बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ८ ॥
यथैव इह एकस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि कार्यकरणानि अतिक्रम्य स्वप्ने स्वे आत्मज्योतिषि आस्ते, एवं स वै प्रकृतः पुरुषः अयं जायमानः — कथं जायमान इत्युच्यते — शरीरं देहेन्द्रियसङ्घातमभिसम्पद्यमानः, शरीरे आत्मभावमापद्यमान इत्यर्थः, पाप्मभिः पाप्मसमवायिभिर्धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः, संसृज्यते संयुज्यते ; स एव उत्क्रामन् शरीरान्तरम् ऊर्ध्वं क्रामन् गच्छन् म्रियमाण इत्येतस्य व्याख्यानमुत्क्रामन्निति, तानेव संश्लिष्टान् पाप्मरूपान् कार्यकरणलक्षणान् , विजहाति तैर्वियुज्यते, तान्परित्यजति । यथा अयं स्वप्नजाग्रद्वृत्त्योः वर्तमाने एव एकस्मिन्देहे पाप्मरूपकार्यकरणोपादानपरित्यागाभ्याम् अनवरतं सञ्चरति धिया समानः सन् , तथा सोऽयं पुरुषः उभाविहलोकपरलोकौ, जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागौ अनवरतं प्रतिपद्यमानः, आ संसारमोक्षात् सञ्चरति । तस्मात् सिद्धम् अस्य आत्मज्योतिषः अन्यत्वं कार्यकरणरूपेभ्यः पाप्मभ्यः, संयोगवियोगाभ्याम् ; न हि तद्धर्मत्वे सति, तैरेव संयोगः वियोगो वा युक्तः ॥

प्रसंगादागतं परपक्षं निराकृत्य श्रुतिव्याख्यानमेवानुवर्तयन्नुत्तरवाक्यतात्पर्यमाह —

यथेति ।

एवमात्मा देहभेदेऽपि वर्तमानं जन्म त्यजञ्जन्मान्तरं चोपाददानः कार्यकरणान्यतिक्रामतीति शेषः । अतः स्वप्रजागरितसंचाराद्देहाद्यतिरेकवदिहलोकपरलोकसंचारोक्त्याऽपि तदतिरेकस्तस्योच्यतेऽनन्तरवाक्येनेत्यर्थः ।

संप्रत्युत्तरं वाक्यं गृहीत्वा व्याकरोति —

स वा इत्यादिना ।

पाप्मशब्दस्य लक्षणया तत्कार्यविषयत्वं दर्शयति —

पाप्मसमवायिभिरिति ।

पाप्मशब्दस्य पापवाचित्वेऽपि कार्यसाम्याद्धर्मेऽपि वृत्तिं सूचयति —

धर्माधर्मेति ।

उक्तमर्थं दृष्टान्तत्वेनानुवदति —

यथेति ।

अवस्थाद्वयसंचारस्य लोकद्वयसंचारं दार्ष्टान्तिकमाह —

तथेति ।

इहलोकपरलोकानवरतं संचरतीति संबन्धः ।

संचरणप्रकारं प्रकटयति —

जन्मेति ।

जन्मना कार्यकरणयोरुपादनं मरणेन च तयोस्त्यागमविच्छेदेन लभमानो मोक्षादर्वागनवरतं संचरन्दुःखी भवतीत्यर्थः ।

स वा इत्यादिवाक्यतात्पर्यमुपसंहरति —

तस्मादिति ।

तच्छब्दार्थमेव स्फुटयति —

संयोगेति ।

कथमेतावता तेभ्योऽन्यत्वं तत्राऽऽह —

न हीति ।

स्वाभाविकस्य हि धर्मस्य सति स्वभावे कुतः संयोगवियोगौ वह्न्यौष्ण्यादिष्वदर्शनात्कार्यकरणयोश्च संयोगविभागवशादस्वाभाविकत्वे सिद्धमात्मनस्तदन्यत्वमित्यर्थः ॥ ८ ॥