न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्तान्पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता ॥ १० ॥
न तत्र विषयाः स्वप्ने रथादिलक्षणाः ; तथा न रथयोगाः, रथेषु युज्यन्त इति रथयोगाः अश्वादयः तत्र न विद्यन्ते ; न च पन्थानः रथमार्गाः भवन्ति । अथ रथान् रथयोगान् पथश्च सृजते स्वयम् । कथं पुनः सृजते रथादिसाधनानां वृक्षादीनामभावे । उच्यते — ननु उक्तम् ‘अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय’ इति ; अन्तःकरणवृत्तिः अस्य लोकस्य वासना मात्रा, तामपादाय, रथादिवासनारूपान्तःकरणवृत्तिः तदुपलब्धिनिमित्तेन कर्मणा चोद्यमाना दृश्यत्वेन व्यवतिष्ठते ; तदुच्यते — स्वयं निर्मायेति ; तदेव आह — रथादीन्सृजत इति ; न तु तत्र करणं वा, करणानुग्राहकाणि वा आदित्यादिज्योतींषि, तदवभास्या वा रथादयो विषयाः विद्यन्ते ; तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्त्याश्रय दृश्यते । तत् यस्य ज्योतिषो दृश्यते अलुप्तदृशः, तत् आत्मज्योतिः अत्र केवलम् असिरिव कोशात् विविक्तम् । तथा न तत्र आनन्दाः सुखविशेषाः, मुदः हर्षाः पुत्रादिलाभनिमित्ताः, प्रमुदः ते एव प्रकर्षोपेताः ; अथ च आनन्दादीन् सृजते । तथा न तत्र वेशान्ताः पल्वलाः, पुष्करिण्यः तडागाः, स्रवन्त्यः नद्यः भवन्ति ; अथ वेशान्तादीन्सृजते वासनामात्ररूपान् । यस्मात् सः हि कर्ता ; तद्वासनाश्रयचित्तवृत्त्युद्भवनिमित्तकर्महेतुत्वेनेति अवोचाम तस्य कर्तृत्वम् ; न तु साक्षादेव तत्र क्रिया सम्भवति, साधनाभावात् ; न हि कारकमन्तरेण क्रिया सम्भवति ; न च तत्र हस्तपादादीनि क्रियाकारकाणि सम्भवन्ति ; यत्र तु तानि विद्यन्ते जागरिते, तत्र आत्मज्योतिरवभासितैः कार्यकरणैः रथादिवासनाश्रयान्तःकरणवृत्त्युद्भवनिमित्तं कर्म निर्वर्त्यते ; तेनोच्यते — स हि कर्तेति ; तदुक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते’ (बृ. उ. ४ । ३ । ६) इति ; तत्रापि न परमार्थतः स्वतः कर्तृत्वं चैतन्यज्योतिषः अवभासकत्वव्यतिरेकेण — यत् चैतन्यात्मज्योतिषा अन्तःकरणद्वारेण अवभासयति कार्यकरणानि, तदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि, तत्र कर्तृत्वमुपचर्यते आत्मनः । यदुक्तम् ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति, तदेव अनूद्यते — स हि कर्तेति इह हेत्वर्थम् ॥