बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् । न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३ ॥
यद्वै सुषुप्ते तत् न पश्यति, पश्यन्वै तत् तत्र पश्यन्नेव न पश्यति । यत् तत्र सुषुप्ते न पश्यतीति जानीषे, तत् न तथा गृह्णीयाः ; कस्मात् ? पश्यन्वै भवति तत्र । ननु एवं न पश्यतीति सुषुप्ते जानीमः, यतः न चक्षुर्वा मनो वा दर्शने करणं व्यापृतमस्ति ; व्यापृतेषु हि दर्शनश्रवणादिषु, पश्यतीति व्यवहारो भवति, शृणोतीति वा ; न च व्यापृतानि करणानि पश्यामः ; तस्मात् न पश्यत्येव अयम् । न हि ; किं तर्हि पश्यन्नेव भवति ; कथम् ? न — हि यस्मात् द्रष्टुः दृष्टिकर्तुः या दृष्टिः, तस्या दृष्टेः विपरिलोपः विनाशः, सः न विद्यते । यथा अग्नेरौष्ण्यं यावदग्निभावि, तथा अयं च आत्मा द्रष्टा अविनाशी, अतः अविनाशित्वात् आत्मनो दृष्टिरपि अविनाशिनी, यावद्द्रष्टृभाविनी हि सा । ननु विप्रतिषिद्धमिदमभिधीयते — द्रष्टुः सा दृष्टिः न विपरिलुप्यते इति च ; दृष्टिश्च द्रष्ट्रा क्रियते ; दृष्टिकर्तृत्वात् हि द्रष्टेत्युच्यते ; क्रियमाणा च द्रष्ट्रा दृष्टिः न विपरिलुप्यत इति च अशक्यं वक्तुम् ; ननु न विपरिलुप्यते इति वचनात् अविनाशिनी स्यात् , न, वचनस्य ज्ञापकत्वात् ; न हि न्यायप्राप्तो विनाशः कृतकस्य वचनशतेनापि वारयितुं शक्यते, वचनस्य यथाप्राप्तार्थज्ञापकत्वात् । नैष दोषः, आदित्यादिप्रकाशकत्ववत् दर्शनोपपत्तेः ; यथा आदित्यादयः नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति ; न हि अप्रकाशात्मानः सन्तः प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते, किं तर्हि स्वभावेनैव नित्येन प्रकाशेन — तथा अयमपि आत्मा अविपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टेत्युच्यते । गौणं तर्हि द्रष्टृत्वम् , न, एवमेव मुख्यत्वोपपत्तेः ; यदि हि अन्यथापि आत्मनो द्रष्टृत्वं दृष्टम् , तदा अस्य द्रष्टृत्वस्य गौणत्वम् ; न तु आत्मनः अन्यो दर्शनप्रकारोऽस्ति ; तत् एवमेव मुख्यं द्रष्टृत्वमुपपद्यते, नान्यथा — यथा आदित्यादीनां प्रकाशयितृत्वं नित्येनैव स्वाभाविकेन अक्रियमाणेन प्रकाशेन, तदेव च प्रकाशयितृत्वं मुख्यम् , प्रकाशयितृत्वान्तरानुपपत्तेः । तस्मात् न द्रष्टुः दृष्टिः विपरिलुप्यते इति न विप्रतिषेधगन्धोऽप्यस्ति । ननु अनित्यक्रियाकर्तृविषय एव तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टः — यथा छेत्ता भेत्ता गन्तेति, तथा द्रष्टेत्यत्रापीति चेत् — न, प्रकाशयितेति दृष्टत्वात् । भवतु प्रकाशकेषु, अन्यथा असम्भवात् , न त्वात्मनीति चेत् — न, दृष्ट्यविपरिलोपश्रुतेः । पश्यामि — न पश्यामि — इत्यनुभवदर्शनात् नेति चेत् , न, करणव्यापारविशेषापेक्षत्वात् ; उद्धृतचक्षुषां च स्वप्ने आत्मदृष्टेरविपरिलोपदर्शनात् । तस्मात् अविपरिलुप्तस्वभावैव आत्मनो दृष्टिः ; अतः तया अविपरिलुप्तया दृष्ट्या स्वयञ्ज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते ॥

यद्वै तदित्यादिवाक्यं चोदितार्थानुवादस्तत्परिहारस्तु पश्यन्नित्यादिवाक्यमिति विभजते —

