बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम् । तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ २१ ॥
इदानीं योऽसौ सर्वात्मभावो मोक्षः विद्याफलं क्रियाकारकफलशून्यम् , स प्रत्यक्षतो निर्दिश्यते, यत्र अविद्याकामकर्माणि न सन्ति । तत् एतत् प्रस्तुतम् — ‘यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति’ (बृ. उ. ४ । ३ । १९) इति, तदेतत् वै अस्य रूपम् — यः सर्वात्मभावः ‘सोऽस्य परमो लोकः’ (बृ. उ. ४ । ३ । २०) इत्युक्तः — तत् ; अतिच्छन्दा अतिच्छन्दमित्यर्थः, रूपपरत्वात् ; छन्दः कामः, अतिगतः छन्दः यस्माद्रूपात् तत् अतिच्छन्दं रूपम् ; अन्योऽसौ सान्तः छन्दःशब्दः गायत्र्यादिच्छन्दोवाची ; अयं तु कामवचनः, अतः स्वरान्त एव ; तथापि ‘अतिच्छन्दा’ इति पाठः स्वाध्यायधर्मो द्रष्टव्यः ; अस्ति च लोके कामवचनप्रयुक्तः छन्दशब्दः ‘स्वच्छन्दः’ ‘परच्छन्दः’ इत्यादौ ; अतः ‘अतिच्छन्दम्’ इत्येवम् उपनेयम् , कामवर्जितमेतद्रूपमित्यस्मिन् अर्थे तथा अपहतपाप्म — पाप्मशब्देन धर्माधर्मावुच्येते, ‘पाप्मभिः संसृज्यते’‘पाप्मनो विजहाति’ (बृ. उ. ४ । ३ । ८) इत्युक्तत्वात् ; अपहतपाप्म धर्माधर्मवर्जितमित्येतत् । किञ्च, अभयम् — भयं हि नाम अविद्याकार्यम् , ‘अविद्यया भयं मन्यते’ (बृ. उ. ४ । ३ । २०) इति ह्युक्तम् ; तत् कार्यद्वारेण कारणप्रतिषेधोऽयम् ; अभयं रूपमिति अविद्यावर्जितमित्येतत् । यदेतत् विद्याफलं सर्वात्मभावः, तदेतत् अतिच्छन्दापहतपाप्माभयं रूपम् — सर्वसंसारधर्मवर्जितम् , अतः अभयं रूपम् एतत् । इदं च पूर्वमेवोपन्यस्तम् अतीतानन्तरब्राह्मणसमाप्तौ ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इत्यागमतः ; इह तु तर्कतः प्रपञ्चितं दर्शितागमार्थप्रत्ययदार्ढ्याय । अयमात्मा स्वयं चैतन्यज्योतिःस्वभावः सर्वं स्वेन चैतन्यज्योतिषा अवभासयति — स यत्तत्र किञ्चित्पश्यति, रमते, चरति, जानाति चेत्युक्तम् ; स्थितं चैतत् न्यायतः नित्यं स्वरूपं चैतन्यज्योतिष्ट्वमात्मनः । सः यद्यात्मा अत्र अविनष्टः स्वेनैव रूपेण वर्तते, कस्मात् अयम् — अहमस्मीत्यात्मानं वा, बहिर्वा — इमानि भूतानीति, जाग्रत्स्वप्नयोरिव, न जानाति — इत्यत्र उच्यते ; शृणु अत्र अज्ञानहेतुम् ; एकत्वमेव अज्ञानहेतुः ; तत्कथमिति उच्यते ; दृष्टान्तेन हि प्रत्यक्षी भवति विवक्षितोऽर्थ इत्याह — तत् तत्र यथा लोके प्रियया इष्टया स्त्रिया सम्परिष्वक्तः सम्यक्परिष्वक्तः कामयन्त्या कामुकः सन् , न बाह्यमात्मनः किञ्चन किञ्चिदपि वेद — मत्तोऽन्यद्वस्त्विति, न च आन्तरम् — अयमहमस्मि सुखी दुःखी वेति ; अपरिष्वक्तस्तु तया प्रविभक्तो जानाति सर्वमेव बाह्यम् आभ्यान्तरं च ; परिष्वङ्गोत्तरकालं तु एकत्वापत्तेः न जानाति — एवमेव, यथा दृष्टान्तः अयं पुरुषः क्षेत्रज्ञः भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभक्तः, जलादौ चन्द्रादिप्रतिबिम्बवत् कार्यकरण इह प्रविष्टः, सोऽयं पुरुषः, प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेन आत्मना परेण ज्योतिषा, सम्परिष्वक्तः सम्यक्परिष्वक्तः एकीभूतः निरन्तरः सर्वात्मा, न बाह्यं किञ्चन वस्त्वन्तरम् , नापि आन्तरम् आत्मनि — अयमहमस्मि सुखी दुःखी वेति वेद । तत्र चैतन्यज्योतिःस्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्र अयं हेतुः मयोक्तः एकत्वम् , यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः । तत्र अर्थात् नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति ; नानात्वे च कारणम् — आत्मनो वस्त्वन्तरस्य प्रत्युपस्थापिका अविद्येत्युक्तम् । तत्र च अविद्याया यदा प्रविविक्तो भवति, तदा सर्वेण एकत्वमेव अस्य भवति ; ततश्च ज्ञानज्ञेयादिकारकविभागे असति, कुतो विशेषविज्ञानप्रादुर्भावः कामो वा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि । यस्मात् एवं सर्वैकत्वमेव अस्य रूपम् , अतः तत् वै अस्य आत्मनः स्वयञ्ज्योतिःस्वभावस्य एतत् रूपम् आप्तकामम् — यस्मात् समस्तमेतत् तस्मात् आप्ताः कामा अस्मिन् रूपे तदिदम् आप्तकामम् ; यस्य हि अन्यत्वेन प्रविभक्तः कामः, तत् अनाप्तकामं भवति, यथा जागरितावस्थायां देवदत्तादिरूपम् ; न त्विदं तथा कुतश्चित्प्रविभज्यते ; अतः तत् आप्तकामं भवति । किम् अन्यस्मात् वस्त्वन्तरात् न प्रविभज्यते, आहोस्वित् आत्मैव तत् वस्त्वन्तरम् , अत आह — नान्यदस्ति आत्मनः ; कथम् ? यत आत्मकामम् — आत्मैव कामाः यस्मिन् रूपे, अन्यत्र प्रविभक्ता इव अन्यत्वेन काम्यमानाः यथा जाग्रत्स्वप्नयोः, तस्य आत्मैव अन्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावात् — आत्मकामम् ; अत एव अकाममेतद्रूपम् काम्यविषयाभावात् ; शोकान्तरम् शोकच्छिद्रं शोकशून्यमित्येतत् , शोकमध्यमिति वा, सर्वथापि अशोकमेतद्रूपम् शोकवर्जितमित्यर्थः ॥

