जाग्रदवस्थायामुक्तमकर्तृत्वमाक्षिपति —
नन्विति ।
तत्र कल्पितं कर्तृत्वमित्युत्तरमाह —
नेत्यादिना ।
तदेव विवृणोति —
आत्मनैवेति ।
स्वतोऽकर्तृत्वे वाक्योपक्रमं संवादयति —
तथाचेति ।
वाक्यार्थं संगृह्णालि —
बुद्ध्यादीति ।
कर्तृत्वमिति शेषः ।
नन्वौपाधिकं कर्तृत्वं पूर्वमुक्तमिदानीं तन्निराकरणे पूर्वापरविरोधः स्यादित्यत्राऽऽह —
इह त्विति ।
उपाधिनिरपेक्षः कर्तृत्वाभाव इति शेषः ।
तेनेत्युक्तं हेतुं स्फुटयति —
यस्मादिति ।
आत्मनो लेपाभावे भगवद्वाक्यमपि प्रमाणमित्याह —
तथा चेति ।
अवस्थात्रयेऽप्यसंगत्वमनन्वागतत्वं चाऽऽत्मनः सिद्धं चेद्विमोक्षपदार्थस्य निर्णीतत्वाज्जनकस्य नैराकाङ्क्ष्यमित्याशङ्क्याऽऽह —
तथेति ।
यथा मोक्षैकदेशस्य कर्मविवेकस्य दर्शितत्वात्पूर्वत्र सहस्रदानमुक्तं तथाऽऽत्रापि तदेकदेशस्य कामविवेकस्य दर्शितत्वात्तद्दानं न तु कामप्रश्नस्य निर्णीतत्वादित्यर्थः ।
द्वितीयतृतीयकण्डिकयोस्तात्पर्यं संगृह्णाति —
तथेत्यदिना ।
यथा प्रथमकण्डिकया कर्मविवेकः प्रतिपादितस्तथेति यावत् ।
कण्डिकात्रितयार्थं संक्षिप्योपसंहरति —
यस्मादिति ।
अवस्थात्रयेऽप्यसंगत्वे किं सिध्यति तदाह —
अत इति ।
प्रतीकमादाय स्वप्नान्तशब्दार्थमाह —
प्रतियोनीति ।
कथं पुनस्तस्य सुषुप्तविषयत्वमत आह —
दर्शनवृत्तेरिति ।
दर्शनं वासनामयं तस्य वृत्तिर्यस्मिन्निति व्युत्पत्त्या स्वप्नो दर्शनवृत्तिस्तस्य स्वप्नशब्देनैव सिद्धत्वादन्तशब्दवैय्यर्थ्यात्तस्यान्तो लयो यस्मिन्निति व्युत्पत्त्या स्वप्नान्तशब्देन सुषुप्तग्रहे सत्यन्तशब्देन स्वप्नस्य व्यावृत्त्युपपत्तेरत्र सुषुप्तस्थानमेव स्वप्नान्तशब्दितमित्यर्थः ।
तत्रैव वाक्यशेषानुगुण्यमाह —
एतस्मा इति ।
स्वप्नान्तशब्दस्य स्वप्ने प्रयोगदर्शनादिहापि तस्यैव तेन ग्रहणमिति पक्षान्तरमुत्थाप्याङ्गीकरोति —
यदीत्यादिना ।
सिषाधयिषितार्थसिद्धौ हेतुमाह —
यस्मादिति ॥ १७ ॥