भर्तृप्रपञ्चप्रस्थानमुत्थापयति —
ये त्विति ।
सत्येव हृदये तन्निष्ठानां कामादीनामात्मन्युपश्लेषो न तन्निवृत्तावित्याशङ्क्याऽऽह —
हृदयवियोगेऽपीति ।
तन्मते श्रुतिविरोधमाह —
तेषामिति ।
हृदयेन करणेनोत्पाद्यत्वादात्मविकाराणामपि कामादीनां हृदयसंबन्धसंभावान्नाऽऽनर्थक्यं श्रुतीनामिति शङ्कते —
हृदयेति ।
न कामादिसंबन्धमात्रं हृदयस्य श्रुत्यर्थः किन्त्वाश्रयाश्रयित्वं तच्च करणत्वे न स्यात् । न हि चक्षुराद्याश्रयं रूपादिज्ञानं दृष्टमिति परिहरति —
न हृदीति ।
चकाराद्वचनं न समञ्जसमिति संबध्यते ।
प्रदीपायत्तं घटज्ञानमिति वदन्तः करणायत्तमात्माश्रितं कामादिति तस्य तदाश्रयत्ववचनमौपचारिकमित्याशङ्क्याऽऽह —
आत्मविशुद्धेश्चेति ।
इतश्चेदं यथार्थमेवेत्याह —
ध्यायतीवेति ।
अन्यार्थासंभवाद्बुध्याश्रयणवचनस्येति शेषः ।
दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्रमुच्यन्ते हृदि श्रिता इति विशेषणमाश्रित्याऽऽशङ्कते —
कामा य ति ।
प्रकारान्तरेण विशेषणस्यार्थवत्त्वं दर्शयति —
नेत्यादिना ।
अत्रेति प्रकृतश्रुत्युक्तिः । आश्रयान्तरं बुद्ध्यतिरिक्तमात्माख्यम् ।
बुद्ध्यनाश्रिताः कामा एव न सन्ति यदपेक्षया हृदयाश्रयत्वविशेषणमित्याशङ्क्याऽऽह —
ये त्विति ।
प्रतिपक्षतो विषयदोषदर्शनादिति यावत् ।
कामानां वर्तमानत्वनियमाभावाद्भूतभविष्यतामपि संभवे फलितमाह —
अत इति ।
हृदयानाश्रितभूतभविष्यत्कामसंभवेऽपि सर्वकामनिवृत्तेर्विवक्षितत्वाद्वर्तमानविशेषणमनर्थकमिति शङ्कते —
तथाऽपीति ।
अतीतानागतकामाभावः संभवति स्वतः सिद्धो न तन्निवृत्तौ यत्नोऽपेक्ष्यते शुद्धात्मदिदृक्षुणा तु मुमुक्षुणा वर्तमानकामनिरासे यत्नाधिक्यमाधेयमिति ज्ञापयितुं वर्तमानग्रहणमिति परिहरति —
न तेष्विति ।
यदि यथोक्तं व्याख्यानमनादृत्याऽऽत्माश्रयत्वमेव कामानामाश्रीयते तदाऽश्रुतं मोक्षासंभवेनानिष्टं च कल्पितं स्यादित्याह —
इतरथेति ।
अश्रुतत्वमसिद्धमिति शङ्कते —
न कञ्चनेति ।
अर्थादाश्रयत्वं श्रुतमेव कामानामित्येतद्दूषयति —
नेत्यादिना ।
निषेधो हि प्राप्तिमपेक्षते न वास्तवं कामानामात्मधर्मत्वं प्राप्तिस्तु भ्रान्त्याऽपि संभवति । तस्मादात्मनो वस्तुतो न कामाद्याश्रयत्वमित्यर्थः ।
इतश्चाऽऽत्मनो न कामाद्याश्रयत्वमित्याह —
प्रसंगेति ।
नन्वसंगवचनमात्मनः संगाभावं साधयत्तस्य कामित्वे न विरुध्यते तत्राऽऽह —
संगश्चेति ।
कामश्च संगस्ततोऽसिद्धो हेतुरत्रेति शेषः ।
वाक्यान्तरमाश्रित्याऽऽत्मनि कामाश्रयत्वं शङ्कित्वा दूषयति —
आत्मेत्यादिना ।
इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपादिवदित्यनुमानात्परिशेषात्कामाद्याश्रयत्वमात्मनः सेत्स्यतीति शङ्कते —
वैशेषिकादीति ।
श्रुत्यवष्टम्भेन निराचष्टे —
नेत्यादिना ।
स्वयञ्ज्योतिष्ट्वबाधनाच्च नाऽऽत्माश्रयत्वं कामादीनामिति शेषः ।
तदेव विवृणोति —
कामादीनामिति ।
स्थितं चानुमानादिति शेषः । यद्यत्र समवेतं तत्तेन न दृश्यते । यथा चक्षुर्गतं कार्ष्ण्यं तेनैव चक्षुषा न दृश्यते तथा कामादीनामात्मसमवायित्वे दृश्यत्वं न स्याद्दृश्यत्वबलेनैव स्वयञ्ज्योतिष्ट्वं साधितं तथा च तद्बाधे पूर्वोक्तमनुमानमपि बाध्येतेत्यर्थः ।
कथं कामादीनामात्मदृश्यत्वमाश्रित्य स्वप्ने स्वयञ्ज्योतिष्ट्वस्योपदिष्टत्वं तत्राऽऽऽह —
द्रष्टुरिति ।
तथाऽपि तेषामात्माश्रयत्वे काऽनुपपत्तिस्तत्राऽऽह —
तद्बाधितमिति ।
यत्तु परमात्मैकदेशं जीवमाश्रित्य तदाश्रितं कामादिति तत्राऽऽह —
सर्वशास्त्रेति ।
तदेव स्फुटयति —
परस्येति ।
शास्त्रार्थजातं निरवयवत्वप्रत्यगेकत्वादि तस्य कथं कोपः स्यादित्याशङ्क्याऽऽह —
एतच्चेति ।
चतुर्थे चेद्भर्तृप्रपञ्चमतं निरस्तं तर्हि पुनर्निराकरणमकिञ्चित्करमित्याशङ्क्याऽऽह —
महतेति ।
परेण सह प्रत्यगात्मनो यदेकत्वं तस्य शास्त्रार्थस्य सिद्ध्यर्थमिति यावत् ।
अंशत्वादिकल्पनायामपि शास्त्रार्थसिद्धिमाशङ्क्याऽऽह —
तत्कल्पनायामिति ।
भर्तृप्रपञ्चकल्पनाया हेयत्वमुपसंहरति —
यथेत्यादिना ॥ २२ ॥