तद्वा अस्यैतदित्यनन्तरवाक्यतात्पर्यमाह —

इदानीमिति ।

विद्याविद्ययोस्तफलयोश्च प्रदर्शनानन्तरमिति यावत् ।

मोक्षमेव विशिनष्टि —

यत्रेति ।

पदद्वयस्यान्वयं दर्शयन्विवक्षितमर्थमाह —

तदेतदिति ।

यत्रेत्यन्तशब्दितं ब्रह्मोच्यते ।

व्याख्यातं पदद्वयमनूद्य वैशब्दस्य प्रसिद्धार्थत्वं मन्वानो रूपशब्देन षष्ठ्याः संबन्धं दर्शयति —

तदिति ।

अतिच्छन्दमिति प्रयोगे हेतुमाह —

रूपपरत्वादिति ।

कथमतिच्छन्दमित्यात्मरूपं विवक्ष्यते तत्राऽऽह —

छन्द इति ।

छन्दःशब्दस्य गायत्र्यादिच्छन्दोविषयस्य कथं कामविषयत्वमित्याशङ्क्याऽऽह —

अन्योऽसाविति ।

गायत्र्यादिविषयत्वं त्यक्त्वा छन्दःशब्दस्य कामविषयत्वमतःशब्दार्थः ।

यद्यात्मरूपं कामवर्जितमित्येतदत्र विवक्षितं किमिति तर्हि दैर्घ्यं प्रयुज्यते तत्राऽऽह —

