बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च । पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥
स वै प्रकृतः स्वयं ज्योतिः पुरुषः, एषः यः स्वप्ने प्रदर्शितः, एतस्मिन्सम्प्रसादे — सम्यक् प्रसीदति अस्मिन्निति सम्प्रसादः ; जागरिते देहेन्द्रियव्यापारशतसन्निपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्तः ईषत् प्रसीदति स्वप्ने, इह तु सुषुप्ते सम्यक् प्रसीदति — इत्यतः सुषुप्तं सम्प्रसाद उच्यते ; ‘तीर्णो हि तदा सर्वाञ्शोकान्’ (बृ. उ. ४ । ३ । २२) इति ‘सलिल एको द्रष्टा’ (बृ. उ. ४ । ३ । ३१) इति हि वक्ष्यति सुषुप्तस्थम् आत्मानम् — स वै एषः एतस्मिन् सम्प्रसादे क्रमेण सम्प्रसन्नः सन् सुषुप्ते स्थित्वा ; कथं सम्प्रसन्नः ? स्वप्नात् सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्वा रतिमनुभूय मित्रबन्धुजनदर्शनादिना, चरित्वा विहृत्य अनेकधा चरणफलं श्रममुपलभ्येत्यर्थः, दृष्ट्वैव न कृत्वेत्यर्थः, पुण्यं च पुण्यफलम् , पापं च पापफलम् ; न तु पुण्यपापयोः साक्षाद्दर्शनमस्तीत्यवोचाम ; तस्मात् न पुण्यपापाभ्यामनुबद्धः ; यो हि करोति पुण्यपापे, स ताभ्यामनुबध्यते ; न हि दर्शनमात्रेण तदनुबद्धः स्यात् । तस्मात् स्वप्नो भूत्वा मृत्युमतिक्रामत्येव, न मृत्युरूपाण्येव केवलम् । अतः न मृत्योः आत्मस्वभावत्वाशङ्का ; मृत्युश्चेत् स्वभावोऽस्य, स्वप्नेऽपि कुर्यात् ; न तु करोति ; स्वभावश्चेत् क्रिया स्यात् ; अनिर्मोक्षतैव स्यात् ; न तु स्वभावः, स्वप्ने अभावात् , अतः विमोक्षः अस्य उपपद्यते मृत्योः पुण्यपापाभ्याम् । ननु जागरिते अस्य स्वभाव एव — न ; बुद्ध्याद्युपाधिकृतं हि तत् ; तच्च प्रतिपादितं सादृश्यात् ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति । तस्मात् एकान्तेनैव स्वप्ने मृत्युरूपातिक्रमणात् न स्वाभाविकत्वाशङ्का अनिर्मोक्षता वा । तत्र ‘चरित्वा’ इति — चरणफलं श्रममुपलभ्येत्यर्थः, ततः सम्प्रसादानुभवोत्तरकालं पुनः प्रतिन्यायम् यथान्यायं यथागतम् — निश्चित आयः न्यायः, अयनम् आयः निर्गमनम् , पुनः पूर्वगमनवैपरीत्येन यत् आगमनं स प्रतिन्यायः — यथागतं पुनरागच्छतीत्यर्थः । प्रतियोनि यथास्थानम् ; स्वप्नस्थानाद्धि सुषुप्तं प्रतिपन्नः सन् यथास्थानमेव पुनरागच्छति — प्रतियोनि आद्रवति, स्वप्नायैव स्वप्नस्थानायैव । ननु स्वप्ने न करोति पुण्यपापे तयोः फलमेव पश्यतीति कथमवगम्यते ? यथा जागरिते तथा करोत्येव स्वप्नेऽपि, तुल्यत्वाद्दर्शनस्य — इत्यत आह — सः आत्मा, यत् किञ्चित् तत्र स्वप्ने पश्यति पुण्यपापफलम् , अनन्वागतः अननुबद्धः तेन दृष्टेन भवति, नैव अनुबद्धो भवति ; यदि हि स्वप्ने कृतमेव तेन स्यात् , तेन अनुबध्येत ; स्वप्नादुत्थितोऽपि समन्वागतः स्यात् ; न च तत् लोके — स्वप्नकृतकर्मणा अन्वागतत्वप्रसिद्धिः ; न हि स्वप्नकृतेन आगसा आगस्कारिणमात्मानं मन्यते कश्चित् ; न च स्वप्नदृश आगः श्रुत्वा लोकः तं गर्हति परिहरति वा ; अतः अनन्वागत एव तेन भवति ; तस्मात् स्वप्ने कुर्वन्निव उपलभ्यते, न तु क्रिया अस्ति परमार्थतः ; ‘उतेव स्त्रीभिः सह मोदमानः’ (बृ. उ. ४ । ३ । १३) इति श्लोक उक्तः ; आख्यातारश्च स्वप्नस्य सह इव - शब्देन आचक्षते — हस्तिनोऽद्य घटीकृताः धावन्तीव मया दृष्टा इति । अतो न तस्य कर्तृत्वमिति । कथं पुनरस्याकर्तृत्वमिति — कार्यकरणैर्मूर्तैः संश्लेषः मूर्तस्य, स तु क्रियाहेतुर्दृष्टः ; न ह्यमूर्तः कश्चित् क्रियावान् दृश्यते ; अमूर्तश्च आत्मा, अतोऽसङ्गः ; यस्माच्च असङ्गोऽयं पुरुषः, तस्मात् अनन्वागतः तेन स्वप्नदृष्टेन ; अत एव न क्रियाकर्तृत्वमस्य कथञ्चिदुपपद्यते ; कार्यकरणसंश्लेषेण हि कर्तृत्वं स्यात् ; स च संश्लेषः सङ्गः अस्य नास्ति, यतः असङ्गो ह्ययं पुरुषः ; तस्मात् अमृतः । एवमेव एतत् याज्ञवल्क्य ; सोऽहं भगवते सहस्रं ददामि ; अत ऊर्ध्वं विमोक्षायैव ब्रूहि ; मोक्षपदार्थैकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शितत्वात् ; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥
प्रकृत इति ; एष इति ; जागरित इत्यादिना ; तीर्णो हीति ; स वा इति ; कथमिति ; स्वप्नादिति ; न त्विति ; तस्मादिति ; यो हीत्यादिना ; तस्मादिति ; अतो नेति ; मृत्युश्चेदिति ; न त्विति ; स्वभावश्चेदिति ; न त्विति ; अत इति ; पुण्यपापाभ्यामिति ; नन्विति ; नेति ; तच्चेति ; तस्मादिति ; अनिर्मोक्षता वेति ; तत्रेति ; पुनरिति ; यथेति ; स्वप्नस्थानादिति ; प्रतियोनीति ; स्वप्नायेति ; नन्विति ; अत आहेति ; नैवेति ; यदि हीति ; स्वप्नादिति ; न चेति ; न हीति ; न चेति ; अत इति ; तस्मादिति ; उतेवेति ; आख्यातारश्चेति ; अत इति ; कथमिति ; कार्यकरणैरित्यादिना ; अत एवेति ; कार्येति ; तस्मादिति ; एवमिति ; सोऽहमिति ; अत इति ; मोक्षेति ; अत ऊर्ध्वमिति॥१५॥ ;

