एकस्यैव वैश्वानरस्योपासनार्थं प्रासंगिकमिन्द्रश्चेन्द्राणी चेति मिथुनं कल्पयति —
अथेत्यादिना ।
प्रासंगिकध्यानाधिकारार्थोऽथशब्दः ।
यादेतन्मिथुनं जागरिते विश्वशब्दितं तदेवैकं स्वप्ने तैजसशब्दवाच्यमित्याह —
तदेतदिति ।
तच्छब्दितं तैजसमविकृत्य पृच्छति —
कथमिति ।
किं तस्य स्थानं पृच्छ्यतेऽन्नं वा प्रावरणं वा मार्गो वेति विकल्प्याऽऽद्यं प्रत्याह —
तयोरिति ।
संस्तवं संगतिमिति यावत् ।
द्वितीयं प्रत्याह —
अथेति ।
अन्नातिरेकेण स्थितेरसंभवात्तस्य वक्तव्यत्वादित्यथशब्दार्थः ।
लोहितपिण्डं सूक्ष्मान्नरसं व्याख्यातुं भक्षितस्यान्नस्य तावद्विभागमाह —
अन्नमिति।
यदन्यत्पुनरिति योजनीयम् । तत्रेत्यध्याहृत्य यो मध्यम इत्यादिग्रन्थो योज्यः ।
उपाध्युपहितयोरेकत्वमाश्रित्याऽऽह —
यं तैजसमिति ।
तस्यान्नत्वमुपपादयति —
स तयोरिति ।
व्याख्यातेऽर्थे वाक्यस्यान्वितावयवत्वमाह —
तदेतदिति ।
यदि प्रावरणं पृच्छ्यते तत्राऽऽह —
किञ्चान्यदिति।
भोगस्वापानन्तर्यमथशब्दार्थः ।
प्रावरणप्रदर्शनस्य प्रयोजनमाह —
भुक्तवतोरिति ।
इहेति भोक्तृभोग्ययोरिन्द्रेन्द्राण्योरुक्तिः । हृदयजालकयोराधाराधेयत्वमविवक्षितं तस्यैव तद्भावात् ।
मार्गश्चेत्पृच्छ्यते तत्राऽऽह —
अथेति ।
नाडीभिः शरीरं व्याप्तस्यान्नस्य प्रयोजनमाह —
तदेतदिति ।
तस्मादित्यादिवाक्यमादाय व्याचष्टे —
यस्मादिति ।
तथाऽपि प्रविविक्ताहार इत्येव वक्तव्ये प्रविविक्ताहारतर इति कस्मादुच्यते तत्राऽऽह —
पिण्डेति ।
यस्मादित्यस्यापेक्षितं कथयति —
अत इति ।
शारीरादिति श्रूयते कथं शरीरादित्युच्यते तत्राऽऽह —
शरीरमेवेति।
उक्तमर्थं संक्षिप्योपसंहरति —
आत्मन इति ॥३॥