तथाऽपीति ।

स्वाध्यायधर्मत्वं छान्दसत्वम् ।

वृद्धव्यवहामन्तरेण कामवाचित्वं छन्दःशब्दस्य कथमित्याशङ्क्याऽऽह —

अस्ति चेति ।

तस्य कामवचनत्वे सति सिद्धं यद्रूपमनूद्य तस्यार्थमुपसंहरति —

अत इति ।

तथा कामवर्जितत्ववदित्येतत् ।

नन्वत्राधर्मवर्जितत्वमेव प्रतीयते न धर्मवर्जितत्वं पाप्मशब्दस्याधर्ममात्रवचनत्वादत आह —

पाप्मशब्देनेति ।

उपक्रमानुसारेण पाप्मशब्दस्योभयविषयत्वे विशेषणमनूद्य विवक्षितमर्थं कथयति —

अपहतेति ।

तर्हि कार्यमेवाविद्याया निषिध्यते नेत्याह —

तत्कार्येति ।

तस्मादर्थे तच्छब्दः ।

वाक्यार्थमुपसंहरति   —

यदेतदिति ।

कूर्चब्राह्मणान्तेऽपीदं रूपमुक्तमित्याह —

इदं चेति ।

आगमवशात्तत्रोक्तं चेत्किमित्यत्र पुनरुच्यते तत्राऽऽह —

इह त्विति ।

सविशेषत्वं चेदात्मत्वानुपपत्तिरित्यादिस्तर्कः ।

आगमसिद्धे किं तर्कोपन्यासेनेत्याशङ्क्याऽऽह —

दर्शितेति ।

स्त्रीवाक्यस्य संगतिं वक्तुं वृत्तमनुद्रवति —

अयमिति ।

अनन्वागतवाक्ये चाऽऽत्मनश्चेतनत्वमुक्तमित्याह —

स यदिति ।

आत्मनः सदा चैतन्यज्योतिष्ट्वं स्वरूपं न केवलमुक्तादागमादेव सिद्धं किन्तु पूर्वोक्तादनुमानाच्च स्थितमित्याह —

स्थितं चेति ।

वृत्तमनूद्य संम्बन्धं वक्तुकामश्चोदयति —

स यदीति ।

अत्रेति सुषुप्तिरुक्ता ।

चैतन्यस्वभावस्यैव सुषुप्ते विशेषज्ञानाभावं साधयति —

उच्यत इति ।

सुषुप्तिः सप्तम्यर्थः । अज्ञानं विशेषज्ञानाभावः ।

कोऽसावज्ञानहेतुस्तमाह —

एकत्वमिति ।

जीवस्य परेणाऽऽत्मना यदेकत्वं तत्कथं सुषुप्ते विशेषज्ञानाभावे कारणं तस्मिन्सत्यपि चैतन्यस्वभावानिवृत्तेरिति शङ्कते —

तत्कथमिति ।

तत्र स्त्रीवाक्यमुत्तरत्वेनोत्थापयति —

उच्यत इति ।

तत्र दृष्टान्तभागमाचष्टे —

दृष्टान्तेनेति ।

एकत्वकृतो विशेषज्ञानाभावो विवक्षितोऽर्थः परिष्वङ्गप्रयुक्तसुखाभिनिवेशादज्ञानं किमिति कल्प्यते स्वाभाविकमेव तत्किं न स्यादित्याशङ्क्याऽऽह —

अपरिष्वक्तस्त्विति ।

तर्हि परिष्वङ्गवतोऽपि स्वभावविपरिलोपासंभवाद्विशेषविज्ञानं स्यादिति चेन्नेत्याह —

परिष्वङ्गेति ।

स्त्रीपुंसलक्षणयोर्व्यामिश्रत्वं परिष्वङ्गस्तदुत्तरकालं संभोगफलप्राप्तिरेकत्वापत्तिस्तद्वशाद्विशेषाज्ञानमित्यर्थः ।

