बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३ ॥
किञ्च स्वप्नान्ते स्वप्नस्थाने, उच्चावचम् — उच्चं देवादिभावम् अवचं तिर्यगादिभावं निकृष्टम् तदुच्चावचम् , ईयमानः गम्यमानः प्राप्नुवन् , रूपाणि, देवः द्योतनावान् , कुरुते निर्वर्तयति वासनारूपाणि बहूनि असङ्ख्येयानि । उत अपि, स्त्रीभिः सह मोदमान इव, जक्षदिव हसन्निव वयस्यैः, उत इव अपि भयानि — बिभेति एभ्य इति भयानि सिंहव्याघ्रादीनि, पश्यन्निव ॥

स्वप्नस्थं विशेषान्तरमाह —

किञ्चेति ।

उच्चावचं विषयीकृत्य तेन तेनाऽऽत्मना स्वेनैव स्वयं गम्यमान इति यावत् ॥ १३ ॥