेत्याह —
कण्टकेति ।
दार्ष्टान्तिकं विवृणोति —
यस्य हीति ।
ननु त्वन्मतेऽपि वस्तुनोऽद्वयत्वात्तस्यासंगस्य केनचिदपि संयोगवियोगयोरयोगात्फलित्वासंभवे मोक्षासंभवादि तुल्यमित्याशङ्क्याऽऽह —
यस्य पुनरिति ।
यद्यपि पूर्णं वस्तु वस्तुतोऽसंगमङ्गीक्रियते तथाऽपि क्रियाकारकफलभेदस्याविद्यामात्रकृतत्वादस्मन्मते सर्वव्यवहारसंभवान्न साम्यमिति भावः ।
ननु बाह्यार्थवादो विज्ञानवादश्च निराकृतौ शून्यवादो निराकर्तव्योऽपि कस्मान्न निराक्रियते तत्राऽऽह —
शून्यत्वादीति ।
समस्तस्य वस्तुनः सत्त्वेन भानान्मानानां च सर्वेषां सद्विषयत्वाच्छून्यस्य चाविषयतया प्राप्त्यभावेन निराकरणानर्हत्वात्तद्विषयत्वे च शून्यवादिनैव विषयनिराकरणोक्त्या शून्यस्यापह्नवात्तस्य च स्फुरणास्फुरणयोः सर्वशून्यत्वायोगात्तद्वादिनश्च सत्त्वासत्त्वयोस्तदनुपपत्तेः संवृतेश्चाऽऽश्रयाभावादसंभवात्तदाश्रयत्वे च शून्यस्य स्वरूपहानान्निराश्रयत्वे चासंवृतित्वान्नास्माभिस्तद्वादनिरासायाऽऽदरः क्रियते तत्सिद्धं बुद्ध्याष्वतिरिक्तं नित्यसिद्धमत्यन्तशुद्धं कूटस्थमद्वयमात्मज्योतिरिति भावः ॥ ७ ॥