दार्ष्टान्तिकं व्याकरोति —

एवमेवेति ।

भूतमात्राः शरीरेन्द्रियलक्षणास्ताभिश्चिदात्मनस्तादात्म्याध्यासात्तत्प्रतिबिम्बो जातस्ततो विभक्तवद्भातीत्यत्र दृष्टान्तमाह —

सैन्धवेति ।

तस्य देहादौ प्रवेशं दृष्टान्तेन दर्शयति —

जलादाविति ।

उपसर्गबललब्धमर्थं कथयति —

एकीभूत इति ।

तादात्म्यं व्यावर्तयितुं निरन्तर इत्युक्तम् ।

परमात्माभेदप्रयुक्तमनवच्छिन्नत्वमाह —

सर्वात्मेति ।

एवं स्त्रीवाक्याक्षराणि व्याख्याय चोद्यपरिहारं प्रकटयति —

तत्रेति ।

प्रत्यगात्मनीति यावत् । इहेति सुषुप्तिरुच्यते । यथा परिष्वक्तयोः स्त्रीपुंसयोरेकत्वं पुंसो विशेषविज्ञानाभावे कारणं तथा परेणाऽऽत्मना सुषुप्ते जीवस्यैकत्वं विशेषविज्ञानाभावे तस्य तत्र कारणमुक्तमित्यर्थः ।

स्त्रीवाक्ये श्रौतमर्थमभिधायाऽऽर्थिकमर्थमाह —

तत्रेति ।

किं पुनर्नानात्वे कारणमिति तदाह —

नानात्वे चेति ।

उक्तमथ योऽन्यामित्यादावित्यर्थः ।

किमेतावता सुषुप्ते विशेषविज्ञानाभावस्याऽऽयातं तत्राऽऽह —

तत्रेति ।

विशेषविज्ञाने नानात्वं तत्र चाविद्या कारणमिति स्थिते सतीति यावत् । यदा तदेति सुषुप्तिर्विवक्षिता । प्रविविक्तत्वं कार्यकारणाविद्याविरहितत्वम् । सर्वेण पूर्णेन परमात्मना सहेत्यर्थः । विज्ञानात्मा षष्ठ्योच्यते ।

एकत्वफलमाह —

ततश्चेति ।

उक्तमुपजीव्याऽऽप्तकामवाक्यमवतार्य व्याचष्टे —

यस्मादिति ।

आप्तकामत्वं समर्थयते —

यस्मात्समस्तमिति ।

तदेव व्यतिरेकमुखेन विशदयति —

यस्य हीत्यादिना ।

विशेषणान्तरमाकाङ्क्षापूर्वकमादाय व्याचष्टे —

किमन्यस्मादित्यादिना ।

सुषुप्तेरन्यत्राऽऽत्मनः सकाशादन्यत्वेन प्रविभक्ता इव काम्यमानाः सुषुप्तावात्मैव कामास्तस्मादात्मकाममात्मरूपमित्येतद्दृष्टान्तेनाऽऽह —

यथेति ।

अवस्थाद्वये खल्वात्मनः सकाशादन्यत्वेन प्रविभक्ता इव कामाः काम्यन्त इति कामाः । न चैवं सुषुप्त्यवस्थायामात्मनस्ते भिद्यन्ते किन्तु सुषुप्तस्याऽऽत्मैव कामा इत्यात्मकामस्तद्रूपमित्यर्थः ।

तस्याऽऽत्मैवेत्यत्र हेतुमाह —

अन्यत्वेति ।

यद्यपि सुषुप्तेऽविद्या विद्यते तथाऽपि न साऽभिव्यक्ताऽस्तीत्यनर्थपरिहारोपपत्तिरित्यर्थः । कामानामात्माश्रयत्वपक्षं प्रतिक्षेप्तुं तृतीयं विशेषणम् । शोकमध्यं शोकस्यान्तरं प्रत्यग्भूतमिति यावत् ।

तर्हि शोकवत्त्वं प्राप्तं नेत्याह —

सर्वथेति ।

पक्षद्वयेऽपि शोकशून्यमात्मरूपम् । न हि शोको येनाऽऽत्मवांस्तस्य शोकवत्त्वं शोकस्याऽऽत्माधीनसत्तास्फुर्तेरात्मातिरेकेणाभावादित्यर्थः ॥ २१ ॥