यत्तत्रेति ।

न हीत्यादिवाक्यनिरस्यामाशङ्कामाह —

नन्विति ।

चक्षुरादिव्यापाराभावेऽपि सुषुप्ते दर्शनादि किं न स्यादित्याशङ्क्याऽऽह —

व्यापृतेष्विति ।

अस्तु तर्हि तत्रापि करणव्यापारो नेत्याह —

न चेति ।

अयमिति सुषुप्तपुरुषोक्तिः ।

न पश्यत्येवेति नियमं निषेधति   —

न हीति ।

तत्र हेतुं वक्तुं प्रश्नपूर्वकं प्रतिज्ञां प्रस्तौति —

किं तर्हीति ।

तत्राऽऽकाङ्क्षापूर्वकं हेतुवाक्यमुत्थाप्य व्याचष्टे —

कथमित्यादिना ।

अविनाशित्वादित्येतद्व्याकुर्वन्दृष्टेर्विनाशाभावं स्पष्टयति —

यथेत्यादिना ।

द्रष्टुर्दृष्टिर्न नश्यतीत्यत्र विरोधं चोदयति —

नन्विति ।

विप्रतिषेधमेव साधयति —

दृष्टिश्चेति ।

कार्यस्यापि वचनादविनाशः स्यादिति शङ्कते —

नन्विति ।

तस्याकारकत्वान्नैवमिति परिहरति —

न वचनस्येति ।

तदेव स्फुटयति —

न हीति ।

यत्कृतकं तदनित्यमिति व्याप्त्यनुगृहीतानुमानविरोधाद्वचो न कार्यनित्यत्वबोधकमित्यर्थः ।

कूटस्थदृष्टिरेवात्र द्रष्टृशब्दार्थो न दृष्टिकर्ता तन्न विप्रषेधोऽस्तीति सिद्धान्तयति —

नैष दोष इति ।

आदित्यादिप्रकाशकत्ववदित्युक्तं दृष्टान्तं व्याचष्टे —

यथेति ।

दृष्टान्तेऽपि विप्रतिपन्नं प्रत्याऽऽह —

न हीति ।

दर्शनोपपत्तेरित्युक्तं दार्ष्टान्तिकं विभजते —

तथेति ।

आत्मनो नित्यदृष्टित्वे दोषमाशङ्कते —

गौणमिति ।

गौणस्य मुख्यापेक्षत्वान्मुख्यस्य चान्यस्य द्रष्टृत्वस्याभावान्मैवमित्युत्तरमाह —

नेत्यादिना ।

तामेवोपपत्तिमुपदर्शयति —

यदि हीत्यादिना ।

अन्यथा कूटस्थदृष्टित्वमन्तरेणेति यावत् । दर्शनप्रकारस्यान्यत्वं क्रियात्मत्वम् । तस्य निष्क्रियत्वश्रुतिस्मृतिविरोधादिति शेषः ।

द्रष्टृत्वान्तरानुपपत्तौ फलितमाह —

तदेवमेवेति ।

नित्यदृष्टित्वेनैवेत्यर्थः ।

उक्तेऽर्थे दृष्टान्तमाह —

यथेत्यादिना ।

तथाऽऽत्मनोऽपि द्रष्टृत्वं नित्येनैव स्वाभाविकेन चैतन्यज्योतिषा सिध्यति तदेव च द्रष्टृत्वं मुख्यं द्रष्टृत्वान्तरानुपपत्तेरिति शेषः ।

आत्मनो नित्यदृष्टिस्वभावत्वे फलितमाह —

तस्मादिति ।

तृजन्तं दृष्टृशब्दमाश्रित्य शङ्कते —

नन्विति ।

अत्राप्यनित्यक्रियाकर्तृविषयस्तृजन्तशब्दप्रयोग इति शेषः ।

तृजन्तशब्दप्रयोगस्यानित्यक्रियाकर्तृविषयत्वं व्यभिचरयन्नुत्तरमाह —

नेति ।

वैषम्याशङ्कते —

भवत्विति ।

आदित्यादिषु स्वाभाविकप्रकाशेन प्रकाशयितृत्वमस्तु कादाचित्कप्रकाशेन प्रकाशयितृत्वस्य तेष्वसंभवान्न त्वात्मनि नित्या दृष्टिरस्ति तन्मानाभावात् । तथा च कादाचित्कदृष्ट्यैव तस्य द्रष्टृतेत्यर्थः ।

प्रतीचश्चिद्रूपत्वस्य श्रौतत्वात्कर्तृत्वं विना प्रकाशयितृत्वमविशिष्टमित्युत्तरमाह —

न दृष्टीति ।

कूटस्थदृष्टिरात्मेत्युक्ते प्रत्यक्षविरोधं शङ्कते —

पश्यामीति ।

द्विविधोऽनुभवस्तस्य कूटस्थदृष्टित्वमनुगृह्णाति चक्षुरादिव्यापारभावापेक्षया पश्यामि न पश्यामीति धियोरात्मसाक्षिकत्वादित्युत्तरमाह —

न करणेति ।

आत्मदृष्टेर्नित्यत्वे हेत्वन्तरमाह —

उद्धृतेति ।

आत्मदृष्टेर्नित्यत्वमुपसंहरति —

तस्मादिति ।

तन्नित्यत्वोक्तिफलमाह —

अत इति ।