उत्तरकण्डिकाव्यावर्त्यां शङ्कामाह —
तत्रेति।
पूर्वकण्डिका सप्तम्यर्थः ।
भवत्वकर्तृत्वहेतुरसंगत्वं किं तावतेत्याशङ्क्याऽऽह -
उक्तं चेति।
पूर्वं श्लोकोपन्यासदशायामिति यावत् । कर्मवशात्स्वप्नहेतुकर्मसामर्थ्यादित्यर्थः ।
आत्मनः स्वप्ने कामकर्मसंबन्धेऽपि किमिति नासंगत्वं तत्राऽऽह —
कामश्चेति।
हेत्वसिद्धिं परिहरति —
न त्विति।
न चेद्धेतोरसिद्धत्वं तर्हि कथं तत्सिद्धिरिति पृच्छति —
कथमिति।
हेतुसमर्थनार्थमुत्तरग्रन्थमुत्थापयति —
असंग इति।
प्रतियोन्याद्रवतीत्येतदन्तं सर्वमित्युक्तम् ।
स्वप्ने कर्तृत्वाभावस्तच्छब्दार्थः उक्तमसंगत्वं व्यतिरेकमुखेन विशदयति —
यदीति।
संगवानित्यस्य व्याख्यानम् —
कामीति।
तत्संगजैस्तत्र स्वप्ने विषयविशेषेषु कामाख्यसंगवशादुत्पन्नैरपराधैरिति यावत् । न तु लिप्यते प्रायश्चित्तविधानस्यापि स्वप्नसूचिताशुभाशङ्कानिबर्हणार्थत्वाद्वस्तुवृत्तानुसारित्वाभावादिति शेषः ॥१६॥