स समानः सन्नित्याद्यवतारयितुं वृत्तं कीर्तयति —
बाह्यानामिति।
तर्हि बाह्यज्योतिःसद्भावावस्थायामकिञ्चिकरमात्मज्योतिरित्याशङ्क्याऽऽह —
यदाऽपीति।
व्यतिरेकमुखेनोक्तमर्थमन्वयमुखेन कथयति —
आत्मज्योतिरिति ।
आत्मज्योतिषः सर्वानुग्राहकत्वे प्रमाणमाह —
यदेतदिति ।
सर्वमन्तःकरणादि प्रज्ञानेत्रमित्यैतरेयके श्रवणाद्युक्तमात्मज्योतिषः सर्वानुग्राहकत्वमित्यर्थः ।
किञ्चाचेतनानां कार्यकरणानां चेतनत्वप्रसिद्ध्यनुपपत्त्या सदा चिदात्मव्याप्तिरेष्टव्येत्याह —
साभिमानो हीति ।
कथमसंगस्य प्रतीचः सर्वत्र बुद्ध्यादावहंमान इत्याशङ्क्याऽऽह —
अभिमानेति ।
वृत्तमनूद्योत्तरवाक्यमवतारयति —
यद्यपीति ।
यथोक्तमपि प्रत्यग्ज्योतिर्जागरिते दर्शयितुमशक्यमिति श्रुतिः स्वप्नं प्रस्तौतीत्यर्थः ।
अशक्यत्वे हेतुद्वयमाह —
सर्वेति ।
स्वप्ने निष्कृष्टं ज्योतिरिति शेषः । सदृशः सन्ननुसंचरतीति संवन्धः ।
सादृश्यस्य प्रतियोगिसापेक्षत्वमपेक्ष्य पृच्छति —
केनेति ।
उत्तरम् —
प्रकृतत्वादिति ।
प्राणानामपि तुल्यं तदिति चेत्तत्राऽऽह —
संनिहितत्वाच्चेति।
हेतुद्वयं साधयति —
हृदीत्यादिना ।
प्रकृतत्वादिफलमाह —
तस्मादिति ।
सामान्यं प्रश्नपूर्वकं विशदयति —
किं पुनरित्यादिना ।
विवेकतोऽनुपलब्धिं व्यक्तीकृतं बुद्धिज्योतिषोः स्वरूपमाह —
अवभास्येति ।
अवभासकत्वे दृष्टान्तमाह —
आलोकवदिति ।
तथापि कथं विवेकतोऽनुपलब्धिस्तत्राऽऽह —
अवभास्येति ।
प्रसिद्धिमेव प्रकटयति —
विशुद्धत्वाद्धीति ।
उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेत्यादिना ।
दृष्टान्तगतनमर्थं दार्ष्टान्तिके योजयति —
तथेति ।
पुनरुक्तिं परिहरति —
इत्युक्तमिति ।
सर्वावभासकत्वे कथं बुद्ध्यैव साम्यमित्याशङ्क्याऽऽह —
तेनेति।
सर्वावभासकत्वं तच्छब्दार्थः ।
किमर्थं तर्हि बुद्ध्या सामान्यमुक्तमित्याशङ्क्य द्वारत्वेनेत्याह —
बुद्धीति ।
आत्मनः सर्वेण समानत्व वाक्यशेषमनुकूलयति —
सर्वमय इति चेति ।
वाक्यशेषसिद्धेऽर्थे लोकभ्रान्तर्गमकत्वमाह —
तेनेति ।
सर्वमयत्वेनेति यावत् ।
आत्मानात्मनोर्विवेकदर्शनस्याशक्यत्वे परस्पराध्यासस्तद्धर्माध्यासश्च स्यात्ततश्च लोकानां मोहो भवेदित्याह —
इति सर्वेति ।
धर्मिविषयं मोहमभिनयति —
अयमिति ।
धर्मविषयं मोहं दर्शयति —
एवन्धर्मेति ।
तदेव स्फुटयति —
कर्तेत्यादिना।
विकल्पैः सर्वो लोको मोमुह्यत इति संबन्धः ।
स समानः सन्नित्यस्यार्थमुक्त्वाऽवशिष्टं भागं व्याकरोति —
अत इत्यादिना ।
आत्मनः स्वाभाविकमुभयलोकसंचरणमित्याशङ्क्यानन्तरवाक्यमादत्ते —
तत्रेति ।
आत्मा सप्तम्यर्थः । यतःशब्दो वक्ष्यमाणातःशब्देन संबध्यते ।
अक्षरोत्थमर्थमुक्त्वा वाक्यार्थमाह —
ध्यानेति ।
ध्यानवतीं बुद्धिं व्याप्तश्चिदात्मा ध्यायतीवेत्यत्र दृष्टान्तमाह —
आलोकवदिति ।
यथा खाल्वालोको नीलं पीतं वा विषयं व्यश्नुवानस्तदाकारो दृश्यते तथाऽयमपि ध्यानवतीं बुद्धिं भासयन्ध्यानवानिव भवतीत्यर्थः ।
यथोक्तबुद्ध्यवभासकत्वमुक्तं हेतुमनूद्य फलितमाह —
अत इति ।
इव शब्दार्थं कथयति —
न त्विति ।
बुद्धिधर्माणामात्मन्यौपाधिकत्वेन मिथ्यात्वमुक्त्वा प्राणधर्माणामपि तत्र तथात्वं कथयति —
तथेति ।
आत्मनि चलनस्यौपाधिकत्वं साधयति —
तेष्विति ।
इवशब्दसामर्थ्यसिद्धमर्थमाह —
न त्विति ।
स हीत्याद्यनन्तरवाक्यमाकाङ्क्षाद्वारोत्थापयति —
कथमित्यादिना ।
तच्छब्दो बुद्धिविषयः । संचरणादीत्यादिशब्दो ध्यनादिव्यापारसंग्रहार्थः । स्वप्नो भूत्वा लोकमतिक्रामतीति संबन्धः ।
कथमात्मा स्वप्नो भवति तत्राऽऽह —
स ययेति ।
उक्तेऽर्थे वाक्यमवतार्य व्याकरोति —
अत आहेति ।
उक्तं हेतुमनूद्य फलितमाह —
यस्मादित्यादिना ।
कार्यकरणातीतत्वात्प्रत्यगात्मनो न स्वतः संचारित्वमित्याह —
मृत्योरिति ।
रूपाण्यतिक्रामतीति पूर्वेण संबन्धः । क्रियास्तत्फलानि चाऽऽश्रयो येषां यानि वा क्रियाणां तत्फलानां चाऽऽश्रयस्तानीति यावत् ।