बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स्त्रीपुंसयोरिव एकत्वात् न पश्यतीत्युक्तम् , स्वयञ्ज्योतिरिति च ; स्वयञ्ज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता ; यदि हि अग्न्युष्णत्वादिवत् चैतन्यात्मस्वभाव आत्मा, सः कथम् एकत्वेऽपि हि स्वभावं जह्यात् , न जानीयात् ? अथ न जहाति, कथमिह सुषुप्ते न पश्यति ? विप्रतिषिद्धमेतत् — चैतन्यमात्मस्वभावः, न जानाति चेति । न विप्रतिषिद्धम् , उभयमप्येतत् उपपद्यत एव ; कथम् —

यद्वै तन्न पश्यतीत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —

स्त्रीपुंसयोरिति ।

चकारादुक्तं स्वयञ्ज्योतिष्ट्वमिति संबध्यते ।

किमिदं स्वयञ्ज्योतिष्ट्वमिति तदाह —

स्वयञ्ज्योतिष्ट्वं नामेति ।

एवं वृत्तमनूद्योत्तरवाक्यव्यावर्त्यां शङ्कामाह —

यदीत्यादिना ।

स्वभावत्यागमेवाभिनयति —

न जानीयादिति ।

तत्त्यागाभावे सुषुप्ते विशेषविज्ञानराहित्यमयुक्तमित्याह —

अथेत्यादिना ।

आत्मा चिद्रूपोऽपि सुषुप्ते विशेषं न जानाति चेत्किं दुष्यतीत्याशङ्क्याऽऽह —

विप्रतिषिद्धमिति ।

परिहरति —

नेति ।

उभयं चैतन्यस्वभावत्वं विशेषविज्ञानराहित्यं चेत्यर्थः ।

उभयस्वीकारे शङ्कितं विप्रषेधमाकाङ्क्षापूर्वकं श्रुत्या निराकरोति —

कथमित्यादिना ।