तस्य प्राची दिगित्याद्यवतारयितुं भूमिकां करोति —
स एष इति ।
प्राणशब्देनाज्ञातः प्रत्यगात्मा प्राज्ञो गृह्यते ।
एवं भूमिकां कृत्वा वाक्यमादाय व्याकरोति —
तस्येत्यादिना ।
तैजसं प्राप्तस्येत्यस्य व्याख्यानं हृदयात्मानमापन्नस्येति ।
उक्तमर्थं संक्षिप्याऽऽह —
एवं विद्वानिति ।
विश्वस्य जागरिताभिमानिनस्तैजसे तस्य च स्वप्नाभिमानिनः सुषुप्त्यभिमानिनि प्राज्ञे क्रमेणान्तर्भावं जानन्नित्यर्थः ।
स एष नेति नेत्यात्मेत्यादेर्भूमिकां करोति —
तं सर्वात्मानमिति ।
तत्र वाक्यमवतार्य पूर्वोक्तं व्याख्यानं स्मारयति —
यमेष इति ।
तुरीयादपि प्राप्तव्यमन्यदभयमस्तीत्याशङ्क्याऽऽह —
अभयमिति ।
गन्तव्यं वक्ष्यामीत्युपक्रम्यावस्थात्रयातीतं तुरीयमुपदिशन्नाम्रान्पृष्टः कोविदारानाचष्ट इति न्यायविषयतां नातिवर्तेतेत्याशङ्क्याऽऽह —
तदेतदिति ।
विद्याया दक्षिणान्तराभावमभिप्रेत्याऽऽह —
स होवाचेति ।
कथं पुनरन्यस्य स्थितस्य नष्टस्य वाऽन्यप्रापणमित्याशङ्क्याऽऽह —
उपाधीति ।
पश्वादिकं दक्षिणान्तरं संभवतीत्याशङ्क्य तस्योक्तविद्यानुरूपत्वं नास्तीत्याह —
किमन्यदिति ।
वस्तुतो दक्षिणान्तराभावमुक्त्वा प्रतीतिमाश्रित्याऽऽह —
अत इति ।
अक्षरार्थमुक्त्वा वाक्यार्थमाह —
यथेष्टमिति ॥४॥