बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यदि अस्य अयं स्वभावः — सर्वसंसारधर्मशून्यता, परोपाधिनिमित्तं च अस्य संसारधर्मित्वम् ; यन्निमित्तं च अस्य परोपाधिकृतं संसारधर्मित्वम् , सा च अविद्या — तस्या अविद्यायाः किं स्वाभाविकत्वम् , आहोस्वित् कामकर्मादिवत् आगन्तुकत्वम् ; यदि च आगन्तुकत्वम् , ततो विमोक्ष उपपद्यते ; तस्याश्च आगन्तुकत्वे का उपपत्तिः, कथं वा न आत्मधर्मः अविद्येति — सर्वानर्थबीजभूताया अविद्यायाः सतत्त्वावधारणार्थं परा कण्डिका आरभ्यते —

श्येनवाक्येनाऽऽत्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धं वक्तुं चोदयति —

यद्यस्येति ।

परः सन्नुपाधिर्बुद्ध्यादिः ।

असंगत्वतः स्वतो बुद्ध्यादिसंबन्धासंभवमुपेत्याऽऽह —

यन्निमित्तं चेति ।

सिद्धान्ताभिप्रायमनूद्य पूर्ववादी विकल्पयति —

तस्या इति ।

आगन्तुकत्वमस्वाभाविकत्वम् ।

आद्ये मोक्षानुपपत्तिं विवक्षित्वाऽऽह —

यदि चेति ।

अस्तु तर्हि द्वितीयो मोक्षोपपत्तेरित्याशङ्क्याऽऽह —

तस्याश्चेति ।

मा भूदविद्याऽऽत्मस्वभावस्तद्धर्मस्तु स्याद्धर्म्यन्तराभावादित्याह —

कथं वेति ।

तत्रोत्तरत्वेनोत्तरग्रन्थमुत्थापयति —

सर्वानर्थेति ।