बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेते श्लोका भवन्ति । स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थानं हिरण्मयः पुरुष एकहंसः ॥ ११ ॥
तदेते — एतस्मिन् उक्तेऽर्थे एते श्लोकाः मन्त्राः भवन्ति । स्वप्नेन स्वप्नभावेन, शारीरम् शरीरम् , अभिप्रहत्य निश्चेष्टमापाद्य असुप्तः स्वयम् अलुप्तदृगादिशक्तिस्वाभाव्यात् , सुप्तान् वासनाकारोद्भूतान् अन्तःकरणवृत्त्याश्रयान् बाह्याध्यात्मिकान् सर्वानेव भावान् स्वेन रूपेण प्रत्यस्तमितान् सुप्तान् , अभिचाकशीति अलुप्तया आत्मदृष्ट्या पश्यति अवभासयतीत्यर्थः । शुक्रम् शुद्धं ज्योतिष्मदिन्द्रियमात्रारूपम् , आदाय गृहीत्वा, पुनः कर्मणे जागरितस्थानम् ऐति आगच्छति, हिरण्मयः हिरण्मय इव चैतन्यज्योतिःस्वभावः, पुरुषः, एकहंसः एक एव हन्तीत्येकहंसः — एकः जाग्रत्स्वप्नेहलोकपरलोकादीन् गच्छतीत्येकहंसः ॥

तदेते श्लोका भवन्तीत्येतत्प्रतीकं गृहीत्वा व्याचष्टे —

तदेत इति ।

उक्तोऽर्थः स्वयञ्ज्योतिष्ट्वादिः । शारीरमिति स्वार्थे वृद्धिः ।

स्वयमसुप्तत्वे हेतुमाह —

अलुप्तेति ।

व्याखेयं पदमादाय व्याचष्टे —

सुप्तानित्यादिना ।

उक्तमनूद्य पदान्तरमवतार्य व्याकरोति —

सुप्तानभिचाकशीतीति ॥ ११ ॥