बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति ॥ १९ ॥
तत् यथा — अस्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा, सुपर्णशब्देन क्षिप्रः श्येन उच्यते, यथा आकाशेऽस्मिन् विहृत्य विपरिपत्य श्रान्तः नानापरिपतनलक्षणेन कर्मणा परिखिन्नः, संहत्य पक्षौ सङ्गमय्य सम्प्रसार्य पक्षौ, सम्यक् लीयते अस्मिन्निति संलयः, नीडः नीडायैव, ध्रियते स्वात्मनैव धार्यते स्वयमेव ; यथा अयं दृष्टान्तः, एवमेव अयं पुरुषः, एतस्मा एतस्मै, अन्ताय धावति । अन्तशब्दवाच्यस्य विशेषणम् — यत्र यस्मिन् अन्ते सुप्तः, न कञ्चन न कञ्चिदपि, कामं कामयते ; तथा न कञ्चन स्वप्नं पश्यति । ‘न कञ्चन कामम्’ इति स्वप्नबुद्धान्तयोः अविशेषेण सर्वः कामः प्रतिषिध्यते, ‘कञ्चन’ इत्यविशेषिताभिधानात् ; तथा ‘न कञ्चन स्वप्नम्’ इति — जागरितेऽपि यत् दर्शनम् , तदपि स्वप्नं मन्यते श्रुतिः, अत आह — न कञ्चन स्वप्नं पश्यतीति ; तथा च श्रुत्यन्तरम् ‘तस्य त्रय आवसथास्त्रयः स्वप्नाः’ (ऐ. उ. १ । ३ । १२) इति । यथा दृष्टान्ते पक्षिणः परिपतनजश्रमापनुत्तये स्वनीडोपसर्पणम् , एवं जाग्रत्स्वप्नयोः कार्यकरणसंयोगजक्रियाफलैः संयुज्यमानस्य, पक्षिणः परिपतनज इव, श्रमो भवति ; तच्छ्रमापनुत्तये स्वात्मनो नीडम् आयतनं सर्वसंसारधर्मविलक्षणं सर्वक्रियाकारकफलायासशून्यं स्वमात्मानं प्रविशति ॥

स्वप्नविशेषणात्स्वप्नदर्शननिषेधेऽपि कुतो जाग्रद्दर्शनं निषिध्यते तत्राऽह —

जागरितेऽपीति ।

कथमयमभिप्रायः श्रुतेरवगत इत्याशङ्क्य विशेषणसामर्थ्यादित्याह —

अत आहेति ।

जागरितस्यापि स्वप्नत्वे श्रुत्यन्तरं संवादयति —

तथा चेति ।

दृष्टान्तदार्ष्टान्तिकयोर्विवक्षितमंशं दर्शयति —

यथेत्यादिना ।

संयुज्यमानस्य क्षेत्रज्ञस्येति शेषः ।

सर्वसंसारधर्माविलक्षणमिति विशेषणं व्याचष्टे —

सर्वेति ॥ १९ ॥