वैशब्दस्य प्रसिद्धार्थत्वमुपेत्य सशब्दार्थमाह —

प्रकृत इति ।

एषशब्दमनूद्य व्याकरोति —

एष इति ।

संप्रदाने स्थित्वा मृत्युमतिक्रामतीति शेषः ।

सुषुप्तस्य संप्रसादत्वं साधयति —

जागरित इत्यादिना ।

तत्र वाक्यशेषमनुकूलयति —

तीर्णो हीति ।

अस्तु संप्रसादः सुषुप्तं स्थानं तथाऽपि किमायातमित्यत आह —

स वा इति ।

पूर्वोक्तेन क्रमेण संप्रसादे सुषुप्ते स्थित्वा संप्रसन्नः सन्मृत्युमतिक्रामतीत्यर्थः ।

उक्तमर्थमुपपादयितुमाकाङ्क्षामाह —

कथमिति ।

रत्वेत्यादि व्याकुर्वन्परिहरति —

स्वप्नादिति ।

पुण्यपापशब्दयोर्यथार्थत्वमाशङ्क्याऽऽह —

न त्विति ।

अवोचामोभयान्पाप्मन आनन्दांश्च पश्यतीत्यत्रेति शेषः ।

पुण्यपापयोर्दशनमेव न करणमित्यत्र फलितमाह —

तस्मादिति ।

तद्द्रष्टुरपि तदनुबन्धः स्यादित्याशङ्क्यातिप्रसंगान्मैवमित्याह —

यो हीत्यादिना ।

पुण्यपापाभ्यामात्मनोऽसंस्पर्शे फलितमाह —

तस्मादिति ।

मृत्योरतिक्रमणे किं स्यादित्याशङ्क्याऽऽह —

अतो नेति ।

मृत्योरस्वभावत्वमुपपादयति —

मृत्युश्चेदिति ।

इष्टापत्तिमाशङ्क्याऽऽह —

न त्विति ।

अनन्वागतवाक्यादसंगवाक्यश्चेत्यर्थः ।

मोक्षशास्त्रप्रामाण्यादपि मृत्योरस्वभावत्वमित्याह —

स्वभावश्चेदिति ।

इतश्च मृत्युः स्वभावो न भवतीत्याह —

न त्विति ।

अभावादिति च्छेदः  ।

तस्याः स्वभावत्वे लब्धमर्थं कथयति —

अत इति ।

मृत्युमेव व्याचष्टे —

पुण्यपापाभ्यामिति ।

स्वप्ने मृत्योः स्वभावत्वाभावेऽपि जाग्रदवस्थायां कर्तृत्वमात्मनः स्वभावस्तथा च नियमेन तस्य मृत्योरतिक्रमो न सिध्यतीति शङ्कते —

