बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२ ॥
प्रकृतः स्वयञ्ज्योतिरात्मा अविद्याकामकर्मविनिर्मुक्त इत्युक्तम् , असङ्गत्वादात्मनः, आगन्तुकत्वाच्च तेषाम् । तत्र एवमाशङ्का जायते ; चैतन्यस्वभावत्वे सत्यपि एकीभावात् न जानाति स्त्रीपुंसयोरिव सम्परिष्वक्तयोरित्युक्तम् ; तत्र प्रासङ्गिकम् एतत् उक्तम् — कामकर्मादिवत् स्वयञ्ज्योतिष्ट्वमपि अस्य आत्मना न स्वभावः, यस्मात् सम्प्रसादे नोपलभ्यते — इत्याशङ्कायां प्राप्तायाम् , तन्निराकरणाय, स्त्रीपुंसयोर्दृष्टान्तोपादानेन, विद्यमानस्यैव स्वयञ्ज्योतिष्ट्वस्य सुषुप्ते अग्रहणम् एकीभावाद्धेतोः, न तु कामकर्मादिवत् आगन्तुकम् — इत्येतत् प्रासङ्गिकमभिधाय, यत्प्रकृतं तदेवानुप्रवर्तयति । अत्र च एतत् प्रकृतम् — अविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम् , यत् सुषुप्ते आत्मनो गृह्यते प्रत्यक्षत इति ; तदेतत् यथाभूतमेवाभिहितम् — सर्वसम्बन्धातीतम् एतद्रूपमिति ; यस्मात् अत्र एतस्मिन् सुषुप्तस्थाने अतिच्छन्दापहतपाप्माभयम् एतद्रूपम् , तस्मात् अत्र पिता जनकः — तस्य च जनयितृत्वात् यत् पितृत्वं पुत्रं प्रति, तत् कर्मनिमित्तम् ; तेन च कर्मणा अयमसम्बद्धः अस्मिन्काले ; तस्मात् पिता पुत्रसम्बन्धनिमित्तात्कर्मणो विनिर्मुक्तत्वात् पितापि अपिता भवति ; तथा पुत्रोऽपि पितुरपुत्रो भवतीति सामर्थ्याद्गम्यते ; उभयोर्हि सम्बन्धनिमित्तं कर्म, तत् अयम् अतिक्रान्तो वर्तते ; ‘अपहतपाप्म’ (बृ. उ. ४ । ३ । २१) इति हि उक्तम् । तथा माता अमाता ; लोकाः कर्मणा जेतव्याः जिताश्च — तत्कर्मसम्बन्धाभावात् लोकाः अलोकाः ; तथा देवाः कर्माङ्गभूताः — तत्कर्मसम्बन्धात्ययात् देवा अदेवाः ; तथा वेदाः — साध्यसाधनसम्बन्धाभिधायकाः, मन्त्रलक्षणाश्च अभिधायकत्वेन कर्माङ्गभूताः, अधीताः अध्येतव्याश्च — कर्मनिमित्तमेव सम्बध्यन्ते पुरुषेण ; तत्कर्मातिक्रमणात् एतस्मिन्काले वेदा अपि अवेदाः सम्पद्यन्ते । न केवलं शुभकर्मसम्बन्धातीतः, किं तर्हि, अशुभैरपि अत्यन्तघोरैः कर्मभिः असम्बद्ध एवायं वर्तते इत्येतमर्थमाह — अत्र स्तेनः ब्राह्मणसुवर्णहर्ता, भ्रूणघ्ना सह पाठादवगम्यते — सः तेन घोरेण कर्मणा एतस्मिन्काले विनिर्मुक्तो भवति, येन अयं कर्मणा महापातकी स्तेन उच्यते । तथा भ्रूणहा अभ्रूणहा । तथा चाण्डालः न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः, किं तर्हि सहजेनापि अत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एव अयम् ; चाण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नः, चण्डाल एव चाण्डालः ; सः जातिनिमित्तेन कर्मणा असम्बद्धत्वात् अचाण्डालो भवति । पौल्कसः, पुल्कस एव पौल्कसः, शूद्रेणैव क्षत्त्रियायामुत्पन्नः ; सोऽपि अपुल्कसो भवति । तथा आश्रमलक्षणैश्च कर्मभिः असम्बद्धो भवतीत्युच्यते ; श्रमणः परिव्राट् — यत्कर्मनिमित्तो भवति, सः तेन विनिर्मुक्तत्वात् अश्रमणः ; तथा तापसः वानप्रस्थः अतापसः ; सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थम् उभयोर्ग्रहणम् । किं बहुना ? अनन्वागतम् — न अन्वागतम् अनन्वागतम् असम्बद्धमित्येतत् , पुण्येन शास्त्रविहितेन कर्मणा, तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन ; रूपपरत्वात् नपुंसकलिङ्गम् ; ‘अभयं रूपम्’ (बृ. उ. ४ । ३ । २१) इति हि अनुवर्तते । किं पुनः असम्बद्धत्वे कारणमिति तद्धेतुरुच्यते — तीर्णः अतिक्रान्तः, हि यस्मात् , एवंरूपः, तदा तस्मिन्काले, सर्वान् शोकान् — शोकाः कामाः ; इष्टविषयप्रार्थना हि तद्विषयवियोगे शोकत्वमापद्यते ; इष्टं हि विषयम् अप्राप्तं वियुक्तं च उद्दिश्य चिन्तयानस्तद्गुणान् सन्तप्यते पुरुषः ; अतः शोको रतिः काम इति पर्यायाः । यस्मात् सर्वकामातीतो हि अत्र अयं भवति — ‘न कञ्चन कामं कामयते’ (बृ. उ. ४ । ३ । १९) ‘अतिच्छन्दा’ (बृ. उ. ४ । ३ । २०) इति ह्युक्तम् , तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचन एव भवितुमर्हति ; कामश्च कर्महेतुः ; वक्ष्यति हि ‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते’ (बृ. उ. ४ । ४ । ५) इति — अतः सर्वकामातितीर्णत्वात् युक्तमुक्तम् ‘अनन्वागतं पुण्येन’ इत्यादि । हृदयस्य — हृदयमिति पुण्डरीकाकारो मांसपिण्डः, तत्स्थम् अन्तःकरणं बुद्धिः हृदयमित्युच्यते, तात्स्थ्यात् , मञ्चक्रोशनवत् , हृदयस्य बुद्धेः ये शोकाः ; बुद्धिसंश्रया हि ते, ‘कामः सङ्कल्पो विचिकित्सेत्यादि — सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इत्युक्तत्वात् ; वक्ष्यति च ‘कामा येऽस्य हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७) इति ; आत्मसंश्रयभ्रान्त्यपनोदाय हि इदं वचनम् ‘हृदि श्रिताः’ ‘हृदयस्य शोकाः’ इति च । हृदयकरणसम्बन्धातीतश्च अयम् अस्मिन्काले ‘अतिक्रामति मृत्यो रूपाणि’ (बृ. उ. ४ । ३ । ७) इति हि उक्तम् ; हृदयकरणसम्बन्धातीतत्वात् , तत्संश्रयकामसम्बन्धातीतो भवतीति युक्ततरं वचनम् ॥

