स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७ ॥
स वै एषः एतस्मिन् बुद्धान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत् । स यत् तत्र बुद्धान्ते किञ्चित्पश्यति, अनन्वागतः तेन भवति — असङ्गो ह्ययं पुरुष इति । ननु दृष्ट्वैवेति कथमवधार्यते ? करोति च तत्र पुण्यपापे ; तत्फलं च पश्यति — न, कारकावभासकत्वेन कर्तृत्वोपपत्तेः ; ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) इत्यादिना आत्मज्योतिषा अवभासितः कार्यकरणसङ्घातः व्यवहरति ; तेन अस्य कर्तृत्वमुपचर्यते, न स्वतः कर्तृत्वम् ; तथा चोक्तम् ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति — बुद्ध्याद्युपाधिकृतमेव न स्वतः ; इह तु परमार्थापेक्षया उपाधिनिरपेक्ष उच्यते — दृष्ट्वैव पुण्यं च पापं च न कृत्वेति ; तेन न पूर्वापरव्याघाताशङ्का, यस्मात् निरुपाधिकः परमार्थतो न करोति, न लिप्यते क्रियाफलेन ; तथा च भगवतोक्तम् — ‘अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ (भ. गी. १३ । ११) इति । तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् । तथा ‘स वा एष एतस्मिन्स्वप्ने’ ‘स वा एष एतस्मिन्बुद्धान्ते’ इत्येताभ्यां कण्डिकाभ्याम् असङ्गतैव प्रतिपादिता ; यस्मात् बुद्धान्ते कृतेन स्वप्नान्तं गतः सम्प्रसन्नः असम्बद्धो भवति स्तैन्यादिकार्यादर्शनात् , तस्मात् त्रिष्वपि स्थानेषु स्वतः असङ्ग एव अयम् ; अतः अमृतः स्थानत्रयधर्मविलक्षणः । प्रतियोन्याद्रवति स्वप्नान्तायैव, सम्प्रसादायेत्यर्थः — दर्शनवृत्तेः स्वप्नस्य स्वप्नशब्देन अभिधानदर्शनात् , अन्तशब्देन च विशेषणोपपत्तेः ; ‘एतस्मा अन्ताय धावति’ (बृ. उ. ४ । ३ । १९) इति च सुषुप्तं दर्शयिष्यति । यदि पुनः एवमुच्यते — ‘स्वप्नान्ते रत्वा चरित्वा’ (बृ. उ. ४ । ३ । ३४) ‘एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च’ (बृ. उ. ४ । ३ । १८) इति दर्शनात् , ‘स्वप्नान्तायैव’ इत्यत्रापि दर्शनवृत्तिरेव स्वप्न उच्यत इति — तथापि न किञ्चिद्दुष्यति ; असङ्गता हि सिषाधयिषिता सिध्यत्येव ; यस्मात् जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतः, न जागरितदोषेणानुगतो भवति ॥