अवधारणं विवृणोति —
नेति।
वेदना सुखदुःखादिलक्षणा ।
आगमस्य परलोकसाधकत्वमभिप्रेत्याऽऽह —
तच्चेति।
अवधारणमाक्षिपति —
नन्विति।
तस्य स्थानान्तरत्वं दूषयति —
नेति।
स्वप्नस्य लोकद्वयातिरिक्तस्थानत्वाभावे कथं तृतीयत्वप्रसिद्धिरित्याह —
कथमिति।
तस्य सन्ध्यत्वान्न स्थानान्तरत्वमित्युत्तरमाह —
सन्ध्यं तदिति।
सन्ध्यत्वं व्युत्पादयति —
इहेति।
यत्स्वप्नस्थानं तृतीयं मन्यसे तदिहलोकपरलोकयोः सन्ध्यमिति संबन्धः ।
अस्य सन्ध्यत्वं फलितमाह —
तेनेति।
पूरणप्रत्ययश्रुत्या स्थानान्तरत्वमेव स्वप्नस्य किं न स्यादित्याशङ्क्य प्रथमश्रुतसन्ध्यशब्दविरोधान्मैवमित्याह —
न हीति।
परलोकास्तित्वे प्रमाणान्तरजिज्ञासया पृच्छति —
कथमिति।
प्रत्यक्षं प्रमाणयन्नुत्तरमाह —
यत इत्यादिना।
स्वप्नप्रत्यक्षं परलोकास्तित्वे प्रमाणमित्युक्तं तदेवोत्तरवाक्येन स्फुटयितुं पृच्छति —
कथमिति।
कथंशब्दार्थमेव प्रकटयति —
किमित्यादिना।
उत्तरवाक्यमुत्तरत्वेनोत्थापयति —
उच्यत इति।
तत्राथशब्दमुक्तप्रश्नार्थतया व्याकरोति —
अथेति।
उत्तरभागमुत्तरत्वेन व्याचष्टे —
शृण्विति।
यदुक्तं किमाश्रय इति तत्राऽऽह —
यथाक्रम इति।
यदुक्तं केन विधिनेति तत्राऽऽह —
तमाक्रममिति।
पाप्मशब्दस्य यथाश्रुतार्थत्वे संभवति किमिति फलविषयत्वं तत्राऽऽह —
नत्विति ।
साक्षादागमादृते प्रत्यक्षेणेति यावत् । पाप्मनामेव साक्षाद्दर्शनासंभवस्तच्छब्दार्थः ।
कथं पुनराद्ये वयसि पाप्मनामानन्दानां च स्वप्ने दर्शनं तत्राऽऽह —
जन्मान्तरेति।
यद्यपि मध्यमे वयसि करणपाटवादैहिकवासनया स्वप्नो दृश्यते तथाऽपि कथमन्तिमे वयसि स्वप्नदर्शनं तदाह —
यानि चेति।
फलानां क्षुद्रत्वमत्र लेशतो भुक्तत्वम् ।यानीत्युपक्रमात्तानीत्युपसंख्यातव्यम् ।
ऐहिकवासनावशादैहिकानामेव पाप्मनामानन्दानां च स्वप्ने दर्शनसंभवान्न स्वप्नप्रत्यक्षं परलोकसाधकमिति शङ्कते —
तत्कथमिति ।
परिहरति —
उच्यत इति ।
यद्यपि स्वप्ने मनुष्याणामिन्द्रादिभावोऽननुभूतोऽपि भाति तथाऽपि तदपूर्वमेव दर्शनमित्याशङ्क्याऽऽह —
न चेति ।
स्वप्नधिया भाविजन्मभाविनोऽपि स्वप्ने दर्शनात्प्रायेणेत्युक्तम् । न च तदपूर्वदर्शनमपि सम्यग्ज्ञानमुत्थानप्रत्ययबाधात् । न चैवं स्वप्नधिया भाविजन्मासिद्धिर्यथाज्ञानमर्थाङ्गीकारादिति भावः ।
प्रमाणफलमुपसंहरति —
तेनेति ।
स यत्रेत्यादिवाक्यस्य व्यवहितेन संबन्धं वक्तुं वृत्तमनूद्याऽऽक्षिपति —
यदित्यादिना ।
बाह्यज्योतिरभावे सत्ययं पुरुषः कार्यकरणसंघातो येन संघातातिरिक्तेनाऽऽत्मज्योतिषा गमनागमनादि निर्वर्तयति तदात्मज्योतिरस्तीति यदुक्तमित्यनुवादार्थः ।
