बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ननु अत्र कथं पुरुषः स्वयं ज्योतिः ? येन जागरित इव ग्राह्यग्राहकादिलक्षणः सर्वो व्यवहारो दृश्यते, चक्षुराद्यनुग्राहकाश्च आदित्याद्यालोकाः तथैव दृश्यन्ते यथा जागरिते — तत्र कथं विशेषावधारणं क्रियते — अत्र अयं पुरुषः स्वयं ज्योतिर्भवतीति । उच्यते — वैलक्षण्यात् स्वप्नदर्शनस्य ; जागरिते हि इन्द्रियबुद्धिमनआलोकादिव्यापारसङ्कीर्णमात्मज्योतिः ; इह तु स्वप्ने इन्द्रियाभावात् तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति तस्माद्विलक्षणम् । ननु तथैव विषया उपलभ्यन्ते स्वप्नेऽपि, यथा जागरिते ; तत्र कथम् इन्द्रियाभावात् वैलक्षण्यमुच्यत इति । शृणु —

यदुक्तं स्वप्ने स्वयं ज्योतिरात्मेति तत्प्रकारान्तरेणाऽऽक्षिपति —

नन्विति ।

अवस्थाद्वये विशेषाभावकृतं चोद्यं दूषयति —

उच्यत इति ।

वैलक्षण्यं स्फुटयति —

जागरिते हीति ।

मनस्तु स्वप्ने सदपि विषयत्वान्न स्वयञ्ज्योतिष्ट्वविघातीति भावः ।

उक्तं वैलक्षण्यं प्रतीतिमाश्रित्याऽऽक्षिपति —

नन्विति ।

न तत्रेत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह —

शृण्विति ।