एवम् अयं पुरुष आत्मा स्वयं ज्योतिः कार्यकरणविलक्षणः तत्प्रयोजकाभ्यां कामकर्मभ्यां विलक्षणः — यस्मात् असङ्गो ह्ययं पुरुषः, असङ्गत्वात् — इत्ययमर्थः ‘स वा एष एतस्मिन्सम्प्रसादे’ (बृ. उ. ४ । ३ । १५) इत्याद्याभिस्तिसृभिः कण्डिकाभिः प्रतिपादितः ; तत्र असङ्गतैव आत्मनः कुतः — यस्मात् , जागरितात् स्वप्नम् , स्वप्नाच्च सम्प्रसादम् , सम्प्रसादाच्च पुनः स्वप्नम् , क्रमेण बुद्धान्तं जागरितम् , बुद्धान्ताच्च पुनः स्वप्नान्तम् — इत्येवम् अनुक्रमसञ्चारेण स्थानत्रयस्य व्यतिरेकः साधितः । पूर्वमप्युपन्यस्तोऽयमर्थः ‘स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि’ (बृ. उ. ४ । ३ । ७) इति — तं विस्तरेण प्रतिपाद्य, केवलं दृष्टान्तमात्रमवशिष्टम् , तद्वक्ष्यामीत्यारभ्यते —