बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामं हिरण्मयः पुरुष एकहंसः ॥ १२ ॥
तथा प्राणेन पञ्चवृत्तिना, रक्षन् परिपालयन् — अन्यथा मृतभ्रान्तिः स्यात् , अवरम् निकृष्टम् अनेकाशुचिसङ्घातत्वादत्यन्तबीभत्सम् , कुलायं नीडं शरीरम् , स्वयं तु बहिस्तस्मात्कुलायात् , चरित्वा — यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्सम्बन्धाभावात् तत्स्थ इव आकाशः बहिश्चरित्वेत्युच्यते, अमृतः स्वयममरणधर्मा, ईयते गच्छति, यत्र कामम् — यत्र यत्र कामः विषयेषु उद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेण उद्भूतं गच्छति ॥

तथाशब्दः स्वप्नगतविशेषसमुच्चयार्थः । किमिति स्वप्ने प्राणेन शरीरमात्मा पालयति तत्राऽऽह —

अन्यथेति ।

बहिश्चरित्वेत्ययुक्तं शरीरस्थस्य स्वप्नोपलम्भादित्याशङ्क्याऽऽह —

यद्यपीति ।

तत्संबन्धाभावाद्बहिश्चरित्वेत्युच्यत इति संबन्धः ।

देहस्थस्यैव तदसंबन्धे दृष्टान्तमाह —

तत्स्थ इति ॥ १२ ॥