स वा एष एतस्मिन्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६ ॥
तत्र ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति असङ्गता अकर्तृत्वे हेतुरुक्तः ; उक्तं च पूर्वम् — कर्मवशात् स ईयते यत्र काममिति ; कामश्च सङ्गः ; अतः असिद्धो हेतुरुक्तः — ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति । न तु एतत् अस्ति ; कथं तर्हि ? असङ्ग एव इत्येतदुच्यते — स वा एष एतस्मिन्स्वप्ने, स वै एष पुरुषः सम्प्रसादात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामम् , दृष्ट्वैव पुण्यं च पापं च — इति सर्वं पूर्ववत् ; बुद्धान्तायैव जागरितस्थानाय । तस्मात् असङ्ग एवायं पुरुषः ; यदि स्वप्ने सङ्गवान् स्यात् कामी, ततः तत्सङ्गजैर्दोषैः बुद्धान्ताय प्रत्यागतो लिप्येत ॥