बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिवपतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ २० ॥
ताः वै, अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्य, एताः हिता नाम नाड्यः, यथा केशः सहस्रधा भिन्नः, तावता तावत्परिमाणेन अणिम्ना अणुत्वेन तिष्ठन्ति ; ताश्च शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः, एतैः शुक्लत्वादिभिः रसविशेषैः पूर्णा इत्यर्थः ; एते च रसानां वर्णविशेषाः वातपित्तश्लेष्मणामितरेतरसंयोगवैषम्यविशेषात् विचित्रा बहवश्च भवन्ति । तासु एवंविधासु नाडीषु सूक्ष्मासु वालाग्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सकलदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते ; तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः ; तत् लिङ्गं वासनाश्रयं सूक्ष्मत्वात् स्वच्छं स्फटिकमणिकल्पं नाडीगतरसोपाधिसंसर्गवशात् धर्माधर्मप्रेरितोद्भूतवृत्तिविशेषं स्त्रीरथहस्त्याद्याकारविशेषैर्वासनाभिः प्रत्यवभासते ; अथ एवं सति, यत्र यस्मिन्काले, केचन शत्रवः अन्ये वा तस्कराः मामागत्य घ्नन्ति — इति मृषैव वासनानिमित्तः प्रत्ययः अविद्याख्यः जायते, तदेतदुच्यते — एनं स्वप्नदृशं घ्नन्तीवेति ; तथा जिनन्तीव वशीकुर्वन्तीव ; न केचन घ्नन्ति, नापि वशीकुर्वन्ति, केवलं तु अविद्यावासनोद्भवनिमित्तं भ्रान्तिमात्रम् ; तथा हस्तीवैनं विच्छाययति विच्छादयति विद्रावयति धावयतीवेत्यर्थः ; गर्तमिव पतति — गर्तं जीर्णकूपादिकमिव पतन्तम् आत्मानमुपलक्षयति ; तादृशी हि अस्य मृषा वासना उद्भवति अत्यन्तनिकृष्टा अधर्मोद्भासितान्तःकरणवृत्त्याश्रया, दुःखरूपत्वात् । किं बहुना, यदेव जाग्रत् भयं पश्यति हस्त्यादिलक्षणम् , तदेव भयरूपम् अत्र अस्मिन्स्वप्ने विनैव हस्त्यादिरूपं भयम् अविद्यावासनया मृषैव उद्भूतया मन्यते । अथ पुनः यत्र अविद्या अपकृष्यमाणा विद्या चोत्कृष्यमाणा — किंविषया किंलक्षणा चेत्युच्यते — अथ पुनः यत्र यस्मिन्काले, देव इव स्वयं भवति, देवताविषया विद्या यदा उद्भूता जागरितकाले, तदा उद्भूतया वासनया देवमिव आत्मानं मन्यते ; स्वप्नेऽपि तदुच्यते — देव इव, राजेव राज्यस्थः अभिषिक्तः, स्वप्नेऽपि राजा अहमिति मन्यते राजवासनावासितः । एवम् अत्यन्तप्रक्षीयमाणा अविद्या उद्भूता च विद्या सर्वात्मविषया यदा, तदा स्वप्नेऽपि तद्भावभावितः — अहमेवेदं सर्वोऽस्मीति मन्यते ; स यः सर्वात्मभावः, सोऽस्य आत्मनः परमो लोकः परम आत्मभावः स्वाभाविकः । यत्तु सर्वात्मभावादर्वाक् वालाग्रमात्रमपि अन्यत्वेन दृश्यते — नाहमस्मीति, तदवस्था अविद्या ; तया अविद्यया ये प्रत्युपस्थापिताः अनात्मभावा लोकाः, ते अपरमाः स्थावरान्ताः ; तान् संव्यवहारविषयान् लोकानपेक्ष्य अयं सर्वात्मभावः समस्तोऽनन्तरोऽबाह्यः, सोऽस्य परमो लोकः । तस्मात् अपकृष्यमाणायाम् अविद्ययाम् , विद्यायां च काष्ठं गतायाम् , सर्वात्मभावो मोक्षः, यथा स्वयञ्ज्योतिष्ट्वं स्वप्ने प्रत्यक्षत उपलभ्यते तद्वत् , विद्याफलम् उपलभ्यत इत्यर्थः । तथा अविद्यायामप्युत्कृष्यमाणायाम् , तिरोधीयमानायां च विद्यायाम् , अविद्यायाः फलं प्रत्यक्षत एवोपलभ्यते — ‘अथ यत्रैनं घ्नन्तीव जिनन्तीव’ इति । ते एते विद्याविद्याकार्ये, सर्वात्मभावः परिच्छिन्नात्मभावश्च ; विद्यया शुद्धया सर्वात्मा भवति ; अविद्यया च असर्वो भवति ; अन्यतः कुतश्चित्प्रविभक्तो भवति ; यतः प्रविभक्तो भवति, तेन विरुध्यते ; विरुद्धत्वात् हन्यते जीयते विच्छाद्यते च ; असर्वविषयत्वे च भिन्नत्वात् एतद्भवति ; समस्तस्तु सन् कुतो भिद्यते, येन विरुध्येत ; विरोधाभावे, केन हन्यते जीयते विच्छाद्यते च । अत इदम् अविद्यायाः सतत्त्वमुक्तं भवति — सर्वात्मानं सन्तम् असर्वात्मत्वेन ग्राहयति, आत्मनः अन्यत् वस्त्वन्तरम् अविद्यमानं प्रत्युपस्थापयति, आत्मानम् असर्वमापादयति ; ततस्तद्विषयः कामो भवति ; यतो भिद्यते कामतः, क्रियामुपादत्ते, ततः फलम् — तदेतदुक्तम् । वक्ष्यमाणं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४), (बृ. उ. ४ । ५ । १५) इत्यादि । इदम् अविद्यायाः सतत्त्वं सह कार्येण प्रदर्शितम् ; विद्यायाश्च कार्यं सर्वात्मभावः प्रदर्शितः अविद्याया विपर्ययेण । सा चाविद्या न आत्मनः स्वाभाविको धर्मः — यस्मात् विद्यायामुत्कृष्यमाणायां स्वयमपचीयमाना सती, काष्ठां गतायां विद्यायां परिनिष्ठिते सर्वात्मभावे सर्वात्मना निवर्तते, रज्ज्वामिव सर्पज्ञानं रज्जुनिश्चये ; तच्चोक्तम् — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादि ; तस्मात् न आत्मधर्मः अविद्या ; न हि स्वाभाविकस्योच्छित्तिः कदाचिदप्युपपद्यते, सवितुरिव औष्ण्यप्रकाशयोः । तस्मात् तस्या मोक्ष उपपद्यते ॥

