आरामं विवृणोति —
ग्राममित्यादिना ।
न तमित्यादेस्तात्पर्यमाह —
कष्टमिति ।
दृष्टिगोचरापन्नमपि न पश्यतीति संबन्धः ।
कष्टमित्यादिनोक्तं प्रपञ्चयति —
अहो इति ।
श्लोकानां तात्पर्यमुपसंहरति —
अत्यन्तेति ।
वाक्यान्तरमादाय तात्पर्यमुक्त्वाऽऽकाङ्क्षापूर्वकमक्षराणि व्याकरोति —
तं नेत्यादिना ।
तेषामभिप्रायमाह —
नूनमिति ।
इन्द्रियाण्येव द्वाराण्यस्येतीन्द्रियद्वारो जाग्रद्देहस्तस्मादिति यावत् ।
तथाऽपि सहसाऽसौ बोध्यतां का हानिरित्याशङ्क्याऽऽह —
तत्रेति ।
सहसा बोध्यमानत्वं सप्तम्यर्थः ।
किमत्र प्रमाणमित्याशङ्क्यानन्तरवाक्यमवतार्य व्याचष्टे —
तदेतदाहेत्यादिना ।
पुनरप्रतिपत्तौ दोषप्रसंगं दर्शयति —
कदाचिदिति ।
व्यत्यासप्रवेशस्य कार्यं दर्शयन्दुर्भिषज्यमित्यादि व्याचष्टे —
तत इति ।
उक्तां प्रसिद्धिमुपसंहरति —
तस्मादिति।
वृत्तमनूद्य मतान्तरमुत्थपयति —
स्वप्नो भूत्वेत्यादिना ।
इतिशब्दो यस्मादर्थे ।
तदेव मतान्तरं स्फोरयति —
नेत्यादिना ।
उक्तमङ्गीकृत्य फलं पृच्छति —
यद्येवमिति ।
स्वप्नो जागरितदेश इत्येवं यदीष्टमतश्च किं स्यादिति प्रश्नार्थः ।
फलं प्रतिज्ञाय प्रकटयति —
शृण्विति ।
मतान्तरोपन्यासस्य स्वमतविरोधित्वमाह —
इत्यत इति ।
स्वप्नस्य जाग्रद्देशत्वं दूषयति —
तदसदिति ।
तस्य जाग्रद्देशत्वाभावे फलितमाह —
तस्मादिति ।
स्वप्ने बाह्यज्योतिषः संभवो नास्तीत्यत्र प्रमाणमाह —
तदुक्तमिति ।
बाह्यज्योतिरभावेऽपि स्वप्ने व्यवहारदर्शनात्तत्र स्वयञ्ज्योतिष्ट्वमाक्षेप्तृमशक्यमित्युपसंहरति —
तस्मादिति ।
कथं पुनर्विद्यायामनुक्तायां सहस्रदानवचनमित्याशङ्क्य वृत्तं कीर्तयति —
स्वयं ज्योतिरिति ।
मृत्यो रूपाण्यतिक्रामतीत्यत्र च कार्यकरणव्यतिरिक्तत्वमात्मनो दर्शितमित्याह —
अतिक्रामतीति ।
लोकद्वयसंचारवशादुक्तमर्थमनुद्रवति —
क्रमेणेति ।
आदिशब्दस्तत्तद्देहादिविषयः ।
स्थानद्वयसंचारवशादुक्तमनुभाषते —
तथेति ।
इहलोकपरलोकाभ्यामिवेति यावत् ।
लोकद्वये स्थानद्वये च क्रमसंचारप्रयुक्तमर्थान्तरमाह —
तत्र चेति ।
आत्मनः स्वयञ्ज्योतिषो देहादिव्यतिरिक्तस्य नित्यस्य ज्ञापितत्वादित्यतःशब्दार्थः ।
कामप्रश्नस्य निर्णीतत्वान्निराकाङ्क्षत्वमिति शङ्कां वारयति —
विमोक्षश्चेति ।
सम्यग्बोधस्तद्धेतुरिति यावत् ।
ननु स एव प्रागुक्तो नासौ वक्तव्योऽस्ति तत्राऽऽह —
तदुपयोगीति ।
अयमित्युक्तात्मप्रत्ययोक्तिः । तादर्थ्यात्पदार्थज्ञानस्य वाक्यार्थज्ञानशेषत्वादिति यावत् ।
पदार्थस्य वाक्यार्थबहिर्भावं दूषयति —
तदेकदेश एवेति ।
कामप्रश्नो नाद्यापि निर्णीत इत्यत्रोत्तरवाक्यं गमकमित्याह —
अत इति ।
कामप्रश्नस्यानिर्णीतत्वादिति यावत् । तेनापेक्षितेन हेतुनेत्यर्थः ।
विमोक्षशब्दस्य सम्यग्ज्ञानविषयत्वं सूचयति —
येनेति ।
सम्यग्ज्ञानप्राप्तौ गुरुप्रसादादस्य प्राधान्यं दर्शयति —
त्वत्प्रसादादिति ।
ननु विमोक्षपदार्थो निर्णीतोऽन्यथा सहस्रदानस्याऽऽकस्मिकत्वप्रसंगादत आह —
विमोक्षेति ॥ १४ ॥