आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते । अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥
आरामम् आरमणम् आक्रीडाम् अनेन निर्मितां वासनारूपाम् अस्य आत्मनः, पश्यन्ति सर्वे जनाः — ग्रामं नगरं स्त्रियम् अन्नाद्यमित्यादिवासनानिर्मितम् आक्रीडनरूपम् ; न तं पश्यति तं न पश्यति कश्चन । कष्टं भोः! वर्तते अत्यन्तविविक्तं दृष्टिगोचरापन्नमपि — अहो भाग्यहीनता लोकस्य! यत् शक्यदर्शनमपि आत्मानं न पश्यति — इति लोकं प्रति अनुक्रोशं दर्शयति श्रुतिः । अत्यन्तविविक्तः स्वयं ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः । तं नायतं बोधयेदित्याहुः — प्रसिद्धिरपि लोके विद्यते, स्वप्ने आत्मज्योतिषो व्यतिरिक्तत्वे ; का असौ ? तम् आत्मानं सुप्तम् , आयतम् सहसा भृशम् , न बोधयेत् — इत्याहुः एवं कथयन्ति चिकित्सकादयो जना लोके ; नूनं ते पश्यन्ति — जाग्रद्देहात् इन्द्रियद्वारतः अपसृत्य केवलो बहिर्वर्तत इति, यत आहुः — तं नायतं बोधयेदिति । तत्र च दोषं पश्यन्ति — भृशं हि असौ बोध्यमानः तानि इन्द्रियद्वाराणि सहसा प्रतिबोध्यमानः न प्रतिपद्यत इति ; तदेतदाह — दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ; यम् इन्द्रियद्वारदेशम् — यस्माद्देशात् शुक्रमादाय अपसृतः तम् इन्द्रियदेशम् — एषः आत्मा पुनर्न प्रतिपद्यते, कदाचित् व्यत्यासेन इन्द्रियमात्राः प्रवेशयति, ततः आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यम् दुःखभिषक्कर्मता ह अस्मै देहाय भवति, दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः । तस्मात् प्रसिद्ध्यापि स्वप्ने स्वयञ्ज्योतिष्ट्वम् अस्य गम्यते । स्वप्नो भूत्वा अतिक्रान्तो मृत्यो रूपाणीति तस्मात् स्वप्ने स्वयं ज्योतिरात्मा । अथो अपि खलु अन्ये आहुः — जागरितदेश एवास्य एषः, यः स्वप्नः — न सन्ध्यं स्थानान्तरम् इहलोकपरलोकाभ्यां व्यतिरिक्तम् , किं तर्हि इहलोक एव जागरितदेशः । यद्येवम् , किञ्च अतः ? शृणु अतो यद्भवति — यदा जागरितदेश एवायं स्वप्नः, तदा अयमात्मा कार्यकरणेभ्यो न व्यावृत्तः तैर्मिश्रीभूतः, अतो न स्वयं ज्योतिरात्मा — इत्यतः स्वयञ्ज्योतिष्ट्वबाधनाय अन्ये आहुः — जागरितदेश एवास्यैष इति । तत्र च हेतुमाचक्षते — जागरितदेशत्वे यानि हि यस्मात् हस्त्यादीनि पदार्थजातानि, जाग्रत् जागरितदेशे, पश्यति लौकिकः, तान्येव सुप्तोऽपि पश्यतीति । तदसत् , इन्द्रियोपरमात् ; उपरतेषु हि इन्द्रियेषु स्वप्नान्पश्यति ; तस्मात् नान्यस्य ज्योतिषः तत्र सम्भवोऽस्ति ; तदुक्तम् ‘न तत्र रथा न रथयोगाः’ (बृ. उ. ४ । ३ । १०) इत्यादि ; तस्मात् अत्रायं पुरुषः स्वयं ज्योतिर्भवत्येव । स्वयं ज्योतिः आत्मा अस्तीति स्वप्ननिदर्शनेन प्रदर्शितम् , अतिक्रामति मृत्यो रूपाणीति च ; क्रमेण सञ्चरन् इहलोकपरलोकादीन् इहलोकपरलोकादिव्यतिरिक्तः, तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः, तत्र च क्रमसञ्चारान्नित्यश्च — इत्येतत् प्रतिपादितं याज्ञवल्क्येन । अतः विद्यानिष्क्रयार्थं सहस्रं ददामीत्याह जनकः ; सोऽहम् एवं बोधितः त्वया भगवते तुभ्यम् सहस्रं ददामि ; विमोक्षश्च कामप्रश्नो मया अभिप्रेतः ; तदुपयोगी अयं तादर्थ्यात् तदेकदेश एव ; अतः त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन — विमोक्षाय अत ऊर्ध्वं ब्रूहीति, येन संसारात् विप्रमुच्येयं त्वत्प्रसादात् । विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम् ॥