नन्विति ।

औपाधिकत्वात्कर्तृत्वस्य स्वाभाविकत्वाभावादात्मनो मृत्योरतिक्रमः संभवतीति परिहरति —

नेति ।

कथमौपाधिकत्वं कर्तृत्वस्य सिद्धवदुच्यते तत्राऽऽह —

तच्चेति ।

ध्यायतीवेत्यादौ सादृश्यवाचकादिवशब्दादौपाधिकत्वं कर्तृत्वस्य प्रागेव दर्शितमित्यर्थः ।

जागरितेऽपि कर्तृत्वस्य स्वाभाविकत्वाभावे फलितमाह —

तस्मादिति ।

मृत्योः स्वाभाविकत्वाशङ्काभावकृतं फलमाह —

अनिर्मोक्षता वेति ।

वाशब्दो नञनुकर्षणार्थः ।

पुण्यं च पापं चेत्येतदन्तं वाक्यं व्याख्याय पुनरित्यादि व्याचष्टे —

तत्रेति ।

स्वप्नाद्व्युत्थाय सुषुप्तिमनुभूयोत्तरकालमिति यावत् । स्थानात्स्थानान्तरप्राप्तावभ्यासं वक्तुं पुनःशब्दः ।

प्रतिन्यायमित्यस्यावयवार्थमुक्त्वा विवक्षितमर्थमाह —

पुनरिति ।

संप्रसादादूर्ध्वमिति यावत् ।

जागरितात्स्वप्नं ततः सुषुप्तं गच्छतीति पूर्वगमनं ततो वैपरीत्येन सुषुप्तात्स्वप्नं जागरितं वा गच्छतीति यदागमनं स प्रतिन्यायः । तमेव संक्षिपति —

यथेति ।

यथास्थानमाद्रवतीत्येतद्विवृणोति —

स्वप्नस्थानादिति ।

उक्तेऽर्थे वाक्यं पातयति —

प्रतियोनीति ।

किमर्थं यथास्थानमागमनं तदाह —

स्वप्नायेति ।

स यदित्यादिवाक्यस्य व्यावर्त्यामाशङ्कामाह —

नन्विति ।

तत्र वाक्यमुत्तरत्वेनावतार्य व्याकरोति —

अत आहेति ।

अननुबद्ध इत्यस्यार्थं स्फुटयति —

नैवेति ।

स यदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यमाह —

यदि हीति ।

तेनाऽऽत्मनेति यावत् । स्वप्ने कृतं कर्म पुनस्तेनेत्युक्तम् ।

अनुबन्धे दोषमाह —

स्वप्नादिति ।

इष्टापत्तिमाशङ्क्याऽऽह —

न चेति ।

स्वप्नकृतेन कर्मणा जाग्रदवस्थस्य पुरुषस्यान्वागतत्वप्रसिद्धिरिति यदुच्यते तन्न व्यवहारभूमौ संप्रतिपन्नमित्यर्थः ।

स्वप्नदृष्टेन जाग्रद्गतस्य न संगतिरित्यत्र स्वानुभवं दर्शयति —

न हीति ।

यथोक्तेऽनुभवे लोकस्यापि संमतिं दर्शयति —

न चेति ।

तत्र फलितमाह —

अत इति ।

कथं तर्हि स्वप्ने कर्तृत्वप्रतीतिस्तत्राऽऽह —

तस्मादिति ।

स्वप्नस्याऽऽभासत्वाच्च न तत्र वस्तुतोऽस्ति क्रियेत्याह —

उतेवेति ।

तदाभासत्वे लोकप्रसिद्धिमनुकूलयति —

आख्यातारश्चेति ।

स्वप्नस्याऽऽभासत्वे फलितमाह —

अत इति ।

अनन्वागतवाक्यं प्रतिज्ञारूपं व्याख्यायासंगवाक्यं हेतुरूपमवतारयितुमाकाङ्क्षामाह —

कथमिति ।

मूर्तस्य मूर्तान्तरेण संयोगे क्रियोपलम्भादमूर्तस्य तदभावादात्मनश्चामूर्तत्वेनासंयोगात्क्रियायोगादकर्तृत्वसिद्धिरित्युत्तरं हेतुवाक्यार्थकथनपूर्वकं कथयति —

कार्यकरणैरित्यादिना ।

आत्मनोऽसंगत्वेनाकर्तृत्वमुक्तं समर्थयते —

अत एवेति ।

अतःशब्दार्थं विशदयति —

कार्येति ।

क्रियावत्त्वाभावे जन्ममरणदिराहित्यं कौटस्थ्यं फलतीत्याह —

तस्मादिति ।

कर्मप्रविवेकमुक्तमङ्गीकरोति —

एवमिति ।

तत्प्रविविक्तात्मज्ञाने दार्ढ्यं सूचयति —

सोऽहमिति ।

नैराकाङ्क्ष्यं व्यावर्तयति —

अत इति ।

कथं तर्हि सहस्रदानमित्याशङ्क्याऽऽह —

मोक्षेति।

कामप्रविवेकविषयनियोगमभिप्रेत्य पुनरनुक्रामति —

अत ऊर्ध्वमिति॥१५॥