अत्र पितेत्यादिवाक्यमवतारयितुं वृत्तमनुद्रवति —

प्रकृत इति ।

अविद्यादिनिर्मोके हेतुद्वयमाह —

असंगत्वादिति ।

यद्यपि नाऽऽगन्तुकत्वमविद्याया युक्तं तथाऽप्यभिव्यक्ता साऽनर्थहेतुरागन्तुकीति द्रष्टव्यम् ।

स्त्रीवाक्यनिरस्यां शङ्कामनुवदति —

तत्रेति ।

कामादिविमोके दर्शिते सतीति यावत् ।

स्वभावस्यापायो न संभवतीत्यभिप्रेत्य हेतुमाह

यस्मादिति  ।

शङ्कोत्तरत्वेन स्त्रीवाक्यमवतार्य तात्पर्यं पूर्वोक्तमनुकीर्तयति —

स्वयमिति ।

वृत्तमनूद्योत्तरग्रन्थमुत्थापयति —

इत्येतदिति ।

स्वयञ्ज्योतिष्ट्वस्य स्वाभाविकत्वमेतच्छब्दार्थः । प्रासंगिकं कामादेरागन्तुकत्वोक्तिप्रसंगादागतमिति यावत् ।

प्रकृतमेव दर्शयति —

अत्र चेति ।

अतिच्छन्दादिवाक्यं सप्तम्यर्थः । प्रत्यक्षतः स्वरूपचैतन्यवशाद्यथोक्तात्मरूपस्य सुषुप्ते गृह्यमाणत्वमुत्थितस्य परामर्शादवधेयम् ।

