इन्द्रियं व्यावर्तयति —
वागितीति ।
शब्दस्य ज्योतिष्ट्वं स्पष्टयितुं पातनिकां करोति —
शब्देनेति ।
तद्दीपनकार्यमाह —
श्रोत्रेति ।
मनसि विषयाकारपरिणामे सति किं स्यात्तदाह —
तेनेति ।
तत्र प्रमाणमाह —
मनसा हीति ।
एवं पातनिकां कृत्वा वाचो ज्योतिष्ट्वसाधनार्थं पृच्छति —
कथमिति ।
का पुनरत्रानुपपत्तिस्तत्राऽऽह —
वाच इति ।
तत्रान्तरवाक्यमुत्तरत्वेनोत्थाप्य व्याकरोति —
अत आहेत्यादिना ।
प्रसिद्धमेवाऽऽकाङ्क्षापूर्वकं स्फुटयति —
कथमित्यादिना ।
उपैवेत्यादि व्याचष्टे —
तेन शब्देनेति ।
ज्योतिष्कार्यत्वं तज्जन्यव्यवहाररूपकार्यवत्त्वमिति यावत् । तत्र वाग्ज्योतिष इत्यत्र चतुर्थपर्यायः सप्तम्यर्थः ।
किमिति गन्धादयः शब्देनोपलक्ष्यन्ते तत्राऽऽह —
गन्धादिभिरिति ।
प्रश्नान्तरमुत्थापयति —
एवमेवेति ।
तथाऽपि स्वप्नादौ तस्य प्रवृत्तिदर्शनात्तत्कारणीभूतं ज्योतिर्वक्तव्यमिति शेषः ॥५॥