बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अत्र च स्थानत्रयानुसञ्चारेण स्वयञ्ज्योतिष आत्मनः कार्यकरणसङ्घातव्यतिरिक्तस्य कामकर्मभ्यां विविक्तता उक्ता ; स्वतः नायं संसारधर्मवान् , उपाधिनिमित्तमेव तु अस्य संसारित्वम् अविद्याध्यारोपितम् — इत्येष समुदायार्थ उक्तः । तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूपः उक्तः, न पुञ्जीकृत्य एकत्र दर्शितः — यस्मात् जागरिते ससङ्गः समृत्युः सकार्यकरणसङ्घातः उपलक्ष्यते अविद्यया ; स्वप्ने तु कामसंयुक्तः मृत्युरूपविनिर्मुक्त उपलभ्यते ; सुषुप्ते पुनः सम्प्रसन्नः असङ्गो भवतीति असङ्गतापि दृश्यते ; एकवाक्यतया तु उपसंह्रियमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावता अस्य न एकत्र पुञ्जीकृत्य प्रदर्शितेति, तत्प्रदर्शनाय कण्डिका आरभ्यते । सुषुप्ते हि एवंरूपता अस्य वक्ष्यमाणा ‘तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम्’ (बृ. उ. ४ । ३ । २१) इति ; यस्मात् एवंरूपं विलक्षणम् , सुषुप्तं प्रविविक्षति ; तत् कथमिति आह — दृष्टान्तेन अस्य अर्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते —

श्येनवाक्यमवतारयितुं वृत्तं कीर्तयति —

अत्र चेति ।

पूर्वसन्दर्भः सप्तम्यर्थः ।

देहद्वयेन सप्रयोजकेन वस्तुतोऽसंबन्धे फलितमाह —

स्वत इति ।

कथं तर्हि तत्र संसारित्वधीरित्याशङ्क्याह —

उपाधीति ।

औपाधिकस्यापि वस्तुत्वमाशङ्क्याऽऽह —

अविद्येति ।

वृत्तमनूद्योत्तरग्रन्थमवतारयन्भूमिकामाह —

तत्रेति ।

स्थानत्रयसंबन्धित्वेन विप्रकीर्णे विश्लिष्टं रूपमस्येत्यात्मा तथा । पञ्चीकृत्य विवक्षितं सर्वं विशेषणमादायेति यावत् ।

एकत्रेति वाक्योक्तिः । तत्र हेतुं वदञ्जाग्रद्वाक्येन विवक्षितात्मोक्तिरित्याह —

यस्मादिति ।

ससंगत्वादेर्दृश्यमानरूपस्य मिथ्यात्वं सूचयति —

अविद्ययेति ।

स्वप्नवाक्ये विवक्षितात्मसिद्धिमाशङ्क्याऽऽह —

स्वप्ने त्विति ।

तर्हि सुषुप्तवाक्ये तत्सिद्धिर्नेत्याह —

सुषुप्ते पुनरिति ।

तत्राप्यविद्यानिर्मोको न प्रतिभातीति भावः ।

एवं पातनिकां कृत्वा श्येनवाक्यमादत्ते —

एकवाक्यतयेति ।

पूर्ववाक्यानामिति शेषः ।

कुत्र तर्हि यथोक्तमात्मरूपं पञ्चीकृत्य प्रदर्श्यते तत्राऽऽह —

सुषुप्ते हीति ।

तत्राभयमित्यविद्याराहित्यमुच्यते सा च सुषुप्ते स्वरूपेण सत्यपि नाभिव्यक्ता भातीति द्रष्टव्यम् । यस्मात्सुषुप्ते यथोक्तमात्मरूपं वक्ष्यते तस्मादिति यावत् ।

एवंरूपमित्येतदेव प्रकटयति —

विलक्षणमिति ।

कर्यकरणविनिर्मुक्तं कामकर्माविद्यारहितमित्यर्थः ।

स्थानद्वयं हित्वा कथं सुषुप्तं प्रवेष्टुमिच्छतीति पृच्छति —

तत्कथमिति ।

स्वप्नादौ दुःखानुभवात्तत्त्यागेन सुषुप्तं प्राप्नोतीत्याह —

आहेति ।

अथोत्तरा श्रुतिः स्थानान्तरप्राप्तिमभिधत्तां तथाऽपि किं दृष्टान्तवचनेनेत्याशङ्क्याऽऽह —

दृष्टान्तेनेति ।

अस्यार्थस्य सुषुप्तिरूपस्येत्येतत् । स एवार्थस्तत्रेति सप्तम्यर्थः । परमात्माकाशं व्यावर्तयितुं भौतिकविशेषणम् । महाकायो मन्दवेगः श्येनः सुपर्णस्तु वेगवानल्पविग्रह इति भेदः । धारणे सौकर्यं वक्तुं स्वयमेवेत्युक्तम् । स्वप्नजागरितयोरवसानमन्तमज्ञातं ब्रह्म । तथा न कञ्चन स्वप्नमिति स्वप्नजागरितयोरविशेषेण सर्वं दर्शनं निषिध्यत इति शेषः ।