उत्तरकण्डिकामवतारयितुं वृत्तं कीर्तयति —
यत्प्रस्तुतमिति ।
आत्मनैवेत्यादिना यदात्मनः स्वयञ्ज्योतिष्ट्वं ब्राह्मणादौ प्रस्तुतं तदत्रायमित्यादिना प्रत्यक्षतः स्वप्ने प्रतिपादितमिति संबन्धः ।
वृत्तमर्थान्तरमनूद्य चोद्यमुत्थापयति —
यत्तूक्तमिति ।
मृत्युं नातिक्रामतीत्यत्र हेतुमाह —
प्रत्यक्षं हीति ।
इच्छाद्वेषादिरादिशब्दार्थः ।
तथाऽपि कुतो मृत्युं नातिक्रमति तत्राऽऽह —
तस्मादिति ।
कार्यस्य कारणादन्यत्र प्रवृत्त्ययोगादिति यावत् ।
उक्तमुपपादयति —
कर्मणो हीति ।
अतः स्वप्नं गतो मृत्युं कर्माख्यं नातिक्रामतीति शेषः ।
मा तर्हि मृत्योरतिक्रमोऽभूत्को दोषस्तत्राऽऽह —
यदि चेति ।
स्वभावादपि मृत्योर्विमुक्तिमाशङ्क्याऽऽह —
न हीति ।
उक्तं हि - ‘ न हि स्वभावो भावनां व्यावर्तेतौष्ण्यद्रवेः’ इति ॥
कथं तर्हि मोक्षोपपत्तिरित्याशङ्क्याऽऽह —
अथेति ।
एषा च शङ्का प्रागेव राज्ञा कृतेति दर्शयन्नुत्तरमुत्थापयति —
यथेत्यादिना ।
तद्दिदर्शयिषयेत्यत्र तच्छब्देन मृत्योरतिक्रमणं गृह्यते ।