बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९ ॥
ननु न स्तः, अस्य उभौ लोकौ, यौ जन्ममरणाभ्यामनुक्रमेण सञ्चरति स्वप्नजागरिते इव ; स्वप्नजागरिते तु प्रत्यक्षमवगम्येते, न त्विहलोकपरलोकौ केनचित्प्रमाणेन ; तस्मात् एते एव स्वप्नजागरिते इहलोकपरलोकाविति । उच्यते —

तस्येत्यादिवाक्यस्य व्यावर्त्यां शङ्कामाह —

नन्विति।

अवस्थाद्वयवल्लोकद्वयसिद्धिरित्याशङ्क्याऽऽह —

स्वप्नेति।

कथं तर्हि लोकद्वयप्रसिद्धिरत आह —

तस्मादिति।

तत्रोत्तरत्वेनोत्तरं वाक्यमुत्थाप्य व्याकरोति —

उच्यत इति।

स्थानद्वयप्रसिद्धिद्योतनार्थो वैशब्दः ।