वाक्यान्तरमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —
कथमित्यादिना ।
द्वितीयादिपदानां पौनरुक्त्यमाशङ्क्यार्थभेदं दर्शयति —
यद्धीत्यादिना ।
साभासमन्तःकरणं यत्पश्येदिति विशेषदर्शनकरणं प्रमातृ द्वितीयं तस्मादन्यच्चक्षुरादि प्रमाणं रूपादि च प्रमेयं विभक्तं तत्सर्वं जाग्रत्स्वप्नयोरविद्याप्रतिपन्नं सुषुप्तिकाले कारणमात्रतां गतमभिव्यक्तं नास्तीत्यर्थः ।
सुषुप्ते द्वितीयं प्रमातृरूपं नास्तीत्येतदुपपादयति —
आत्मन इति ।
प्रमातृरूपं पृथङ्नास्तीति शेषः ।
तथाऽपि करणव्यापारकृतं विषयदर्शनमात्मनः स्यादित्याशङ्क्याऽऽह —
द्रष्टुरिति ।
सुषुप्तस्यापि परिच्छिन्नत्वमाशङ्क्याऽऽह —
अयं त्विति ।
तस्य परेणैकीभावफलमाह —
तेनेति ।
विषयेन्द्रियाभावकृतं फलमाह —
तदभावादिति ।
किमिति विषयाद्यभावाद्विशेषदर्शनं निषिध्यते सत्त्वमेव तस्याऽऽत्मसत्त्वाधीनं किं न स्यादित्याशङ्क्याऽऽह —
करणादिति ।
नन्ववस्थाद्वये विशेषदर्शनमात्मकृतं प्रतिभाति तस्य प्रधानत्वादत आह —
आत्मकृतमिवेति ।
नन्वित्यादेस्तात्पर्यमुपसंहरति —
तस्मादिति ।
प्रमातृकरणविषयकृतत्वाद्विशेषदृष्टेस्तेषां च सुषुप्ताभावात्तत्कार्याया विशेषदृष्टेरपि तत्राभावादिति यावत् । तत्कृता जागरादावात्मकृतत्वेन भ्रान्तिप्रतिपन्नविशेषदर्शनाभावप्रयुक्तेत्यर्थः ॥ २३ ॥