तासां परमसूक्ष्मत्वं दृष्टान्तेन दर्शयति —

यथेति ।

कथमन्नरसस्य वर्णविशेषप्राप्तिरित्याशङ्क्याऽऽह —

वातेति ।

भुक्तस्यान्नस्य परिणामविशेषो वातबाहुल्ये नीलो भवति पित्ताधिक्ये पिङ्गलो जायते श्लेश्मातिशये शुक्लो भवति पित्ताल्पत्वे हरितः साम्ये च धातूनां लोहित इति तेषां मिथः संयोगवैषम्यात्तत्साम्याच्च विचित्रा बहवश्चान्नरसा भवन्ति तद्व्याप्तानां नाडीनामपि तादृशो वर्णो जायते ।
‘ अरुणाः शिरा वातवहा नीलाः पित्तवहाः शिराः ।
असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्मवहाः शिराः ॥’
इति सौश्रुते दर्शनादित्यर्थः ।

नाडीस्वरूपं निरूप्य यत्र जागरिते लिङ्गशरीरस्य वृत्तिं दर्शयति —

तास्त्विति ।

एवंविधास्वित्यस्यैव विवरणं सूक्ष्मास्वित्यादि । पञ्चभूतानि दशेन्द्रियाणि प्राणोऽन्तःकरणमिति सप्तदशकम् ।

जागरिते लिङ्गशरीरस्य स्थितिमुक्त्वा स्वाप्नीं तत्स्थितिमाह —

तल्लिङ्गमिति ।

विवक्षितां स्वप्नस्थितिमुक्त्वा श्रुत्यक्षराणि योजयति —

अथेत्यादिना ।

स्वप्ने धर्मादिनिमित्तवशान्मिथ्यैव लिङ्गं नानाकारमवभासते तन्मिथ्याज्ञानं लिङ्गानुगतमूलाविद्याकार्यत्वादविद्येति स्थिते सतीत्यथशब्दार्थमाह —

एवं सतीति ।

तस्मिन्काले स्वप्नदर्शने विज्ञेयमिति शेषः ।

इवशब्दर्थमाह —

नेत्यादिना ।

उक्तोदाहरणेन समुच्चित्योदहरणान्तरमाह —

तथेति ।

गर्तादिपतनप्रतीतौ हेतुमाह —

तादृशी हीति ।

तादृशत्वं विशदयति —

अत्यन्तेति ।

यथोक्तवासनाप्रभवत्वं कथं गर्तपतनादेरवगतमित्याशङ्क्याऽऽह —

दुःखेति ।

यदेवेत्यादिश्रुतेरर्थमाह —

किं बहुनेति ।

भयमित्यस्य भयरूपमिति व्याख्यानम् । भयं रूप्यते येन तत्कारणं तथा ।

हस्त्यदि नास्ति चेत्कथं स्वप्ने भातीत्याशङ्क्याऽऽह —

अविद्येति ।

अथ यत्र देव इवेत्यादेस्तात्पर्यमाह —

अथेति ।

तत्र तस्याः फलमुच्यत इति शेषः ।

तात्पर्योक्त्याऽथशब्दार्थमुक्त्वा विद्यया विषयस्वरूपे प्रश्नपूर्वकं वदन्यत्रेत्यादेरर्थमाह —

