बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं चापरं चैवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥ १८ ॥
तत् तत्र एतस्मिन् , यथा — प्रदर्शितेऽर्थे दृष्टान्तोऽयमुपादीयते — यथा लोके महामत्स्यः, महांश्चासौ मत्स्यश्च, नादेयेन स्रोतसा अहार्य इत्यर्थः, स्रोतश्च विष्टम्भयति, स्वच्छन्दचारी, उभे कूले नद्याः पूर्वं च अपरं च अनुक्रमेण सञ्चरति ; सञ्चरन्नपि कूलद्वयं तन्मध्यवर्तिना उदकस्रोतोवेगेन न परवशी क्रियते — एवमेव अयं पुरुषः एतौ उभौ अन्तौ अनुसञ्चरति ; कौ तौ ? स्वप्नान्तं च बुद्धान्तं च । दृष्टान्तप्रदर्शनफलं तु — मृत्युरूपः कार्यकरणसङ्घातः सह तत्प्रयोजकाभ्यां कामकर्मभ्याम् अनात्मधर्मः ; अयं च आत्मा एतस्माद्विलक्षणः — इति विस्तरतो व्याख्यातम् ॥

आत्मनः स्थानत्रयसंचारादसिद्धोऽसंगत्वहेतुरिति शङ्कते —

तत्रेति ।

प्रतिज्ञाहेत्वोर्हेतुनिर्धारणं सप्तम्यर्थः । सप्रयोजकाद्देहद्वयाद्वैलक्षण्यं तु दूरनिरस्तमित्येवशब्दार्थः ।

एवं चोदिते हेतुसमर्थनार्थं महामत्स्यवाक्यमिति संगतिमभिप्रेत्य संगत्यन्तरमाह —

पूर्वमपीति ।

यथाप्रदर्शितोऽर्थोऽसंगत्वं कार्यकरणविनिर्मुक्तत्वं च अहार्यत्वमप्रकम्प्यत्वम् ।

स्वच्छन्दचारित्वं प्रकटयति —

संचरन्नपीति ।

किं पुनर्दृष्टान्तेन दार्ष्टान्तिके लभ्यते तदाह —

दृष्टान्तेति ॥ १८ ॥