बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिवपतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ २० ॥
यदि अस्य अयं स्वभावः — सर्वसंसारधर्मशून्यता, परोपाधिनिमित्तं च अस्य संसारधर्मित्वम् ; यन्निमित्तं च अस्य परोपाधिकृतं संसारधर्मित्वम् , सा च अविद्या — तस्या अविद्यायाः किं स्वाभाविकत्वम् , आहोस्वित् कामकर्मादिवत् आगन्तुकत्वम् ; यदि च आगन्तुकत्वम् , ततो विमोक्ष उपपद्यते ; तस्याश्च आगन्तुकत्वे का उपपत्तिः, कथं वा न आत्मधर्मः अविद्येति — सर्वानर्थबीजभूताया अविद्यायाः सतत्त्वावधारणार्थं परा कण्डिका आरभ्यते —

श्येनवाक्येनाऽऽत्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धं वक्तुं चोदयति —

यद्यस्येति ।

परः सन्नुपाधिर्बुद्ध्यादिः ।

असंगत्वतः स्वतो बुद्ध्यादिसंबन्धासंभवमुपेत्याऽऽह —

यन्निमित्तं चेति ।

सिद्धान्ताभिप्रायमनूद्य पूर्ववादी विकल्पयति —

तस्या इति ।

आगन्तुकत्वमस्वाभाविकत्वम् ।

आद्ये मोक्षानुपपत्तिं विवक्षित्वाऽऽह —

यदि चेति ।

अस्तु तर्हि द्वितीयो मोक्षोपपत्तेरित्याशङ्क्याऽऽह —

तस्याश्चेति ।

मा भूदविद्याऽऽत्मस्वभावस्तद्धर्मस्तु स्याद्धर्म्यन्तराभावादित्याह —

कथं वेति ।

तत्रोत्तरत्वेनोत्तरग्रन्थमुत्थापयति —

सर्वानर्थेति ।