किं विषयेति ।

इवशब्दप्रयोगात्स्वप्न एवोक्त इति शङ्कां वारयति —

देवतेति ।

विद्येत्युपास्तिरुक्ता । अभिषिक्तो राज्यस्थो जग्रदवस्थायामिति शेषः ।

अहमेवेदमित्याद्यवतारयति —

एवमिति ।

यथाऽविद्यायामपकृष्यमाणायां कार्यमुक्तं तद्वदित्यर्थः । यदेति जागरितोक्तिः । इदं चैतन्यमहमेव चिन्मात्रं न तु मदतिरेकेणास्ति तस्मादहं सर्वः पूर्णोऽस्मीति जानातीत्यर्थः ।

सर्वात्मभावस्य परमत्वमुपपादयति —

यत्त्वित्यादिना ।

तत्र तेनाऽऽकारेणाविद्याऽवस्थितेत्याह —

तदवस्थेति ।

तस्याः कार्यमाह —

तयेति ।

समस्तत्वं पूर्णत्वम् । अनन्तरत्वमेकरसत्वम् । अबाह्यत्वं प्रत्यक्त्वम् । योऽयं यथोक्तो लोकः सोऽस्याऽऽत्मनो लोकान्पूर्वोक्तानपेक्ष्य परम इति संबन्धः ।

वाक्यार्थमुपसंहरति —

तस्मादिति ।

मोक्षो विद्याफलमित्युत्तरत्र संबन्धः ।

तस्य प्रत्यक्षत्वं दृष्टान्तेन स्पष्टयति —

यथेति ।

विद्याफलवदविद्याफलमपि स्वप्ने प्रत्यक्षमित्युक्तमनुवदति —

तथेति ।

विद्याफलमविद्याफलं चेत्युक्तमुपसंहरति —

ते एते इति ।

उक्तं फलद्वयं विभजते —

विद्ययेति ।

असर्वो भवतीत्येतत्प्रकटयति —

अन्यत इति ।

प्रविभागफलमाह —

यत इति ।

विरोधफलं कथयति —

विरुद्धत्वादिति ।

अविद्याकार्यं निगमयति —

असर्वेति ।

अविद्यायाश्चेत्परिच्छिन्नफलत्वं तदा तस्य भिन्नत्वादेव यथोक्तं विरोधादि दुर्वारमित्यर्थः ।

विद्याफलं निगमयति —

समस्तस्त्विति ।

नन्वविद्यायाः सतत्त्वं निरूपयितुमारब्धं न च तदद्यापि दर्शितं तथा च किं कृतं स्यादत आह —

अत इति ।

कार्यवशादिति यावत् ।

इदंशब्दार्थमेव स्फुटयति —

सर्वात्मनामिति ।

ग्राहकत्वमेव व्यनक्ति —

आत्मन इति ।

वस्त्वन्तरोपस्थितिफलमाह —

तत इति ।

कामस्य कार्यमाह —

यत इति ।

क्रियातः फलं लभते तद्भोगकाले च रागादिना क्रियामादधातीत्यविच्छिन्नः संसारस्तद्यावन्न सम्यग्ज्ञानं तावन्मिथ्याज्ञाननिदानमविद्या दुर्वारेत्याह —

तत इति ।

भेददर्शननिदानमविद्येत्यविद्यासूत्रे वृत्तमित्याह —

तदेतदिति ।

तत्रैव वाक्यशेषमनुकूलयति —

वक्ष्यमाणं चेति ।

अविद्याऽऽत्मनः स्वभावो न वेति विचारे किं निर्णीतं भवतीत्याशङ्क्य वृत्तं कीर्तयति —

इदमिति ।

अविद्यायाः परिच्छिन्नफलत्वमस्ति ततो वैपरीत्येन विद्ययाः कार्यमुक्तं स च सर्वात्मभावो दर्शित इति योजना ।

संप्रति निर्णीतमर्थं दर्शयति —

सा चेति ।

ज्ञाने सत्यविद्यानिवृत्तिरित्यत्र वाक्यशेषं प्रमाणयति —

तच्चेति ।

अविद्या नाऽऽत्मनः स्वभावो निवर्त्यत्वाद्रज्जुसर्पवदित्याह —

तस्मादिति ।

निवर्त्यत्वेऽप्यात्मस्वभावत्वे का हानिरित्याशङ्याऽऽह —

न हीति ।

अविद्यायाः स्वाभाविकत्वाभावे फलितमाह —

तस्मादिति ॥ २० ॥