कामादिसंबन्धवदात्मनस्तद्रहितमपि रूपं कल्पितमेवेत्याशङ्क्याऽऽह —

तेदेतदिति ।

प्रकृतमर्थमुक्त्वोत्तरवाक्यस्थसप्तम्यर्थमाह —

एतस्मिन्निति ।

जनकोऽप्यत्रापिता भवतीति संबन्धः ।

पिताऽप्यत्रापिता भवतीत्युपपादयति —

तस्य चेत्यादिना ।

यथाऽस्मिन्काले पिता पुत्रस्यापिता भवति तद्वदित्याह —

तथेति ।

नास्यार्थस्य प्रतिपादकः शब्दोऽस्तीत्याशङ्क्याऽऽह —

सामर्थ्यादिति ।

तदेव सामर्थ्यं दर्शयति —

उभयोरिति ।

सुषुप्ते कर्मातिक्रमे प्रमाणमाह —

अपहतेति ।

पुनर्लोकदेवशब्दावनुवादार्थौ ।

वाक्यान्तरमादाय व्याचष्टे —

तथेत्यादिना ।

साध्यसाधनसंबन्धाभिधायका ब्राह्मणलक्षणा इति शेषः । अभिधायकत्वेन प्रमाणत्वेन प्रमेयत्वेन चेत्यर्थः ।

अत्र स्तेनोऽस्तेनो भवतीत्याद
“ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः” (या.स्मृ.१-९३)

इति स्मृतिमाश्रित्याऽऽह —

चाण्डालो नामेति ।

’जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः’ । इति स्मृतेः शूद्रायां ब्राह्मणाज्जातो निषादः स च जात्या शूद्रस्तस्मात्क्षत्रियायां जातः पुल्कसो भवतीति व्याख्यानमुपेत्याऽऽह —

शूद्रेणैवेति ।

श्रमणादिवाक्यस्य तात्पर्यमाह —

तथेति ।

तथा चाण्डालवदिति यावत् ।

परिव्राट्तापसयोरेव ग्रहणात्तत्कर्मायोगेऽपि सौषुप्तस्य वर्णाश्रमान्तरकर्मयोगं शङ्कित्वाऽऽह —

सर्वेषामिति ।

अदिशब्देन वयोवस्थादि गृह्यते ।

सौषुप्ते पुरुषे प्रकृते कथमनन्वागतमिति नपुंसकप्रयोगस्तत्राऽऽह —

रूपपरत्वादिति ।

तत्परत्वे हेतुमनुषङ्गं दर्शयति —

अभयमिति ।

हेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —

किं पुनरित्यादिना ।

यस्मादतिच्छन्दादिवाक्योक्तस्वभावोऽयमात्मा सुषुप्तिकाले हृदयनिष्ठान्सर्वाञ्छोकानतिक्रामति तस्मादेतदात्मरूपं पुण्यपापाभ्यामनन्वागतं युक्तमित्यर्थः ।

शोकशब्दस्य कामविषयत्वं साधयति —

इष्टेति ।

कथं तस्याः शोकत्वापत्तिरित्याशङ्क्याऽऽह —

इष्टं हीति ।

तेषां पर्यायत्वेऽपि प्रकृते किमायातं तदाह —

यस्मादिति ।

अत्रेति सुषुप्तिरुच्यते । अतः सर्वकामातितीर्णत्वादित्युत्तरत्र संबन्धः ।

न केवलं शोकशब्दस्य कामविषयत्वमुपपन्नमेव किन्तु संनिधेरपि सिद्धमित्याह —

न कञ्चनेति ।

शोकशब्दस्य कामविषयत्वेऽपि तदत्ययमात्रात्कथं कर्मात्ययः स्यदित्याशङ्क्याऽऽह —

कामश्चेति ।

तत्र वाक्यशेषं प्रमाणयति —

वक्ष्यति हीति ।

कामस्य कर्महेतुत्वे सिद्धे फलितमाह —

अत इति ।

हृदयस्य शोकानतिक्रामतीत्यत्र हृदयशब्दार्थमाह —

हृदयमितीति ।

मांसपिण्डविशेषविषयं हृदयपदं कथं बुद्धिमाहेत्याशङ्क्याऽऽह —

तात्स्थ्यादिति ।

तथा मञ्चाः क्रोशन्तीति मञ्चक्रोशनमुच्यमानं मञ्चस्थान्पुरुषानुपचारादाह तथा हृदयस्थत्वाद्बुद्धेरुपचारबुद्धिं हृदयशब्दो दर्शयतीत्यर्थः ।

हृदयशब्दार्थमुक्त्वा तस्य संबन्धं दर्शयति —

हृदयस्येति ।

तानतिक्रान्तो भवतीति शेषः ।

आत्माश्रयास्ते न बुद्धिमाश्रयन्तीत्याशङ्क्याऽऽह —

बुद्धीति ।

कथं तर्हि केचिदात्माश्रयत्वं तेषां वदन्तीत्याशङ्क्य भ्रान्तिवशादित्याह —

आत्मेति ।

भवतु कामानां हृदयाश्रितत्वं तथाऽपि तत्संबन्धद्वारा तदाश्रयत्वसंभवात्कथमात्मा सुषुप्ते कामानतिवर्तते तत्राऽऽह —

हृदयेति ।

तत्संबन्धातीतत्वे श्रुतिसिद्धे फलितमाह —

हृदयकरणेति ।