विशिष्टस्थानाभावं वक्तुं विशेषणाभावं तावद्दर्शयति —
तदेवेति ।
आदित्यादिज्योतिरभावविशिष्टस्थानं यत्रेत्युक्तं तदेव स्थानं नास्ति विशेषणाभावादिति शेषः ।
यथोक्तस्थानाभावे हेतुमाह —
येनेति ।
संसृष्टो बाह्यैर्ज्योतिर्भिरिति शेषः ।
व्यवहारभूमौ बाह्यज्योतिरभावाभावे फलितमाह —
तस्मादिति ।
उत्तरग्रन्थमुत्तरत्वेनावतारयति —
अथेत्यादिना ।
यथोक्तं सर्वव्यतिरिक्तत्वं स्वयं ज्योतिष्ट्वमित्यादि । आह स्वप्नं प्रस्तौतीति यावत् । उपादानशब्दः परिग्रहविषयः ।
कथमस्य सर्वावत्त्वं तदाह —
सर्वावत्त्वमिति ।
संसर्गकारणभूताः सहाध्यात्मादिभागेनेति शेषः ।
किमुपादान इत्यस्योत्तरमुक्त्वा केन विधानेत्यस्योत्तरमाह —
स्वयमित्यादिना ।
आपाद्य प्रस्वपितीत्युत्तरत्र संबन्धः ।
कथं पुनरात्मनो देहविहन्तृत्वं जाग्रद्धेतुकर्मफलोपभोगोपरमणाद्धि स विहन्यते तत्राऽऽह —
जागरिते हीत्यादिना ।
निर्माणविषयं दर्शयति —
वासनामयमिति ।
यथा मायावी मायामयं देहं निर्मिमीते तद्वदित्याह —
मायामयमिवेति ।
कथं पुनरात्मनो यथोक्तदेहनिर्माणकर्तृत्वं कर्मकृतत्वात्तन्निर्माणस्येत्याशङ्क्याऽऽह —
निर्माणमपीति ।
स्वेन भासेत्यत्रेत्थम्भावे तृतीया । करणे तृतीयां व्यावर्तयति —
सा हीति ।
तत्रेति स्वप्नोक्तिः यथोक्तान्तःकरणवृत्तेर्विषयत्वेन प्रकाशमानत्वेऽपि स्वभासे भवतु करणत्वमित्याशङ्क्याऽऽह —
सा तत्रेति ।
स्वेन ज्योतिषेति कर्तरि तृतीया । स्वशब्दोऽत्राऽऽत्मविषयः ।
कोऽयं प्रस्वापो नाम तत्राऽऽह —
यदेवमिति ।
विविक्तविशेषणं विवृणोति —
बाह्येति ।
स्वप्ने स्वयञ्ज्योतिरात्मेत्युक्तमाक्षिपति —
नन्वस्येति ।
वासनापरिग्रहस्य मनोवृत्तिरूपस्य विषयतया विषयित्वाभावादविरुद्धमात्मनः स्वप्ने स्वयञ्ज्योतिष्ट्वमिति समाधत्ते —
नैष दोष इति ।
कुतो वासनोपादानस्य विषयत्वमित्याशङ्क्य स्वयञ्ज्योतिष्ट्वश्रुतिसामर्थ्यादित्याह —
तेनेति ।
मात्रादानस्य विषयत्वेनेति यावत् ।
तदेव व्यतिरेकमुखेनाऽऽह —
नत्विति ।
यथा सुषुप्तिकाले व्यक्तस्य विषयस्याभावे स्वयं ज्योतिरात्मा दर्शयितुं न शक्यते तथा स्वप्नेऽपि तस्मात्तत्र स्वयञ्ज्योतिष्ट्वश्रुत्या मात्रादानस्य विषयत्वं प्रकाशितमित्यर्थः ।
भवतु स्वप्ने वासनादानस्य विषयत्वं तथापि कथं स्वयञ्ज्योतिरात्मा शक्यते विविच्य दर्शयितुमित्याशङ्क्याऽऽह —
यदा पुनरिति ।
अवभासयदवभास्यं वासनात्मकमन्तःकरणमिति शेषः ।
स्वप्नावस्थायामात्मनोऽवभासकान्तराभावे फलितमाह —
तेनेति ॥ ९ ॥